पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
[अथ प्रथमकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः]
अष्टमे सोमस्य शकटारोपणमुक्तमारोपितस्य नवमे गमनमुच्युते।
प्र च्यवस्वेति। बौधायनः — “सुब्रह्मण्योमिति त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरा दधच्छ्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सस्कृतमिति प्रदक्षिणं राजानं परिवहन्त्यथैतावञ्जसोपसंक्रामतोऽध्वर्युर्यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति” इति।
आपस्तम्ब उक्तमन्त्रद्वयं त्रेधा विभजति —
‘प्र च्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तते श्येनो भूत्वा परा पतेत्यध्वर्यू राजानमभिमन्त्रयतेऽपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः’ इति।
भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युपलक्ष्यन्ते। तेषां च भूतानां पालकत्वात्पतिः सोमः। हे भूतपते सोम विश्वानि धामानि प्राचीनवंशहविर्धानादिस्थानान्यभिलक्ष्य प्रकर्षेण व्यवस्व गच्छ। परिपरी मार्गे बाधकस्तस्करप्रभुः स त्वां मा जानातु। परिपन्थिनस्तद्भृत्यास्तेऽपि त्वां मा जानन्तु। वृका अरण्यश्वानः। अघं पापं वधरूपमिच्छन्तीत्यघायवः। तेऽपि त्वां मा जानन्तु। विश्वावसुर्गन्धर्वः स्वर्गमार्गे सोमस्यापहर्ता। सोऽपि त्वां मा दधत्, मा प्रतीक्षताम्। हे सोम त्वं श्येनवदुत्पतनसमर्थो भूत्वाऽस्मद्यजमानस्य गृहे प्राचीनवंशे परापत शीघ्रं गच्छ। देवसदृशैरध्वर्यु्प्रभृतिभिस्तवोपवेशनायऽऽसन्दीरूपं स्थानं संस्कृतम्। स्वस्ति श्रेयोरूपो यज्ञस्तस्यायनं प्राप्तिस्तदस्यास्तीति स्वस्त्ययनी यजमानस्य यज्ञप्रापकोऽसि। अपि च वयं पन्थानमनुष्ठानरूपमगस्महि प्राप्ताः। कीदृशं स्वस्तिगां श्रेयःप्रापकम्। अनेहसं नकारस्य व्यत्ययेन हकारः। अनेनसं पापरहितम्। येन पथा विश्वा द्विपः सर्वान्वैरिणः परिवृणक्ति सर्वतो वर्जयति। किंच येन पथा द्रव्यं लभते, तादृशं पन्थानं प्राप्ताः।
प्रथममन्त्रे यथोक्तमर्थं प्रसिद्धतया स्पष्टयति —
“प्र च्यवस्व भुवस्पत इत्याह भूताना ह्येष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्येषोऽभि धामानि प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं गन्धर्वो विश्ववसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय” (सं. का. ६ प्र. १ अ. ११) इति।
पूर्वं गन्धर्वेण सोमस्यापहृतत्वादस्ति तस्करप्रसक्तिस्तस्मान्मा त्वेत्यादिकं वक्तव्यम्।
द्वितीयमन्त्रे स्वस्त्ययनी(नि)शब्देन यज्ञप्राप्तिर्विवक्षितेत्याह —
“यजमानस्य स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. १ अ. ५) इति।
तृतीयमन्त्रो ब्राह्मणेनोपेक्षितः।
नम इति। कल्पः — “अथाग्रेण शालां तिष्ठन्नोह्यमानं राजानं प्रति मन्त्रयते। नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृत सपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शसतेति” इति। अस्मिन्मन्त्रे सूर्यरूपेण सोमः स्तूयते — मित्रस्य मित्राय नमः। कीदृशाय। वरुणस्य स्वरश्मिभिर्जगदावृणते। पुनः कीदृशाय। चक्षसे सर्वज्ञाय। हे ऋत्विजो महो महते तस्मै देवाय देवप्रीत्यर्थं सपर्यत सपर्यां सेवां कुरुत। किं कृत्वा। तज्ज्योतिष्टोमरूपमृतं सत्यमवश्यफलप्रदं कर्म कृत्वा। किंच सूर्याय शंसत सूर्यप्रीत्यर्थं स्तुतिं कुरुत। कीदृशाय सूर्याय। दूरे दृश्यमानाय देवत्वेन जाताय केतेवेऽह्नो लक्षणभूताय द्युलोकस्य पुत्रवत्प्रियाय।
