पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे द्वितीयप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशेऽनुवाक उत्तरवेदिरभिहिता। तत्समीपवर्ति हविर्धानं त्रयोदशेऽनुवाकेऽभिधीयते।
युञ्जत इति। कल्पः — “गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः स्वाहेति” इति।
होमार्थं स्वाहाशब्दोऽध्याहृतः। विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जते लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां तत्प्रथमं नियमयन्ति। ततो धिय इन्द्रियाण्यपि’ यज्ञार्थेषु स्वस्वव्यापारेषु नियमयन्ति। कीदृशस्य विप्रस्य। बृहतो विपश्चितः। अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम्। कीदृशा विप्राः। होत्रा होमकर्तारः। तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेक इद्विदध एक एव ससर्ज। कीदृश एकः। वयुनावित्, मार्गान्वेत्ति सर्वज्ञ इत्यर्थः। ने चैकस्य सर्वसृष्टौ विस्मेतव्यम्। यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिर्मही महती।
तथा चाऽऽथर्वणिका अधीयते — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः’ इति।
वाजसनेयिनश्च — ‘स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच” इति।
श्वेताश्वतराश्च — ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति।
एवं सर्वत्रोदाहार्यम्।
एतं मन्त्रं विनियोक्तुमुपोद्घातत्वेनानुष्ठेयं विधत्ते —
“बद्धमव स्यति वरुणापाशादेवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति” (सं. का. ६ प्र. २ अ. ९) इति।
हविर्धाननामकयोः शकटयोर्यत्पूर्वं बद्धमासत्तदवस्यति मुञ्चेत्। प्रणेनेक्ति प्राक्षालयेत्।
अत्र सूत्रम् — ‘प्रयुक्तपूर्वशकटे नद्धयुगे प्रतिहितशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति” इति।
पृष्ठ्यां वेदिमध्ये प्राक्प्रतीच्योः शङ्कोर्बद्धां रज्जुं मध्येऽव्यवनयन्व्यवधानमकुर्वन्।
मन्त्रविनियोगपूर्वकं शकटप्रेरणं विधत्ते —
“सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति” (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — “स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयते” इति।
स च मन्त्र एवमाम्नातः —
सुवागिति। हेऽक्षदेव दुर्यान्गृहान्प्रति सुवाग्भूत्वाऽऽसमन्ताच्छ्रेयस्करीं वाजं वद। हे देवश्रुतौ प्रख्यातावक्षौ यजमानोऽयं युष्मान्यजतीति देवेष्वा घोषेथाम्।
सुवाक्शब्दापेयोगं दर्शयति —
‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः स यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाग्देव दुर्या आ वदेत्याह गृहा वै दुर्याः शान्त्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
अक्षस्य बन्धनहेतुपाशोपेतत्वाद्वरुणत्वम्। वरुणश्च क्रूरत्वाद्दुर्वाक्। उत्सर्जेत्, शब्दं कुर्यात्।
कल्पः — ‘अथैने पत्नी पदतृतीयेणा(ना)ऽऽज्यमिश्रेणोपानक्त्या नो वीरो जायतामिति’ इति।
स चैवमाम्नातः —
आ न इति। कर्मणि साधुः कुशलो वीर आलस्यरहितः पुत्रोऽस्माकमाजायताम्। यं जीवाम यश्च बहूनां वशी नियमनशक्तिमानसद्भवेत्। तादृशो जायताम्। अत्र कल्पे पदतृतीयशब्देन सोमक्रयणीपदरजसस्तृतीयांशः पूर्वं संगृहीतो विवक्षितः।
