अनुवाकः 13 TS 1.2.13

(A13)

( अ॒स्य॒-य॒च्छैका॒न्न च॑त्वारिꣳ॒॒शच्च॑ )

अनुवाकः 13 - Complete Audio

TS 1.2.13 - स्वरानुगामी

0:00 0:00
PS1.1 यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒
PS1.2 धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो
PS1.3 वि॑प॒श्चितः॑
PS1.4 वि होत्रा॑ दधे वयुना॒विदेक॒
PS1.5 इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः
PS1.6 सु॒वाग्दे॑व॒ दुर्याꣳ॒॒ आ व॑द
PS1.7 देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑
PS1.8 वी॒रो जा॑यतां कर्म॒ण्यो॑ यꣳ
PS1.9 सर्वे॑ऽनु॒ जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी
PS1.10 इ॒दं ॅविष्णु॒र् विच॑क्रमे त्रे॒धा
PS1.11 नि द॑धे प॒दं
PS1.12 समू॑ढमस्य - [ ]
PS2.1 पाꣳसु॒॒र इरा॑वती धेनु॒मती॒ हि
PS2.2 भू॒तꣳ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚
PS2.3 व्य॑स्कभ्ना॒द्-रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚
PS2.4 प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्पय॑न्ती ऊ॒र्द्ध्वं
PS2.5 ॅय॒ज्ञ्ं न॑यतं॒ मा जी᳚ह्वरत॒मत्र॑
PS2.6 रमेथां॒ ॅवर्ष्म॑न् पृथि॒व्या दि॒वो
PS2.7 वा॑ विष्णवु॒त वा॑ पृथि॒व्या
PS2.8 म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑
PS2.9 पृणस्व ब॒हुभि॑र् वस॒व्यै॑रा प्र
PS2.10 य॑च्छ॒ - [ ]
PS3.1 दक्षि॑णा॒दोत स॒व्यात्
PS3.2 विष्णो॒र्नुकं॑ ॅवी॒र्या॑णि॒ प्र वो॑चं॒
PS3.3 ॅयः पार्त्थि॑वानि विम॒मे रजाꣳ॑सि॒
PS3.4 यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ ॅविचक्रमा॒ण
PS3.5 स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚
PS3.6 पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚ स्थो॒
PS3.7 विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि
PS3.8 वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.13.1 TS 1.2.13.1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ सु॒वाग्दे॑व॒ दुर्याꣳ॒॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॑ यꣳ सर्वे॑ऽनु॒ जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ॥ इ॒दं ॅविष्णु॒र् विच॑क्रमे त्रे॒धा नि द॑धे प॒दं ॥ समू॑ढमस्य - [ ]
पदपाठः (Word-by-word)
यु॒ञ्जते᳚ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः᳚ । विप्र॑स्य । बृ॒ह॒तः । वि॒प॒श्चितः॑ ॥ वीति॑ । होत्राः᳚ । द॒धे॒ । व॒यु॒ना॒विदिति॑ वयुन - वित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ष्टुति॒रिति॒ परि॑ - स्तु॒तिः॒ ॥ सु॒वागिति॑ सु- वाक् । दे॒व॒ । दुर्यान्॑ । एति॑ । व॒द॒ । दे॒व॒श्रुता॒विति॑ देव - श्रुतौ᳚ । दे॒वेषु॑ । एति॑ । घो॒षे॒था॒म् । एति॑ । नः॒ । वी॒रः । जा॒य॒ता॒म् । क॒र्म॒ण्यः॑ । यम् । सर्वे᳚ । अ॒नु॒जीवा॒मेत्य॑नु - जीवा॑म । यः । ब॒हू॒नाम् । अस॑त् । व॒शी ॥ इ॒दम् । विष्णुः॑ । वीति॑ । च॒क्र॒मे॒ । त्रे॒धा । नीति॑ । द॒धे॒ । प॒दम् ॥ समू॑ढ॒मिति॒ सम् - ऊ॒ढ॒म् । अ॒स्य॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे द्वितीयप्रपाठके त्रयोदशोऽनुवाकः)।

द्वादशेऽनुवाक उत्तरवेदिरभिहिता। तत्समीपवर्ति हविर्धानं त्रयोदशेऽनुवाकेऽभिधीयते।

युञ्जत इति। कल्पः — “गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः स्वाहेति” इति।

होमार्थं स्वाहाशब्दोऽध्याहृतः। विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जते लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां तत्प्रथमं नियमयन्ति। ततो धिय इन्द्रियाण्यपि’ यज्ञार्थेषु स्वस्वव्यापारेषु नियमयन्ति। कीदृशस्य विप्रस्य। बृहतो विपश्चितः। अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम्। कीदृशा विप्राः। होत्रा होमकर्तारः। तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेक इद्विदध एक एव ससर्ज। कीदृश एकः। वयुनावित्, मार्गान्वेत्ति सर्वज्ञ इत्यर्थः। ने चैकस्य सर्वसृष्टौ विस्मेतव्यम्। यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिर्मही महती।

तथा चाऽऽथर्वणिका अधीयते — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः’ इति।

वाजसनेयिनश्च — ‘स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच” इति।

श्वेताश्वतराश्च — ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति।

एवं सर्वत्रोदाहार्यम्।

एतं मन्त्रं विनियोक्तुमुपोद्घातत्वेनानुष्ठेयं विधत्ते —

“बद्धमव स्यति वरुणापाशादेवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति” (सं. का. ६ प्र. २ अ. ९) इति।

हविर्धाननामकयोः शकटयोर्यत्पूर्वं बद्धमासत्तदवस्यति मुञ्चेत्। प्रणेनेक्ति प्राक्षालयेत्।