अस्मिन्मन्त्रे वरुणशब्दाभिप्रायमाह —
“वरुणे वा एष यजमानमभ्यैति यत्क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति। यः सोम उपनद्ध एव वरुणरूपः सन्यजमानमभिलक्ष्य समागच्छत्यतो वरुणनमस्कारेण तत्त्वत उपद्रवः शाम्यति।
यद्यप्यग्नीषोमीयस्य पशोर्नायमनुष्ठानकालस्तथाऽपि प्रसङ्गात्तं पशुं विधित्सुः प्रसङ्गं तावद्दर्शयति —
“आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ यजमानमभि सं भवतः पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितः” (सं. का. ६ प्र. १ अ. ११) इति।
ऋत्विजः प्राचीनवंशगतस्याऽऽहवनीयस्याग्नेः समीपं प्रति सोममानयन्ति। स च सोमोऽग्निना समेत्य प्रतिष्ठितो भवति। तौ चाग्नीषोमौ परस्परं यदा संगच्छेते तदा यजमानमभिलक्ष्य संगतौ भवतः। तदेतदवगम्य किल पुरा यो दीक्षितः स एष यज्ञार्थं स्वात्मानमेवाऽऽलभ्य पशुत्वेनोपाकृत्य प्रचरति। सोऽयं प्रसङ्गः।
इदानीं विधत्ते —
“यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य सः” (सं. का. ६ प्र. १ अ. ११) इति।
अस्य यजमानस्य पश्वालम्भ आत्मनिष्क्रमणः। पशुं मूल्यत्वेनाग्नीषोमाभ्यां दत्त्वा तेन तयोः स्वभूतमात्मानं निष्क्रीणाति।
अत्र हविःशेषभक्षणं पूर्वपक्षतया निषेधति —
“तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव हि” (सं. का. ६ प्र. १ अ. ११) इति।
यस्मादयं पशुः पुरुषस्य मूल्यमिव तस्मात्तस्य पशोः संबन्धि हविर्न भक्षणीयं तद्भक्षणे मूल्यनाशप्रसङ्गात्।
सिद्धान्तमाह –
“अथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यम्” (सं. का. ६ प्र. १ अ. ११) इति।
अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। अभिज्ञास्त्वग्नीषोमार्थमिन्द्रो वृत्रं हतवानित्याहुः। अयं वृत्तान्तो द्वितीयकाण्डस्य पञ्चमप्रपाठके त्वष्टा हतपुत्र इत्यस्मिन्ननुवाके प्रपञ्चितः। यस्मादग्नीषोमार्थमिन्द्रो वृत्रं हतवांस्तस्मादग्नीषोमीयपश्वालम्भो यः सोऽस्य यजमानस्य वैरिघाती। तस्मात्तदीयं हविर्भक्षणीयमेव।
प्रासङ्गिकं परिसमाप्य प्रकृतमेव नमो मित्रस्येति मन्त्रं विनियुङ्क्ते —
“वारुण्यर्चा परि चरति स्वयैवैनं देवतया परि चरति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धस्य सोमस्य वरुणो देवता। परिचरणं नमस्काराद्युपचारः। ततो वरुणमन्त्रेण तदनुष्ठानं युक्तम्। अथ प्राग्वंशे सोमपासन्द्यां प्रतिष्टाप्य तस्मिन्काल एवा वन्दस्व वरुणं बृहन्तमित्येतया तत्त्वा यामीत्यनयो वा वारुण्यर्चोपस्थानरूपं परिचरणं कर्तव्यम्।
वरुणस्येति। बौधायनः — “अथैतत्सोमवाहनमग्रेण शालामुदगीषमुपस्थापयन्ति तदुपस्तभ्नाति वरुणस्य स्कम्भनमसीति वरुणस्य स्कम्भसर्जनमसीति शम्यामुदूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्” इति।
आपस्तम्बस्तु शम्यायोक्त्राभिधानीनां क्रमेणोन्मोचनं मन्यते।
अत्र विनियोगसंग्रहः —
“प्र च्य प्राग्वंशगमनं श्येनोऽध्वर्युस्तु मन्त्रयेत्।
अप्यतिक्रम्य राजानं नम एनं प्रतीक्षते॥
वरुत्रयेण शम्यादीन्मुञ्चेत्सप्तात्र मन्त्रकाः॥१॥ इति।
अत्रापि नास्ति मीमांसा।
प्र च्यवस्वेति षट्पदाऽतिजगती। श्येनो भूत्वाऽपि पन्थामित्येते अनुष्टुभौ। नमो मित्रस्येति जगती॥