अनुवाकः 9 TS 1.2.9

(A9)

( मि॒त्रस्य॒-त्रयो॑विꣳशतिश्च )

अनुवाकः 9 - Complete Audio

TS 1.2.9 - स्वरानुगामी

0:00 0:00
PS1.1 प्र च्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि
PS1.2 धामा॑नि॒ मा त्वा॑ परिप॒री
PS1.3 वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा
PS1.4 त्वा॒ वृका॑ अघा॒यवो॒ मा
PS1.5 ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा
PS1.6 परा॑ पत॒ यज॑मानस्य नो
PS1.7 गृ॒हे दे॒वैः सꣳ॑स्कृ॒तं ॅयज॑मानस्य
PS1.8 स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गा-म॑ने॒हसं॒ ॅयेन॒
PS1.9 विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑
PS1.10 वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒
PS1.11 ( ) वरु॑णस्य॒ चक्ष॑से
PS1.12 म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत
PS1.13 दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒
PS1.14 सूर्या॑य शꣳसत॒ वरु॑णस्य॒ स्कंभ॑नमसि॒
PS1.15 वरु॑णस्य स्कंभ॒सर्ज॑न-म॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.9.1 TS 1.2.9.1
प्र च्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः सꣳ॑स्कृ॒तं ॅयज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गा-म॑ने॒हसं॒ ॅयेन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ ( ) वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शꣳसत॒ वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑न-म॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥
पदपाठः (Word-by-word)
प्रेति॑ । च्य॒व॒स्व॒ । भु॒वः॒ । प॒ते॒ । विश्वा॑नि । अ॒भीति॑ । धामा॑नि । मा । त्वा॒ । प॒रि॒प॒रीति॑ परि - प॒री । वि॒द॒त् । मा । त्वा॒ । प॒रि॒प॒न्थिन॒ इति॑ परि - प॒न्थिनः॑ । वि॒द॒न्न् । मा । त्वा॒ । वृकाः᳚ । अ॒घा॒यव॒ इत्य॑घ - यवः॑ । मा । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । एति॑ । द॒घ॒त् । श्ये॒नः । भू॒त्वा । परेति॑ । प॒त॒ । यज॑मानस्य । नः॒ । गृ॒हे । दे॒वैः । सꣳ॒॒स्कृ॒तम् । यज॑मानस्य । स्व॒स्त्यय॒नीति॑ स्वस्ति - अय॑नी । अ॒सि॒ । अपीति॑ । पन्था᳚म् । अ॒ग॒स्म॒हि॒ । स्व॒स्ति॒गामिति॑ स्वस्ति - गाम् । अ॒ने॒हस᳚म् । येन॑ । विश्वाः᳚ । परीति॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते᳚ । वसु॑ । नमः॑ । मि॒त्रस्य॑ ( ) । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ । दू॒रे॒दृश॒ इति॑ दूरे - दृशे᳚ । दे॒वजा॑ता॒येति॑ दे॒व - जा॒ता॒य॒ । के॒तवे᳚ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शꣳ॒॒स॒त॒ । वरु॑णस्य । स्कंभ॑नम् । अ॒सि॒ । वरु॑णस्य । स्कं॒भ॒सर्ज॑न॒मिति॑ स्कंभ - सर्ज॑नम् । अ॒सि॒ । उन्मु॑क्त॒ इत्युत् - मु॒क्तः॒ । वरु॑णस्य । पाशः॑ ॥
पदसंख्या: 73
सायणभाष्यम् (Sayana Commentary)

[अथ प्रथमकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः]

अष्टमे सोमस्य शकटारोपणमुक्तमारोपितस्य नवमे गमनमुच्युते।

प्र च्यवस्वेति। बौधायनः — “सुब्रह्मण्योमिति त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरा दधच्छ्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सस्कृतमिति प्रदक्षिणं राजानं परिवहन्त्यथैतावञ्जसोपसंक्रामतोऽध्वर्युर्यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति” इति।

आपस्तम्ब उक्तमन्त्रद्वयं त्रेधा विभजति —

‘प्र च्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तते श्येनो भूत्वा परा पतेत्यध्वर्यू राजानमभिमन्त्रयतेऽपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः’ इति।

भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युपलक्ष्यन्ते। तेषां च भूतानां पालकत्वात्पतिः सोमः। हे भूतपते सोम विश्वानि धामानि प्राचीनवंशहविर्धानादिस्थानान्यभिलक्ष्य प्रकर्षेण व्यवस्व गच्छ। परिपरी मार्गे बाधकस्तस्करप्रभुः स त्वां मा जानातु। परिपन्थिनस्तद्भृत्यास्तेऽपि त्वां मा जानन्तु। वृका अरण्यश्वानः। अघं पापं वधरूपमिच्छन्तीत्यघायवः। तेऽपि त्वां मा जानन्तु। विश्वावसुर्गन्धर्वः स्वर्गमार्गे सोमस्यापहर्ता। सोऽपि त्वां मा दधत्, मा प्रतीक्षताम्। हे सोम त्वं श्येनवदुत्पतनसमर्थो भूत्वाऽस्मद्यजमानस्य गृहे प्राचीनवंशे परापत शीघ्रं गच्छ। देवसदृशैरध्वर्यु्प्रभृतिभिस्तवोपवेशनायऽऽसन्दीरूपं स्थानं संस्कृतम्। स्वस्ति श्रेयोरूपो यज्ञस्तस्यायनं प्राप्तिस्तदस्यास्तीति स्वस्त्ययनी यजमानस्य यज्ञप्रापकोऽसि। अपि च वयं पन्थानमनुष्ठानरूपमगस्महि प्राप्ताः। कीदृशं स्वस्तिगां श्रेयःप्रापकम्। अनेहसं नकारस्य व्यत्ययेन हकारः। अनेनसं पापरहितम्। येन पथा विश्वा द्विपः सर्वान्वैरिणः परिवृणक्ति सर्वतो वर्जयति। किंच येन पथा द्रव्यं लभते, तादृशं पन्थानं प्राप्ताः।

प्रथममन्त्रे यथोक्तमर्थं प्रसिद्धतया स्पष्टयति —

“प्र च्यवस्व भुवस्पत इत्याह भूताना ह्येष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्येषोऽभि धामानि प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं गन्धर्वो विश्ववसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय” (सं. का. ६ प्र. १ अ. ११) इति।

पूर्वं गन्धर्वेण सोमस्यापहृतत्वादस्ति तस्करप्रसक्तिस्तस्मान्मा त्वेत्यादिकं वक्तव्यम्।

द्वितीयमन्त्रे स्वस्त्ययनी(नि)शब्देन यज्ञप्राप्तिर्विवक्षितेत्याह —

“यजमानस्य स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. १ अ. ५) इति।

तृतीयमन्त्रो ब्राह्मणेनोपेक्षितः।

नम इति। कल्पः — “अथाग्रेण शालां तिष्ठन्नोह्यमानं राजानं प्रति मन्त्रयते। नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृत सपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शसतेति” इति। अस्मिन्मन्त्रे सूर्यरूपेण सोमः स्तूयते — मित्रस्य मित्राय नमः। कीदृशाय। वरुणस्य स्वरश्मिभिर्जगदावृणते। पुनः कीदृशाय। चक्षसे सर्वज्ञाय। हे ऋत्विजो महो महते तस्मै देवाय देवप्रीत्यर्थं सपर्यत सपर्यां सेवां कुरुत। किं कृत्वा। तज्ज्योतिष्टोमरूपमृतं सत्यमवश्यफलप्रदं कर्म कृत्वा। किंच सूर्याय शंसत सूर्यप्रीत्यर्थं स्तुतिं कुरुत। कीदृशाय सूर्याय। दूरे दृश्यमानाय देवत्वेन जाताय केतेवेऽह्नो लक्षणभूताय द्युलोकस्य पुत्रवत्प्रियाय।

अस्मिन्मन्त्रे वरुणशब्दाभिप्रायमाह —

“वरुणे वा एष यजमानमभ्यैति यत्क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति। यः सोम उपनद्ध एव वरुणरूपः सन्यजमानमभिलक्ष्य समागच्छत्यतो वरुणनमस्कारेण तत्त्वत उपद्रवः शाम्यति।

यद्यप्यग्नीषोमीयस्य पशोर्नायमनुष्ठानकालस्तथाऽपि प्रसङ्गात्तं पशुं विधित्सुः प्रसङ्गं तावद्दर्शयति —

“आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ यजमानमभि सं भवतः पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितः” (सं. का. ६ प्र. १ अ. ११) इति।