अत्र सूत्रम् — ‘प्रयुक्तपूर्वशकटे नद्धयुगे प्रतिहितशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति” इति।

पृष्ठ्यां वेदिमध्ये प्राक्प्रतीच्योः शङ्कोर्बद्धां रज्जुं मध्येऽव्यवनयन्व्यवधानमकुर्वन्।

मन्त्रविनियोगपूर्वकं शकटप्रेरणं विधत्ते —

“सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति” (सं. का. ६ प्र. २ अ. ९) इति।

कल्पः — “स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयते” इति।

स च मन्त्र एवमाम्नातः —

सुवागिति। हेऽक्षदेव दुर्यान्गृहान्प्रति सुवाग्भूत्वाऽऽसमन्ताच्छ्रेयस्करीं वाजं वद। हे देवश्रुतौ प्रख्यातावक्षौ यजमानोऽयं युष्मान्यजतीति देवेष्वा घोषेथाम्।

सुवाक्शब्दापेयोगं दर्शयति —

‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः स यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाग्देव दुर्या आ वदेत्याह गृहा वै दुर्याः शान्त्यै’ (सं. का. ६ प्र. २ अ. ९) इति।

अक्षस्य बन्धनहेतुपाशोपेतत्वाद्वरुणत्वम्। वरुणश्च क्रूरत्वाद्दुर्वाक्। उत्सर्जेत्, शब्दं कुर्यात्।

कल्पः — ‘अथैने पत्नी पदतृतीयेणा(ना)ऽऽज्यमिश्रेणोपानक्त्या नो वीरो जायतामिति’ इति।

स चैवमाम्नातः —

आ न इति। कर्मणि साधुः कुशलो वीर आलस्यरहितः पुत्रोऽस्माकमाजायताम्। यं जीवाम यश्च बहूनां वशी नियमनशक्तिमानसद्भवेत्। तादृशो जायताम्। अत्र कल्पे पदतृतीयशब्देन सोमक्रयणीपदरजसस्तृतीयांशः पूर्वं संगृहीतो विवक्षितः।

अक्षोपाञ्जनं विधत्ते —

“पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. ९) इति।

इदमिति। कल्पः — ‘दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोति — इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्। समूढमस्य पासुरे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादुपसृप्योत्तरस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्य जुहोति - इरावती धेनुमती हि भूत सूयवसिनी मनवे यशस्ये। व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेति’ इति।

विष्णुस्त्रिविक्रमावतारं धृत्वेदं विश्वं विभज्य क्रमते स्म भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमित्येवं त्रेधा पदं निदधे। पांसवो भूम्यादिलोकरूपा यस्य पदस्य सन्ति तत्पांसुरम्। अस्य विष्णोस्तस्मिन्पदे विश्वं समूढं सम्यगन्तर्भूतम्। किंच इरावती अन्नवती धेनुमती धेनुर्बहुक्षीरा गौस्तद्वत्यौ सूयवसिनी शोभनैर्यवसैरभ्यवहार्यौर्युक्ते मनवे मानवप्रजार्थं यशस्ये यशोनिमित्ते भवतम्। एते रोदसी द्यावापृथिव्यौ विष्णुर्व्यस्कभ्नाद्विभज्य स्थापितवान्। तां च पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैरभितो दाधार पुपोष। स विष्णुरनयोत्तरहविर्धानमार्गाहुत्या प्रीयताम्।

विधत्ते —

‘वर्त्मना वा अन्वित्य यज्ञ रक्षासि जिघासन्ति वैष्णवीभ्यामृग्म्यां वर्त्म-

नोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव रक्षास्यपहन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।

वर्त्मना शकटमार्गेण। अन्वित्यानुप्रविश्य। यज्ञो देवेभ्यो निलायत विष्णूरूपं कृत्वेत्युक्तत्वाद्यज्ञस्य विष्णुत्वम्। अत एव वैष्णवमन्त्रोऽत्र न व्यधिकरणः। यज्ञादेव विष्णुरूपयज्ञद्वारेणैव।

होमाधारत्वेन हिरण्यप्रक्षेपं विधत्ते —

‘यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।

प्राचीति। कल्पः – ‘अथैने संपरिगृह्य संप्रैषमाह हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमिति’ इति।

हे शकटे प्राङ्मुखे गच्छतम्। कीदृशे। अध्वरं कल्पयन्ती देवकर्म बाधरहितं कुर्वाणे। किंचोर्ध्वमुपरिवर्तिदेवान्प्रति यज्ञं नयतं मा कुटिले भवतमसुरान्मा प्रापयतम्।

प्राक्शब्दतात्पर्यमाह —

‘प्राची प्रेतमध्वरं कल्पयन्ती इत्याह सुवर्गमेवैने लोकं गमयति’ (सं. का. ६ प्र. २ अ. ९) इति।

कल्पः — ‘आहवनीयात्प्रतीचस्त्रीन्प्रक्रमानुच्छि(च्छे)ष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा’ इति।

नभ्यशब्देन फलकत्रयोपेते चक्रे नाभियुक्तं मध्यमफलकमुच्यते। तस्मिन्यथा शकटं तिष्ठति तथा स्थापयेत्। प्राचीनवंशस्थो यः पुरातन आहवनीयस्तस्येत ऊर्ध्वं गार्हपत्यत्वम्। आहवनीयस्तूत्तरवेदिस्थ एव तत्रत्यपुरातनगार्हपत्यस्य शालामुखीयत्वमिति।

तथा च सूत्रम् — ‘प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयत्येष सोमस्याऽऽहवनीयो यतः प्रणयति स गार्हपत्यः’ इति।