अक्षोपाञ्जनं विधत्ते —
“पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. ९) इति।
इदमिति। कल्पः — ‘दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोति — इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्। समूढमस्य पासुरे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादुपसृप्योत्तरस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्य जुहोति - इरावती धेनुमती हि भूत सूयवसिनी मनवे यशस्ये। व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेति’ इति।
विष्णुस्त्रिविक्रमावतारं धृत्वेदं विश्वं विभज्य क्रमते स्म भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमित्येवं त्रेधा पदं निदधे। पांसवो भूम्यादिलोकरूपा यस्य पदस्य सन्ति तत्पांसुरम्। अस्य विष्णोस्तस्मिन्पदे विश्वं समूढं सम्यगन्तर्भूतम्। किंच इरावती अन्नवती धेनुमती धेनुर्बहुक्षीरा गौस्तद्वत्यौ सूयवसिनी शोभनैर्यवसैरभ्यवहार्यौर्युक्ते मनवे मानवप्रजार्थं यशस्ये यशोनिमित्ते भवतम्। एते रोदसी द्यावापृथिव्यौ विष्णुर्व्यस्कभ्नाद्विभज्य स्थापितवान्। तां च पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैरभितो दाधार पुपोष। स विष्णुरनयोत्तरहविर्धानमार्गाहुत्या प्रीयताम्।
विधत्ते —
‘वर्त्मना वा अन्वित्य यज्ञ रक्षासि जिघासन्ति वैष्णवीभ्यामृग्म्यां वर्त्म-
नोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव रक्षास्यपहन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
वर्त्मना शकटमार्गेण। अन्वित्यानुप्रविश्य। यज्ञो देवेभ्यो निलायत विष्णूरूपं कृत्वेत्युक्तत्वाद्यज्ञस्य विष्णुत्वम्। अत एव वैष्णवमन्त्रोऽत्र न व्यधिकरणः। यज्ञादेव विष्णुरूपयज्ञद्वारेणैव।
होमाधारत्वेन हिरण्यप्रक्षेपं विधत्ते —
‘यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
प्राचीति। कल्पः – ‘अथैने संपरिगृह्य संप्रैषमाह हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमिति’ इति।
हे शकटे प्राङ्मुखे गच्छतम्। कीदृशे। अध्वरं कल्पयन्ती देवकर्म बाधरहितं कुर्वाणे। किंचोर्ध्वमुपरिवर्तिदेवान्प्रति यज्ञं नयतं मा कुटिले भवतमसुरान्मा प्रापयतम्।
प्राक्शब्दतात्पर्यमाह —
‘प्राची प्रेतमध्वरं कल्पयन्ती इत्याह सुवर्गमेवैने लोकं गमयति’ (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — ‘आहवनीयात्प्रतीचस्त्रीन्प्रक्रमानुच्छि(च्छे)ष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा’ इति।
नभ्यशब्देन फलकत्रयोपेते चक्रे नाभियुक्तं मध्यमफलकमुच्यते। तस्मिन्यथा शकटं तिष्ठति तथा स्थापयेत्। प्राचीनवंशस्थो यः पुरातन आहवनीयस्तस्येत ऊर्ध्वं गार्हपत्यत्वम्। आहवनीयस्तूत्तरवेदिस्थ एव तत्रत्यपुरातनगार्हपत्यस्य शालामुखीयत्वमिति।
तथा च सूत्रम् — ‘प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयत्येष सोमस्याऽऽहवनीयो यतः प्रणयति स गार्हपत्यः’ इति।
मन्त्रपाठस्तु –
अत्रेति। हे शकटे देवयजनाख्ये पृथिव्याः शरीर उत्तरवेद्याः पश्चिमभागे प्रक्रमत्रयमवशेष्य यत्स्थानमस्ति अत्र स्थाने क्रीडतम्।
देवयजनरूपाया वेदेः पृथिवीशरीरत्वं यदिमामविन्दन्त तद्वेद्यै वेदित्वमित्येतस्मिन्ब्राह्मणे प्रसिद्धमाह —