ऋत्विजः प्राचीनवंशगतस्याऽऽहवनीयस्याग्नेः समीपं प्रति सोममानयन्ति। स च सोमोऽग्निना समेत्य प्रतिष्ठितो भवति। तौ चाग्नीषोमौ परस्परं यदा संगच्छेते तदा यजमानमभिलक्ष्य संगतौ भवतः। तदेतदवगम्य किल पुरा यो दीक्षितः स एष यज्ञार्थं स्वात्मानमेवाऽऽलभ्य पशुत्वेनोपाकृत्य प्रचरति। सोऽयं प्रसङ्गः।

इदानीं विधत्ते —

“यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य सः” (सं. का. ६ प्र. १ अ. ११) इति।

अस्य यजमानस्य पश्वालम्भ आत्मनिष्क्रमणः। पशुं मूल्यत्वेनाग्नीषोमाभ्यां दत्त्वा तेन तयोः स्वभूतमात्मानं निष्क्रीणाति।

अत्र हविःशेषभक्षणं पूर्वपक्षतया निषेधति —

“तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव हि” (सं. का. ६ प्र. १ अ. ११) इति।

यस्मादयं पशुः पुरुषस्य मूल्यमिव तस्मात्तस्य पशोः संबन्धि हविर्न भक्षणीयं तद्भक्षणे मूल्यनाशप्रसङ्गात्।

सिद्धान्तमाह –

“अथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यम्” (सं. का. ६ प्र. १ अ. ११) इति।

अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। अभिज्ञास्त्वग्नीषोमार्थमिन्द्रो वृत्रं हतवानित्याहुः। अयं वृत्तान्तो द्वितीयकाण्डस्य पञ्चमप्रपाठके त्वष्टा हतपुत्र इत्यस्मिन्ननुवाके प्रपञ्चितः। यस्मादग्नीषोमार्थमिन्द्रो वृत्रं हतवांस्तस्मादग्नीषोमीयपश्वालम्भो यः सोऽस्य यजमानस्य वैरिघाती। तस्मात्तदीयं हविर्भक्षणीयमेव।

प्रासङ्गिकं परिसमाप्य प्रकृतमेव नमो मित्रस्येति मन्त्रं विनियुङ्क्ते —

“वारुण्यर्चा परि चरति स्वयैवैनं देवतया परि चरति” (सं. का. ६ प्र. १ अ. ११) इति।

उपनद्धस्य सोमस्य वरुणो देवता। परिचरणं नमस्काराद्युपचारः। ततो वरुणमन्त्रेण तदनुष्ठानं युक्तम्। अथ प्राग्वंशे सोमपासन्द्यां प्रतिष्टाप्य तस्मिन्काल एवा वन्दस्व वरुणं बृहन्तमित्येतया तत्त्वा यामीत्यनयो वा वारुण्यर्चोपस्थानरूपं परिचरणं कर्तव्यम्।

वरुणस्येति। बौधायनः — “अथैतत्सोमवाहनमग्रेण शालामुदगीषमुपस्थापयन्ति तदुपस्तभ्नाति वरुणस्य स्कम्भनमसीति वरुणस्य स्कम्भसर्जनमसीति शम्यामुदूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्” इति।