मन्त्रपाठस्तु –

अत्रेति। हे शकटे देवयजनाख्ये पृथिव्याः शरीर उत्तरवेद्याः पश्चिमभागे प्रक्रमत्रयमवशेष्य यत्स्थानमस्ति अत्र स्थाने क्रीडतम्।

देवयजनरूपाया वेदेः पृथिवीशरीरत्वं यदिमामविन्दन्त तद्वेद्यै वेदित्वमित्येतस्मिन्ब्राह्मणे प्रसिद्धमाह —

‘अत्र रमेथां वर्ष्मन्पृथिव्या इत्याह वर्ष्म ह्येतत्पृथिव्या यद्देवयजनम्’ (सं. का. ६ प्र. २ अ. ९) इति।

कल्पः — ‘दिवो वा विष्णवित्यध्वर्युदक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनुमेथीं निहन्ति तस्यामीषां निनह्यत्येवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमनु’ इति।

युगस्य दक्षिणोत्तरभागौ शकटस्य कर्णस्थानीयौ। तयोरातर्द ईषाभ्यां सह दृढबन्धनम्। दक्षिणबन्धनसंधौ मेथी निखातव्या।

मन्त्रौ त्वेवं पठितौ —

दिव इति। हे विष्णो द्युलोकाद्वा भूलोकाद्वा महर्लोकाद्वाऽन्तरिक्षलोकाद्वा समानीतैर्बहुभिर्धनसमूहैः स्वहस्तौ पूरय। हे विष्णो पूर्णधनाद्दक्षिणात्सव्याच्च हस्तादाप्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिकं देहि। नुकमित्यव्ययं कर्मवाचकम्। विष्णोर्वीर्याणि कर्माणि प्रवोचं ब्रवीमि। कानि कर्माणि। यो विष्णुः पार्थिवानि रजांसि परमाणून्विममे निर्मितवान्परिगणितवांश्च। पुनरपि यो विष्णुरुत्तरमुपरिवर्ति सधस्थं देवानां सह वासस्थानं द्युलोकमस्कभयात्, यथाऽधो न पतति तथा स्तम्भितवान्। पुनरपि यस्त्रेधा विचक्रमाणस्त्रिषु लोकेषु पदत्रयं निदधौ, उरुभिर्महात्मभिर्गीयते च।

मेथ्या निखननं विधत्ते —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं दिवो वा विष्णवुतं पृथिव्या इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे’ [सं. का. ६ प्र. २ अ. ९] इति।

यथा शिरसि चक्षुरादीनि गोलकानि निधीयन्ते तथा हविर्द्रव्याणि शकटे निधीयन्त इति हविर्धानस्य यज्ञशिरस्त्वम्। हस्तौ पृणस्वाऽऽप्रयच्छेत्याशीर्यस्या ऋचः पदेषु प्रतीयते सेयमृगाशीर्पदा। यद्यप्येषा मेथीं न प्रकाशयति तथाऽपि

वाचनिकोऽत्र विनियोगः। अनेन मन्त्रेण यज्ञशिरसो हविर्धानाद्यजमान आशिषः प्राप्नोति।

आच्छादकं विधत्ते —

‘दण्डो वा औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै’ (सं. का. ६ प्र. २ अ. ९) इति।

दण्डो नाम कश्चिदसुर उपरनामकस्यासुरस्य पुत्रो वषट्कारदेवेन सह मैत्रीं कृत्वा तद्द्वारा प्रविश्य तृतीयस्य शकटस्याक्षमच्छिनत्। अतस्तृतीयस्य शकटस्य प्रतिनिधित्वेनैकैकस्य शकटस्योर्ध्वं तृणादिनिर्मितं छदिः स्थापयेत्। तत्र दक्षिणोत्तरपार्श्वयोः परिश्रयणार्थे द्वे छदिषी अपेक्ष्य तृतीयम्। अथ शकटे अन्तर्भाव्य हविर्धानाख्यं मण्डपं निर्मातव्यम्। तत्र दक्षिणशकटात्पुरतो ग्रहासादनायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण षट्संख्याकाः स्थूणा निखातव्याः। एवं पश्चाद्भागे षट् स्थूणा निखातव्याः। तयोः स्थूणापङ्क्त्योरुदञ्चौ वंशावादधाति।

विष्णो इति। अत्र कल्पः — ‘तासूदञ्चौ वंशौ प्रोहत्यध्यस्यति पुरस्ताद्रराटीं विष्णो रराटमसीति’ इति।

हविर्धानमण्डपस्य विष्णुदेवताकत्वाद्विष्णुत्वम्। पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते, तां दर्भमालां तद्बन्धनाधारं तिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचरितुं विष्णो रराटमसीत्युच्यते।

विष्णोरिति। कल्पः — ‘प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति अरत्निविस्तारं नवायामम्’ इति।

यज्ञपुरुषस्य हविर्धानाख्यं मण्डपं शिरस्तत्साम्यं मन्त्रैरुच्यत इत्याह —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतम्’ (सं. का. ६ प्र. २ अ. ९) इति।

एका रराटी, एकं छदिः, द्वौ रराट्यन्ताविति यावन्तो मण्डपस्य प्रकारा एतावद्धैतावत्प्रकारं शिरो विश्वकर्मणा विशेषेण स्यूतं, शिरस्याच्छादिका त्वमेव च्छदिः स्थापनीया।

विष्णोरिति। कल्पः — ‘पार्श्वयोश्छदिषी निदधाति विष्णोः श्न्यप्त्रे स्थ इति’ इति।

विष्णोरिति। कल्पः — ‘विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणं बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति वैष्णवमसि विष्णवे त्वेति संमितमभिमृशति’ इति।