‘अत्र रमेथां वर्ष्मन्पृथिव्या इत्याह वर्ष्म ह्येतत्पृथिव्या यद्देवयजनम्’ (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — ‘दिवो वा विष्णवित्यध्वर्युदक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनुमेथीं निहन्ति तस्यामीषां निनह्यत्येवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमनु’ इति।
युगस्य दक्षिणोत्तरभागौ शकटस्य कर्णस्थानीयौ। तयोरातर्द ईषाभ्यां सह दृढबन्धनम्। दक्षिणबन्धनसंधौ मेथी निखातव्या।
मन्त्रौ त्वेवं पठितौ —
दिव इति। हे विष्णो द्युलोकाद्वा भूलोकाद्वा महर्लोकाद्वाऽन्तरिक्षलोकाद्वा समानीतैर्बहुभिर्धनसमूहैः स्वहस्तौ पूरय। हे विष्णो पूर्णधनाद्दक्षिणात्सव्याच्च हस्तादाप्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिकं देहि। नुकमित्यव्ययं कर्मवाचकम्। विष्णोर्वीर्याणि कर्माणि प्रवोचं ब्रवीमि। कानि कर्माणि। यो विष्णुः पार्थिवानि रजांसि परमाणून्विममे निर्मितवान्परिगणितवांश्च। पुनरपि यो विष्णुरुत्तरमुपरिवर्ति सधस्थं देवानां सह वासस्थानं द्युलोकमस्कभयात्, यथाऽधो न पतति तथा स्तम्भितवान्। पुनरपि यस्त्रेधा विचक्रमाणस्त्रिषु लोकेषु पदत्रयं निदधौ, उरुभिर्महात्मभिर्गीयते च।
मेथ्या निखननं विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं दिवो वा विष्णवुतं पृथिव्या इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे’ [सं. का. ६ प्र. २ अ. ९] इति।
यथा शिरसि चक्षुरादीनि गोलकानि निधीयन्ते तथा हविर्द्रव्याणि शकटे निधीयन्त इति हविर्धानस्य यज्ञशिरस्त्वम्। हस्तौ पृणस्वाऽऽप्रयच्छेत्याशीर्यस्या ऋचः पदेषु प्रतीयते सेयमृगाशीर्पदा। यद्यप्येषा मेथीं न प्रकाशयति तथाऽपि
वाचनिकोऽत्र विनियोगः। अनेन मन्त्रेण यज्ञशिरसो हविर्धानाद्यजमान आशिषः प्राप्नोति।
आच्छादकं विधत्ते —
‘दण्डो वा औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
दण्डो नाम कश्चिदसुर उपरनामकस्यासुरस्य पुत्रो वषट्कारदेवेन सह मैत्रीं कृत्वा तद्द्वारा प्रविश्य तृतीयस्य शकटस्याक्षमच्छिनत्। अतस्तृतीयस्य शकटस्य प्रतिनिधित्वेनैकैकस्य शकटस्योर्ध्वं तृणादिनिर्मितं छदिः स्थापयेत्। तत्र दक्षिणोत्तरपार्श्वयोः परिश्रयणार्थे द्वे छदिषी अपेक्ष्य तृतीयम्। अथ शकटे अन्तर्भाव्य हविर्धानाख्यं मण्डपं निर्मातव्यम्। तत्र दक्षिणशकटात्पुरतो ग्रहासादनायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण षट्संख्याकाः स्थूणा निखातव्याः। एवं पश्चाद्भागे षट् स्थूणा निखातव्याः। तयोः स्थूणापङ्क्त्योरुदञ्चौ वंशावादधाति।
विष्णो इति। अत्र कल्पः — ‘तासूदञ्चौ वंशौ प्रोहत्यध्यस्यति पुरस्ताद्रराटीं विष्णो रराटमसीति’ इति।
हविर्धानमण्डपस्य विष्णुदेवताकत्वाद्विष्णुत्वम्। पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते, तां दर्भमालां तद्बन्धनाधारं तिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचरितुं विष्णो रराटमसीत्युच्यते।
विष्णोरिति। कल्पः — ‘प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति अरत्निविस्तारं नवायामम्’ इति।