आपस्तम्बस्तु शम्यायोक्त्राभिधानीनां क्रमेणोन्मोचनं मन्यते।

अत्र विनियोगसंग्रहः —

“प्र च्य प्राग्वंशगमनं श्येनोऽध्वर्युस्तु मन्त्रयेत्।

अप्यतिक्रम्य राजानं नम एनं प्रतीक्षते॥

वरुत्रयेण शम्यादीन्मुञ्चेत्सप्तात्र मन्त्रकाः॥१॥ इति।

अत्रापि नास्ति मीमांसा।

अथ च्छन्दः —

प्र च्यवस्वेति षट्पदाऽतिजगती। श्येनो भूत्वाऽपि पन्थामित्येते अनुष्टुभौ। नमो मित्रस्येति जगती॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः ॥९॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शकटेन सोमं प्रच्यावयति - प्रच्यवस्वेति तिसृभिः । तत्र प्रथमा षट्पदा अतिजगती ॥ प्रच्यवस्व प्रकर्षेणास्माद्देशाद्गच्छ भुवः भुवनस्य पते सोम । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वं, 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायो निहन्यते । विश्वानि धामानि गन्तव्यानि स्थानानि अभि लक्षीकृत्य गच्छ । 'अभिरभागे' इति कर्मप्रवचनीयत्वम् । किञ्च - तथा गच्छन्तं त्वां परिपरी मा विदत् मा प्रापत् । विन्दतेर्लुङि लृदित्वादङ् । 'छन्दसि परि' इत्यादिना पर्यवस्थातरि निपात्यते । योध्वन्याक्रम्य बाधते स पर्यवस्थाता । स विश्वावसुर्गन्धर्वोभिप्रेतः यः पूर्वं सोमं पर्यमुष्णात् । ब्राह्मणं च भवति 'मा त्वा परिपरी विददित्याह यदेवादस्सोममाह्रियमाणं गन्धवो विश्वावसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय' इति । स इदानीं त्वाम्मा विददिति । किञ्च - सर्व एव परिपन्थिनः विश्वावसोरन्येपि त्वां मा विदन् । तेनैव निपात्यते । किञ्च – वृकाः आदाय गन्तारः । कुक वृक आदाने, इगुपधात्कः, पचाद्यच् [ज्वा?], पुषादिर्द्रष्टव्यः । अघं पापं वधादिकं तवेच्छन्तः । 'छन्दसि परेच्छायाम्' इति क्यच्, 'अश्वाघस्यात्' इत्यात्त्वम् । येध्वनि पीडां कुर्वन्तोन्यत्र बाधितुं अध्वनोपनयन्ति ते त्वां मा दघत् मात्मसात्कार्षुः । दघ पालने, छान्दसश्च्लेरङादेशः । एवं तु वक्ष्यमाणस्यैकवचनस्य विपरिणामेन सम्बन्धः क्लिष्टस्स्यात् । तस्माद्वृका अपि त्वां माविदन्नित्येव । किच्च - विश्वावसुनामा गन्धर्वः त्वां मा दघत् परिपरी च मा भूत् आदघिता च मा भूत् इति द्वयमस्य निषिध्यते । चतुर्थपादो विवृद्धाक्षरः ॥
2 अथ द्वितीया श्येन इत्यनुष्टुप् । अत्र तृतीयः पादो ह्रसिष्ठः, चतुर्थो वर्षिष्ठः ॥ श्येन इव शीघ्रो भूत्वा परापत निस्सङ्कटं गच्छ अस्मदीयस्य यजमानस्य गृहे प्राग्वंशे । तत्र ऋत्विग्भिर्देवैस्संस्कृंतं आसन्दीस्थानम् । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् ॥
3 अध्वर्युयजमानौ गच्छतः - यजमानस्य स्वस्त्ययनीति ॥ स्वस्त्ययनमविनाशप्रापणं तद्वानसि यजमानस्य स्वस्त्ययनकार्यसि हे सोम । यद्वा - स्वस्तिमदयनमाश्रयस्तद्वान् अविनश्वराश्रयत्वात् यजमानस्याविनश्वराश्रयोसीति यावत् । सर्वथा 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदात्तत्वम् । सतिशिष्टत्वादीनि[दि] प्वरस्य अथ तृतीया - अपिपन्थामित्यनुष्टुप् । केचिदाहुः - 'प्रथमा धृतिर्नवपदा । यजमानस्य स्वस्त्ययनीत्यादिका तु पञ्चपदा पङ्तिः' इति ॥ अपि च, वयमपि पन्थां पन्थानमगस्महि सभ्प्राप्ताः त्वत्प्रसादेन सोम । कीदृशं स्वस्तिगां, स्वस्ति अविनाशं गम्यते येन तादृशम् । 'गाङ् गतौ' इत्यतो विच् । अनेहसं अपापं पापफलरहितं पन्थानं अगमाम । व्यत्ययेनात्मनेपदम्, 'वा गमः' इति सिचः कित्त्वादनुनासिकलोपः । 'पथिमथ्यृभुक्षामात्' इत्यात्वम् व्यत्ययेन द्वितीयायामपि भवति । यद्वा - 'आशंसायां भूतवच्च' इति लुङ् । तमपि पन्थानं गम्यास्म स्वस्तिगामनेहसम् । पुनश्च पन्था विशेष्यते - येन पथा गच्छच्न् विश्वा द्विषः विश्वान् द्वेषेयान् लिङ्गव्यत्ययेन स्त्रीत्वम् । यद्वा - सम्पदादिलक्षणस्स्त्रियां क्विप् । परिवृणक्ति परितो वर्जयति । किञ्च - विन्दते लभते च वसु धनं तमगमाम गम्यास्म वा ॥
5 राजानं प्रत्युपतिष्ठते - नमो मित्रस्येति जगत्या ॥ सूर्यात्मना सोमस्स्तूयते । नमस्कारोस्तु तस्मै मित्रस्य वरुणस्य चक्षसे चक्षुस्थानीयाय । महः चतुर्थ्यर्थे षष्ठी; महते देवाय तदृतं यज्ञं सपर्यत तस्मै देवाय सपर्यार्थं यज्ञमपि प्रयुङ्ग्ध्वम् । सपर पूजायां कण्ड्वादिः । विभक्तिव्यत्ययेन वा चक्षुस्थानीयं तं ऋतेन परिचरतेति । एवं नमस्कारेण यज्ञेन च महान् देव आराध्यत इत्युक्तम्, अधुना स्तोत्रेणाप्याराधनीय इत्याह - दूरेदृशे दूरे सर्वदा दृश्यत इति दूरेदृक्, दूरे स्थित्वा सर्वं पश्यतीति वा । 'तत्पुरुषे कृति बहुळम्' इत्यलुक् । देवजाताय जाता देवा यस्मिन् । 'निष्ठायाः पूर्वनिपाते आतिकालसुखादिध्यः परवचनम्' इति परनिपातः । केतवे रश्मिमते । मत्वर्थीयो लुप्यते । यद्वा - केतुः प्रज्ञा, तद्धतेवे तदात्मने वा । दिवस्पुत्राय दीप्तेः पुत्रस्थानीयाय, सदा तत्प्रभवत्वात् । यद्वा - दिवो द्युलोकस्य दुःखात्त्रायकाय । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम् । ईदृशाय सूर्याय विश्वस्य सवित्रे शंसत शस्त्राणि कुरुत, स्तुवतेति यावत् । एवं लिङ्गात्सूर्योपस्थानमिदं प्रतीयते, सोमोपस्थाने तु विनियुज्यते 'राजानं प्रत्युपतिष्ठते' इति । तत्र चक्षुस्स्थनीयस्य सूर्यस्य नमस्कारादिना चक्षुष्मान्देव आराधितो भवतीत्याचार्यस्याभिप्रायः । इयं चोपपत्तिः - अत्र प्रकरणे मित्रवरुणशब्दौ सोमवचनौ मन्त्रेषु प्रसिद्धौ, यथा 'मित्रो न एहि' इति सोम उच्यते । मितेः त्रायते इति मित्रः । 'वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः' इति च । वरुण इतीदानीं सोमाभिधानम् । वरणीयैस्सर्वैर्भवतीति वरुणः । देवायेति षष्ट्यर्थे चतुर्थी । अयं भावः - मित्रत्वादिगुणविशिष्टस्य महतो देवस्यास्य त्व(मस्य) [म्] चक्षुस्स्थानीय [इति] सूर्याय नमस्कारादिकं कुरुतेति । अनेनैवाभिप्रायेण 'राजानं प्रत्युपतिष्ठते' इति प्रतिशब्दः प्रयुक्तः; राजानं प्रति राजानमुद्दिश्य सूर्यमुपतिष्ठत इति लिङ्गमप्यविरुद्धम् ॥
6 शकटमुदगीषमुपस्तम्भयति - वरुणस्य स्कम्भनमसीति ॥ व्याख्यातम् । इह त्वयं विशेषः - ईषाया उपस्कम्भनमभिधेयम्, तत्र तु गौः ॥
7 शम्यामुद्वृहति - वरुणस्य स्कम्भसर्जनमसीति ॥ व्याख्यातमेतत् । अत्रापि स एवार्थः । सर्जनं विसर्जनं वेदितव्यम् ॥
8 योक्त्रमपनयति - उन्मुक्तो वरुणस्य पाश इति ॥ अपनीतोसीत्यर्थः । यद्वा - त्वय्यपनीते वरुणस्य पाशः उन्मुक्तो भवतीति ॥
इति द्वतीये नवमोनुवाकः ॥