सीव्यतेऽनया रज्ज्वेति स्यूः। हे बन्धनहेतो त्वं विष्णुदेवताकस्य रज्जुरसि। हे ग्रन्थिरूप त्वं विष्णुसंबन्धि दृढमसि। हे मण्डप त्वं विष्णुदेवताकमस्यतो विष्णुप्रीतये त्वां स्पृशामि।

अत्र विष्णोरिति पष्ठ्या देवतात्वलक्षणः संबन्धो विवक्षित इत्याह —

‘विष्णोः सयूरसि विष्णोर्ध्रुवमसीत्याह वैष्णव देवतया हविर्धानम्’ (सं. का. ६ प्र. २ अ. ९) इति।

प्रज्ञातग्रन्थेर्विस्रंसनं विधत्ते —

‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. ९) इति।

अमेहेन मूत्रनिरोधेन।

अथ विनियोगसंग्रहः।

“युञ्ज हुत्वा सुवागक्षे शब्दश्चेन्मन्त्रयेत तम्।

आ नोऽक्षमञ्ज्याज्जुहुयात्पथोरिदमिराद्वयात्॥१॥

प्राची प्रवर्त्ये शकटे अत्रेति स्थापयेदिमे।

दिवो विष्णोर्द्वयान्मेध्यावनसो विनिहन्त्युभे॥२॥

विष्णोर्मण्डपनिर्माणं पञ्चभिर्द्वारि वंशकः।

मध्यच्छदिर्ललाट्यन्तौ रज्जुस्यूतिश्च बन्धने॥

वैष्ण स्पृशेन्निर्मितं तन्मन्त्राः पञ्चदशोदिताः॥३॥ इति।

अथ मीमांसा।

दशमाध्यायस्याष्टमपादे चिन्तितम् —

“विकल्प्यते बाध्यते वाऽऽहवनीयः पदादिभिः।

सामान्यस्य विशेषेण प्रत्यक्षोक्तित्वसाम्यतः॥

लिङ्गचोदकवद्बोधो नास्ति तेन विकल्प्यते।

विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते” इति।

अनारभ्य श्रूयते — ‘यदाहवनीये जुह्वति। तेन सोऽस्याभीष्टः प्रीतः’ इति। ज्योतिष्टोमे श्रूयते – ‘पदे जुहोति वर्त्मनि जुहोति’ इति। राजसूये श्रूयते — ‘वल्मीकवपामुत्सृज्य जुहोति’ इति। तथाऽन्यत्र श्रूयते — ‘गार्हपत्ये पत्नीसंयाजाञ्जुहोति’ इति।

तत्रानारभ्यवादेन होमसामान्यमनूद्याऽऽहवनीयो विहितः। प्रकरणनियमितैः पदादिवाक्यैस्तदनुबन्धविशिष्टा होमा विहिताः। गार्हपत्यवाक्येन होमविशेषमनूद्य गार्हपत्यो विहितः। तत्र पदादिहोमेषु सामान्यशास्त्रेण प्राप्त आहवनीयो विशेषशास्त्रप्राप्तैः पदादिभिः सह विकल्प्यते। कुतः। प्रत्यक्षवचनोक्तत्वेन समानबलत्वात्। नन्वैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र यथा श्रुत्या लिङ्गं बाध्यते, यथा वा चोदकातिदिष्टानां कुशानामुपदिष्टैः शरैर्बाधस्तथा सामान्यस्य विशेषेण बाधोऽस्त्विति चेन्न। वैषम्यात्। लिङ्गं विलम्बितत्वाद्दुर्बलम्। चोदकश्चानुमेयतया दुर्बलः। न त्वेवं सामान्यशास्त्रं विलम्ब्यते, नाप्यनुमीयते। ततो दौर्बल्याभावाद्विकल्प इति प्राप्ते ब्रूमः — होमसामान्यानुवादकं यच्छास्त्रं तत्सामान्ये मुख्यत्वाद्धोमविशेषानुवादे लाक्षणिकतया दुर्बलं, विशेषशास्त्रं तु मुख्यवृत्त्या विधायकत्वात्प्रबलम्। न च पदादिशास्त्रमपि होमसामान्यमेवानूद्य पदादिविधायकं सत्समानबलं स्यादिति शङ्कनीयम्। प्रकरणनियमितत्वेन विशिष्टविधायकस्य सामान्यानुवादायोगात्। तस्मात्प्रबलेन विशेषेण सामान्यं बाध्यते।

तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —

“हविर्धाने स्तिथो ब्रूयात्सामिधेनीरिहाङ्गता।

हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते॥

वाक्योक्यादङ्गता मैवं प्रकृत्या पश्चिमोऽग्नितः।

देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः” इति।

ज्योतिष्टोमे श्रूयते — ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इति।

हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते। तस्य समीपे सोमस्याभिषवः। उतेत्ययं शब्दोऽथशब्दार्थे वर्तते। अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति तस्मिन्सामिधेनीरनुब्रूयुरित्यर्थः। इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते। न चात्रार्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदित्युदाहरण इव वाक्यभेदे दोषःशङ्कितुं शक्यः। एकवाक्यतायाः स्पष्टं प्रतिभासादिति प्राप्ते ब्रूमः — सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः। प्रकृतौ चाऽऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम्। इहोत्तरवेदेराहवनीयत्वात्तदुपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात्स देशश्चोदकेन प्राप्त इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यं किंतु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमप्राप्तौ दक्षिणस्य हविर्धानस्य समीपदेशं नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते। तथा सति नियममात्रविधानाल्लाघवं भवति। त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्यात्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम्। तस्माद्देशलक्षणा।