यज्ञपुरुषस्य हविर्धानाख्यं मण्डपं शिरस्तत्साम्यं मन्त्रैरुच्यत इत्याह —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतम्’ (सं. का. ६ प्र. २ अ. ९) इति।
एका रराटी, एकं छदिः, द्वौ रराट्यन्ताविति यावन्तो मण्डपस्य प्रकारा एतावद्धैतावत्प्रकारं शिरो विश्वकर्मणा विशेषेण स्यूतं, शिरस्याच्छादिका त्वमेव च्छदिः स्थापनीया।
विष्णोरिति। कल्पः — ‘पार्श्वयोश्छदिषी निदधाति विष्णोः श्न्यप्त्रे स्थ इति’ इति।
विष्णोरिति। कल्पः — ‘विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणं बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति वैष्णवमसि विष्णवे त्वेति संमितमभिमृशति’ इति।
सीव्यतेऽनया रज्ज्वेति स्यूः। हे बन्धनहेतो त्वं विष्णुदेवताकस्य रज्जुरसि। हे ग्रन्थिरूप त्वं विष्णुसंबन्धि दृढमसि। हे मण्डप त्वं विष्णुदेवताकमस्यतो विष्णुप्रीतये त्वां स्पृशामि।
अत्र विष्णोरिति पष्ठ्या देवतात्वलक्षणः संबन्धो विवक्षित इत्याह —
‘विष्णोः सयूरसि विष्णोर्ध्रुवमसीत्याह वैष्णव देवतया हविर्धानम्’ (सं. का. ६ प्र. २ अ. ९) इति।
प्रज्ञातग्रन्थेर्विस्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. ९) इति।
अमेहेन मूत्रनिरोधेन।
“युञ्ज हुत्वा सुवागक्षे शब्दश्चेन्मन्त्रयेत तम्।
आ नोऽक्षमञ्ज्याज्जुहुयात्पथोरिदमिराद्वयात्॥१॥
प्राची प्रवर्त्ये शकटे अत्रेति स्थापयेदिमे।
दिवो विष्णोर्द्वयान्मेध्यावनसो विनिहन्त्युभे॥२॥
विष्णोर्मण्डपनिर्माणं पञ्चभिर्द्वारि वंशकः।
मध्यच्छदिर्ललाट्यन्तौ रज्जुस्यूतिश्च बन्धने॥
वैष्ण स्पृशेन्निर्मितं तन्मन्त्राः पञ्चदशोदिताः॥३॥ इति।
दशमाध्यायस्याष्टमपादे चिन्तितम् —
“विकल्प्यते बाध्यते वाऽऽहवनीयः पदादिभिः।
सामान्यस्य विशेषेण प्रत्यक्षोक्तित्वसाम्यतः॥
लिङ्गचोदकवद्बोधो नास्ति तेन विकल्प्यते।
विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते” इति।
अनारभ्य श्रूयते — ‘यदाहवनीये जुह्वति। तेन सोऽस्याभीष्टः प्रीतः’ इति। ज्योतिष्टोमे श्रूयते – ‘पदे जुहोति वर्त्मनि जुहोति’ इति। राजसूये श्रूयते — ‘वल्मीकवपामुत्सृज्य जुहोति’ इति। तथाऽन्यत्र श्रूयते — ‘गार्हपत्ये पत्नीसंयाजाञ्जुहोति’ इति।
तत्रानारभ्यवादेन होमसामान्यमनूद्याऽऽहवनीयो विहितः। प्रकरणनियमितैः पदादिवाक्यैस्तदनुबन्धविशिष्टा होमा विहिताः। गार्हपत्यवाक्येन होमविशेषमनूद्य गार्हपत्यो विहितः। तत्र पदादिहोमेषु सामान्यशास्त्रेण प्राप्त आहवनीयो विशेषशास्त्रप्राप्तैः पदादिभिः सह विकल्प्यते। कुतः। प्रत्यक्षवचनोक्तत्वेन समानबलत्वात्। नन्वैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र यथा श्रुत्या लिङ्गं बाध्यते, यथा वा चोदकातिदिष्टानां कुशानामुपदिष्टैः शरैर्बाधस्तथा सामान्यस्य विशेषेण बाधोऽस्त्विति चेन्न। वैषम्यात्। लिङ्गं विलम्बितत्वाद्दुर्बलम्। चोदकश्चानुमेयतया दुर्बलः। न त्वेवं सामान्यशास्त्रं विलम्ब्यते, नाप्यनुमीयते। ततो दौर्बल्याभावाद्विकल्प इति प्राप्ते ब्रूमः — होमसामान्यानुवादकं यच्छास्त्रं तत्सामान्ये मुख्यत्वाद्धोमविशेषानुवादे लाक्षणिकतया दुर्बलं, विशेषशास्त्रं तु मुख्यवृत्त्या विधायकत्वात्प्रबलम्। न च पदादिशास्त्रमपि होमसामान्यमेवानूद्य पदादिविधायकं सत्समानबलं स्यादिति शङ्कनीयम्। प्रकरणनियमितत्वेन विशिष्टविधायकस्य सामान्यानुवादायोगात्। तस्मात्प्रबलेन विशेषेण सामान्यं बाध्यते।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