द्वादशाध्यायस्य प्रथमपादे चिन्तितम् —

“हविर्धानोर्ध्वकाले किमौषधार्थमनोन्तरम्।

नास्त्यस्ति वा न शक्तत्वाद्देशभेदादितोऽन्तिमः” इति।

ज्योतिष्टोमे हविर्धाननामकयोः शकटयोः प्रवर्तनादूर्ध्वमौषधद्रव्यकाणां पुरोडाशादीनां निर्वापाय तयोरेव शक्ततत्वान्न शकटान्तमन्वेष्यमिति चेन्न। देशभेदात्। महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते। निर्वापस्तु मुख्यगार्हत्यात्पश्चिमदेशे। किंचास्त्यत्र तृतीयं शकटम्। अनांसि प्रवर्तयन्तीति बहुवचनोक्तेः तस्माच्छकटान्तरे निर्वापः।

अथ च्छन्दः —

युञ्जते मन इति जगती। आ नो इति विराड्गायत्री। इदं विष्णुरिति गायत्री। इरावतीति त्रिष्टुप्। प्राची प्रेतमिति द्विपदा त्रिष्टुप्। अत्र रमेथामित्येकपदा विराट्। दिवो वा विष्णो विष्णोर्नुकमिति त्रिष्टुभौ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके त्रयोदशोऽनुवाकः॥१३॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शालामुखीये शामित्रं जुहोति - युञ्जत इति जगत्या ॥ युञ्जते मनः विषयेभ्यः प्रत्याहृत्येष्टे विषये स्थापयन्ति । उत अपि च, धियश्च युञ्जते यागादिलक्षणानि कर्माणि कुर्वते । यद्वा - धियः प्रज्ञाः धर्मार्थकाममोक्षविषयाः युञ्जतो भावयन्ति । यद्वा - धिय इतीन्द्रियाण्युच्यन्ते, तानि युञ्जते इष्टे विषये प्रवर्तयन्ति, अनिष्टेभ्यश्च निवर्तयन्ति । विप्राः मेधाविनः । विप्रस्य मेधाविनः बृहतः यजमानस्य सम्बन्धिनो विपाश्चितः पण्डिता ऋत्विजः । 'बृहन्महतोरुपसङ्ख्यानम्' इति विभक्तेरुदात्तत्वम् । एवमेतत्कुर्वाणा बृहतो विपश्चितो भवन्ति । एक इत् एक एव वयुनावित् वयुनानां ज्ञानोपायानां वेदिता । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । वयुनाविदेक एव होत्राः स्तुतिलक्षणा वाचो विदधे विदधाति विविधमुत्पादयति । छान्दसो लिट् । यद्वा - होत्राः ऋत्विग्विशेषान् होमस्य कर्तॄन् मैत्रावरुणदीन् विदधाति विभज्य स्थापयति । युञ्जते मनश्च धियश्च युञ्जानाः । एतत्तु कर्तुं न सर्वे शक्नुवन्ति एक एव वयुनाविदेवंविधं कर्तुं शक्नोतीति कारणमाह - मही महती महनीया खलु देवस्य सवितुः परिष्टुतिः परितस्सर्वतः रूपकर्मबान्धवाध्यवसायेन कर्तुं न शक्यते; तस्मादेक एव वयुनावित् होत्रा विधातुं शक्नोति । तस्मान्महानयं देव इति सवितुः प्रशंसा । तस्मै सवित्रे इदं स्वाहुतमस्त्विति । अन्य आह – मेधाविनो यजमानस्य सम्बन्धिनो विपश्चितो विप्रा युञ्जते । एक एव वयुनावित् होत्रा विदधाति । सा खलु सर्वा देवस्य सवितुः महती परिष्टुतिः सर्वतः प्रस्तुतिः प्रेरणेति यावत् । तस्मात्तदनुज्ञाता वयमिदं कर्मारभामहे इति भावः । 'तादौ च' इति परेः प्रकृतिस्वरत्वम् ॥
2 अक्षोत्सर्जने जपति - सुवागिति ॥ हे देव देवनशील अक्षेषु सुवाक् शोभनवाक् भूत्वा दुर्यान्गृहान्यजमानस्य सम्बन्धिन आवद आभिमुख्येन वद, कल्यणीं गृहाणां शान्तिकरीं वाचं वदेत्यर्थः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं सुवागिति । दुर्यानिति नकारस्य पूर्ववद्रुत्वादि । 'वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः' इत्यादि ब्राह्मंणम् । अथ देवश्रुतौ देवेष्वाघोषेथाम् इत्यस्य द्विवचनान्तत्वान्न पूर्वेण सम्बन्धः । आचार्यवचनाच्च, वाग्देव दुर्यानावदेत्येवं तत्र जपति इति । द्विवचनसम्बन्धादेवोपरितनेनाक्षधुरोऽवाञ्जने न च सम्बध्यते । न च प्रकरणादुत्कृष्य विकृतिमासाद्य यदयं करिष्यति तत्प्रतीयते । तस्मादत्रैव विनियोगः कल्पयितव्यः । स च वचनात् पुल्लिङ्गाच्चाक्षद्वयोत्सर्जनजपे युक्त इव लक्ष्यते । अयमर्थः - देवाश्शृण्वन्ति यौ तौ देवश्रुतौ । कर्मणि क्विप्, निष्ठायां वा, 'परादिश्छन्दसि बहुलम्' इति उत्तरपदाद्युदात्तत्वम् । हे अक्षौ ईदृशौ युवां आत्मीयोत्सर्जनेन देवेष्वाघोषेथाम्, अयं यजमानो युष्मान्यजत इत्येवं महता शब्देन घोषणं कुरुतम् । घुषि कान्तिकरणे उदात्त अनुदात्तेत् भौवादिकः ॥
8 अक्षधुरमवाञ्जयति - आ न इति ॥ नः अस्माकं वीरः पुत्रादिकः कर्मण्यः कर्मयोग्यः आजायताम् । 'कर्मणि साधुः' इति यत् । पुनरपि विशेष्यते - यं सर्वेपि च वयमनुजीवामः । लेटि सलोपः । यश्च बहूनां वशी नियन्तृत्वादिशक्तिमान् असत् स्यात् । अस्तेर्लेटि 'इतश्च लोपः', 'लेटोडाटौ' इत्यडागमः । इयं च विराङ्गायत्री, प्रथमे पादे द्व्यक्षराधिक्यात् । पुरउष्णि क्प्रथमस्य पादस्य द्वादशाक्षरत्वात्, द्वाभ्यामूनत्वाच्च विराडुष्णिक् । तत्र 'यं सर्वेनुजीवामः' इति द्वितीयः पादः ॥
4 दक्षिणस्यां चक्रवर्तिन्यां जुहोति - इदमिति गायत्र्या ॥ इदं विश्वं विष्णुः व्यापी भगवान्विचक्रमे विभज्य क्रमतेस्म । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् । 'वेः पादविहरणे' इति वा । कतिधा विचक्रम इत्यत आह - त्रेधा त्रिधा पदं पादं निदधे स्थापयामास पृथिव्यामन्तरिक्षे दिवि चेत्याधारभेदेन पदस्य त्रैविध्यम् । त्रीणि पदानीति यावत्, यथा 'त्रीणि पदा वि चक्रमे' इति । 'एधाच्च' इत्येधाप्रत्ययः । यस्मादेवं तस्मादस्य विष्णोः पांसुरे पांसुमति पादे । रः मत्वर्थीयः । यद्वा - सिध्मादिलक्षणो लः, रलयोरेकत्वं स्मर्यते । पांसवो रजांसि लोका उच्यन्ते । तैः रजःकरण[कण ]कल्पैः तद्वति विष्णोः पदकमले समूढं सम्यगूढं तेनैव समवस्थापितम् । किमिदं विश्वां यद्विचक्रमे । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अस्येति 'इदमोन्वादेशेऽशनुदात्तः' इत्यशादेशोनुदात्तः । य इममर्थमकरोत्स विष्णुरनेन होमेनेमं यज्ञं समापयत्विति भावः । अपरा योजना - इदं विष्णुरेव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते गच्छति । 'छन्दसि लुङ्लङ्लिटः' इति लिट् । विष्णोरेवेदं क्रमणं यद्धविर्धानस्येति यावत् विष्णुर्विशेष्यते - त्रेधा निदधे पदं तस्मादस्य हविर्धानस्य पांसुरे पांसुमति च मार्गे समूढं सम्यगूढं प्रापितमिदमाज्यमस्त्विति । अन्ये पुनराहुः - इदं विश्वं विष्णुर्व्यापी आदित्यात्मा विचक्रमे विक्रमते विभज्य प्राप्नोति त्रेधा पृथिव्यामन्तरिक्षे दिवि च पदं निदधाति अग्निविद्युर्त्सूयात्मना त्रिषु स्थानेषु पादन्यासं करोति । अस्य विष्णोः पांसुरे त्वन्तरिक्षे स[य]त्पदं विद्युद्रूपं तदेव समूढं सम्मूढं कारणानित्यत्वात्सर्वदान दृश्यते । (मनो) यथेतरे ज्योतिषी सम्यग्गृह्येते दृष्ट्या सोयमादित्य इदं यज्ञमनेन होमेन समापयत्विति ॥
5 उत्तरस्यां वर्तन्यां जुहोति - इरावतीति त्रिष्टुभा ॥ द्यावापृथिव्यात्मना स्तूयते; हे हविर्धानात्मिके द्यावापृथिव्यौ इरावती इरावत्यौ अन्नवत्यौ भूतं भवतं यज्ञसाधनद्वारेण । लोटि 'बहुळं छन्दसि' इति शपो लुक्, 'हि च' इति निघातप्रतिषेधः । धेनुमती धेनुमत्यौ च भवतम् । 'ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । हिशब्दश्चार्थे, इरावती धेनुमती च भवतमिति । 'वा छन्दसि' इति द्वयोरपि पूर्वसवणदीर्घत्वम् । हविर्धानविशेषणत्वे 'नपुंसकाच्च' इति शीभावः । सूयवसिनी शोभनैर्यवसैरभ्यवहार्यैस्तद्वत्यौ, सूयवसिन्यौ च भवतम् । सोस्सांहितिको दीर्घः । यशस्ये यशसो निमित्ते च भवतम् । 'गोद्व्यचः' इति यत्प्रत्ययः । मनवे मन्त्रवते मननवते यजमानाय इत्थं भवतमिति । कस्मादेवमुच्यत इति चेत्, श्रूयतां युवयोर्महाभाग्यम् - एते युवां रोदसी रोदस्संज्ञां भजमाने विष्णुरेव प्रजापत्यात्मा स्वयं व्यस्कभ्नात् विभज्य स्थापितवान् अधः उपरि च; यथा 'यदप्स्ववापद्यत । सा पृथिव्यभवत्' इत्यादि । तदानीं युवां रोदस्संज्ञे चाभूतमिति भावः । किञ्च - विस्तीर्णां वा पृथिवीमन्तरिक्षं च । पृथिवीशब्देन प्रथि[पृथु]त्वात्त्रयो लोकाः उच्यन्ते; यथा - 'यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्' इति । इमां च विष्णुर्दाधार अविचलितां स्थापयामास । अभितः अधस्तादुपरिष्टाच्च मयूखैरंशुभिः । 'पर्यभिभ्यां च' इति तसिल् । धारयतेश्छान्दसे लिटि व्यत्ययेनाम्प्रत्ययो न क्रियते । यद्वा - 'बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति प्रत्ययोत्पत्तेः प्रागेव णेर्लोपः, 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् । एवं महाभागधेयाध्यां युवाभ्यां किन्नाम कर्तुं न शक्यते? तस्माद्यथोक्तं भवतमिति । आदित्यपक्षे - व्यस्कभ्नात् रोदसी विष्णुरादित्य एते युवां विविधं स्थापयति । तत एते एवं स्थापिते दाधार धारयति पृथिवीमभितः पृथिव्यामन्तरिक्षस्याधस्तादुपरिष्टाच्च । 'अभितः पीरतः' इति द्वितीया । मयूखैः रश्मिभिरधोमुखैः पृथिवीं, ऊर्ध्वमुखैश्च दिवं, स्वयं मध्ये अन्तरिक्षे वर्तमानः इति । तस्मादनयाहुत्या युवामन्नादिमत्यौ भवतम् । युवां युवयोरन्तराळं च विष्णुरपि दृढीकरोत्विति ॥