“हविर्धाने स्तिथो ब्रूयात्सामिधेनीरिहाङ्गता।
हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते॥
वाक्योक्यादङ्गता मैवं प्रकृत्या पश्चिमोऽग्नितः।
देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः” इति।
ज्योतिष्टोमे श्रूयते — ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इति।
हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते। तस्य समीपे सोमस्याभिषवः। उतेत्ययं शब्दोऽथशब्दार्थे वर्तते। अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति तस्मिन्सामिधेनीरनुब्रूयुरित्यर्थः। इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते। न चात्रार्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदित्युदाहरण इव वाक्यभेदे दोषःशङ्कितुं शक्यः। एकवाक्यतायाः स्पष्टं प्रतिभासादिति प्राप्ते ब्रूमः — सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः। प्रकृतौ चाऽऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम्। इहोत्तरवेदेराहवनीयत्वात्तदुपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात्स देशश्चोदकेन प्राप्त इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यं किंतु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमप्राप्तौ दक्षिणस्य हविर्धानस्य समीपदेशं नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते। तथा सति नियममात्रविधानाल्लाघवं भवति। त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्यात्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम्। तस्माद्देशलक्षणा।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम् —
“हविर्धानोर्ध्वकाले किमौषधार्थमनोन्तरम्।
नास्त्यस्ति वा न शक्तत्वाद्देशभेदादितोऽन्तिमः” इति।
ज्योतिष्टोमे हविर्धाननामकयोः शकटयोः प्रवर्तनादूर्ध्वमौषधद्रव्यकाणां पुरोडाशादीनां निर्वापाय तयोरेव शक्ततत्वान्न शकटान्तमन्वेष्यमिति चेन्न। देशभेदात्। महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते। निर्वापस्तु मुख्यगार्हत्यात्पश्चिमदेशे। किंचास्त्यत्र तृतीयं शकटम्। अनांसि प्रवर्तयन्तीति बहुवचनोक्तेः तस्माच्छकटान्तरे निर्वापः।
युञ्जते मन इति जगती। आ नो इति विराड्गायत्री। इदं विष्णुरिति गायत्री। इरावतीति त्रिष्टुप्। प्राची प्रेतमिति द्विपदा त्रिष्टुप्। अत्र रमेथामित्येकपदा विराट्। दिवो वा विष्णो विष्णोर्नुकमिति त्रिष्टुभौ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
हविर्धाने प्रवर्तयन्ति - प्रची इति द्विपदया त्रिष्टुभा जगत्या वा ॥ हे हविर्धाने प्रची प्रागंचितगमनवती प्रेतं प्रकर्षेणेतं गच्छतम् । अध्वरं बाधकरहितं यज्ञं कल्पयन्ती अभिमतसम्पादनसमर्थं कुर्वाणे । 'शप्श्यनोर्नित्यम्' इति नुम् । किञ्च – ऊर्ध्वं उपरि देवान्प्रति यज्ञं नयतं प्रापयतम् । किञ्च - माजीह्वरतं मा कुटिलं कार्ष्टम्, मा अदेवगामिनं कुरुतम् । ह्वृ कौटिल्ये, हेतुमण्ण्यन्ताल्लुङि चङादि ॥