हविर्धाने प्रवर्तयन्ति - प्रची इति द्विपदया त्रिष्टुभा जगत्या वा ॥ हे हविर्धाने प्रची प्रागंचितगमनवती प्रेतं प्रकर्षेणेतं गच्छतम् । अध्वरं बाधकरहितं यज्ञं कल्पयन्ती अभिमतसम्पादनसमर्थं कुर्वाणे । 'शप्श्यनोर्नित्यम्' इति नुम् । किञ्च – ऊर्ध्वं उपरि देवान्प्रति यज्ञं नयतं प्रापयतम् । किञ्च - माजीह्वरतं मा कुटिलं कार्ष्टम्, मा अदेवगामिनं कुरुतम् । ह्वृ कौटिल्ये, हेतुमण्ण्यन्ताल्लुङि चङादि ॥

7 अध्वर्यू हविर्धाने स्थापयतः - अत्रेति विराजैकपदया ॥ अत्रैतस्मिन्वर्ष्मन् पृथिव्यास्सम्बन्धिन्युच्छ्रिइते देशे रमेथाम् अत्रैव स्थातुं रुचिं भजतम् । 'सुपां सुलुक्' इति वर्ष्मणस्सप्तम्या लुक् । 'नञ्सम्बुद्ध्योः' इति नलोपाभावः । 'उदात्तयणः' इति पृथिव्या विभक्तेरुदात्तत्वम् ॥
8 अध्वर्यू हविर्धानयोर्मध्यौ निघ्नतः - दिव इति त्रिष्टुभा ॥ हे विष्णो व्यापकात्मन् दिवो वा देवलोकाद्वा उत वा अपि वा पृथिव्याः महो वा महतो वा इतो दिवः पृथिव्याश्च महतोन्यस्माद्वा कुतश्चिन्महर्लोकादेः । महतेः क्विबन्तात् पञ्चम्येकवचने 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । हे विष्णो । पुनरामन्त्रणमादरार्थम् । अथवा अन्तरिक्षात् आनीतैरित्यवगम्यते । बहुभिर्वसव्यैः बहूनां धनानां समूहैः । 'वसोस्समूहे च' इति यत् । हस्तौ मदीयौ पृणस्व पूरय, महाधनं मां कुर्वित्यर्थः । हस्त पूरणत्वेन महाधनत्वं लक्ष्यते । लोके हि महाधनः पूर्णहस्त इत्युच्यते, धनहीनो रिक्तहस्त इति । तस्माद्बहुभिर्धनराशिभिः वर्धमानं मां कुर्विति प्रतिपादितं भवति । पुनरपि देवस्यौदार्यातिशयप्रकटनार्थमाह् - आ दक्षिणाद्धस्तात्प्रसारितात् उत अपि च आ च सव्याद्धस्तात् वसुराशिं प्रयच्छ, प्रसारितयोर्दक्षिणसव्ययोर्हस्तयोः अन्तराळं यावता धनपुञ्जेन पूर्यते तावद्देहीत्यर्थः । अथ वा बहुभिर्वसव्यैः द्युलोकादिभ्य आनीतैस्त्वदीयौ हस्तौ पूरय, प्रभूतं धनराशिं हस्ताभ्यां गृहाणेत्यर्थः । ततस्तं प्रभूतं धनराशिं दक्षिणाद्धस्तादाप्रयच्छ, सव्याच्चाप्रयच्छ । तस्मादाभिमुख्येन धनराशिं निस्सारय, हस्त[विशेषो] न निरूपणीयः । अधि[आ]कारेणाभिमुख्यं योस्याध्वनो ग्रामादागच्छतीति यथा । अत एव द्वाभ्यामपि पञ्चम्यन्ताभ्यामावृत्तस्सम्बध्यते । प्रशब्दंस्तु विपर्यासान्नावर्तते । 'दक्षिणस्यादिगाख्यायाम्' इति दक्षिणशब्द आद्युदात्तः ॥
9 अध्वर्यू मेध्यौ बध्नीतः - विष्णोर्नुकमिति त्रिष्टुभा ॥ नुकमिति क्षिप्रनाम । विष्णोर्वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । विष्णुर्विशेष्यते - यः पार्थिवानि पृथिव्यन्तरिक्षद्युलोकभवानि । पृथिवीशब्देन त्रयो लोका उच्यन्ते, यथा 'यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्' इति । 'पृथिव्या ञाञौ' इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि आग्नाविद्युत्सूर्यात्मकानि विममे विनिर्मितवान् । यद्वा - पार्थिव्नि पृथुषु भवानि रजांसि वसूनी विममे । किञ्च - य उत्तरं सधस्थं संहस्थानं सर्वेषामन्तरिक्षम् । 'सुपि स्थः' इति कः । 'सधमाधस्थयोः' इति सधादेश । तदस्कभायत् अस्तम्भयत् अधारयत् । अस्कभ्नादिति वक्तव्ये 'स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति श्नाप्रत्ययः । 'छन्दसि शायजपि' इति व्यत्ययेन हेरभावेपि श्नश्शायजादेशः । किं कुर्वन्नित्याह – विचक्रमाणस्त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः कानजादेशः । उरुगायः उरुभिर्महात्मभिर्गायत इति उरुगायः । कै गै शब्दे, घञि 'आतो युक्चिण्कृतोः' इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा - उरुभिर्गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्यार्णि प्रवोचम् स मेधीदार्ढ्यं करोत्विति ॥
10 रराटीमासञ्जयति - विष्णो रराटमसीति ॥ हे रराटि विष्णोर्यज्ञात्मनो ललाटमिव प्रधानमसि । कपिलकादित्वाल्लत्वं विकल्प्यते ॥
11 मध्यमं छदिरधिनिदधाति - विष्णोरिति ॥ विष्णोः पृष्ठं पृष्ठसदृशमसि ॥
12 पार्श्वयोच्छदिषी निदधाति - विष्णोः श्नप्त्रे स्थ इति ॥ श्नप्त्रे शोधके स्थः । सकारस्य शकारापत्तिः । स्नपतिश्छान्दसश्शुद्धिकर्मा, औणादिकष्ट्रन्प्रत्ययः । स्नातेर्वा णिचि पुगादिः ॥
13 दक्षिणबाहौ कुशमुपसङ्गृह्य स्यन्द्यां प्रवर्तयति - विष्णोस्स्यूरिति ॥ विष्णोः स्यूः सेवनी त्वमसि यज्ञस्य । षिवु तन्तुसन्ताने, 'क्विप्च' इति क्विप् 'छ्वोश्शूडनुनासिके च' इत्यूठ् ॥
14 द्वारग्रन्थिं करोति - विष्णोर्ध्रुवमसीति ॥ विष्णुना भ्रुवमचलितं करणीयमसि ॥
15 हविर्धानमण्डपमभिमृशति - वैष्णवमिति ॥ वैष्णवं विष्णुदेवत्यं त्वमसि । अतो विष्णवे त्वामभिमृशामि । 'वैष्णवं हि देवतया हविर्धानम्' इति ब्राह्मणम् ॥
इति द्वितीये प्रपाठके त्रयोदशोनुवाकः ॥
पञ्चशत् 2 #
TS 1.2.13.2 TS 1.2.13.2
पाꣳसु॒॒र इरा॑वती धेनु॒मती॒ हि भू॒तꣳ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚ । व्य॑स्कभ्ना॒द्-रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ ॥ प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्पय॑न्ती ऊ॒र्द्ध्वं ॅय॒ज्ञ्ं न॑यतं॒ मा जी᳚ह्वरत॒मत्र॑ रमेथां॒ ॅवर्ष्म॑न् पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र् वस॒व्यै॑रा प्र य॑च्छ॒ - [ ]
पदपाठः (Word-by-word)
पाꣳ॒॒सु॒रे । इरा॑वती॒ इतीरा᳚ - व॒ती॒ । धे॒नु॒मती॒ इति॑ धेनु - मती᳚ । हि । भू॒तम् । सू॒य॒व॒सिनी॒ इति॑ सु - य॒व॒सिनी᳚ । मन॑वे । य॒श॒स्ये॑ इति॑ ॥ वीति॑ । अ॒स्क॒भ्ना॒त् । रोद॑सी॒ इति॑ । विष्णुः॑ । ए॒ते इति॑ । दा॒धार॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः᳚ ॥ प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒द्ध्व॒रम् । क॒ल्पय॑न्ती॒ इति॑ । ऊ॒र्द्ध्वम् । य॒ज्ञ्म् । न॒य॒त॒म् । मा । जी॒ह्व॒र॒त॒म् । अत्र॑ । र॒मे॒था॒म् । वर्.ष्मन्न्॑ । पृ॒थि॒व्याः । दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः । म॒हः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । अ॒न्तरि॑क्षात् । हस्तौ᳚ । पृ॒ण॒स्व॒ । ब॒हुभि॒रिति॑ ब॒हु - भिः॒ । व॒स॒व्यैः᳚ । आ* । प्रेति॑ । य॒च्छ॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.2.13.3 TS 1.2.13.3
दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ ॅवी॒र्या॑णि॒ प्र वो॑चं॒ ॅयः पार्त्थि॑वानि विम॒मे रजाꣳ॑सि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ ॅविचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥
पदपाठः (Word-by-word)
दक्षि॑णात् । एति॑ । उ॒त । स॒व्यात् ॥ विष्णोः᳚ । नुक᳚म् । वी॒र्या॑णि । प्रेति॑ । वो॒च॒म् । यः । पार्थि॑वानि । वि॒म॒म इति॑ वि - म॒मे । रजाꣳ॑सि । यः । अस्क॑भायत् । उत्त॑र॒मित्युत् - त॒र॒म् । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । वि॒च॒क्र॒मा॒ण इति॑ वि - च॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒गा॒य इत्यु॑रु - गा॒यः । विष्णोः᳚ । र॒राट᳚म् । अ॒सि॒ । विष्णोः᳚ । पृ॒ष्ठम् । अ॒सि॒ । विष्णोः᳚ । श्नप्त्रे॒ इति॑ । स्थः॒ । विष्णोः᳚ । स्यूः । अ॒सि॒ । विष्णोः᳚ । ध्रु॒वम् । अ॒सि॒ । वै॒ष्ण॒वम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ ॥
पदसंख्या: 39