अनुवाकः 4 TS 1.2.4

(A4)

( दक्षि॑णा॒-सोम॑सखा॒-पञ्च॑ च )

अनुवाकः 4 - Complete Audio

TS 1.2.4 - स्वरानुगामी

0:00 0:00
PS1.1 इ॒यं ते॑ शुक्र त॒नूरि॒दं
PS1.2 ॅवर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑
PS1.3 गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒
PS1.4 जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः
PS1.5 प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑
PS1.6 शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वꣳ ह॒विः सूर्य॑स्य॒
PS1.7 चक्षु॒रा -ऽरु॑हम॒ग्ने र॒क्ष्णः क॒नीनि॑कां॒
PS1.8 ॅयदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि
PS1.9 म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा-[ ]
PS2.1 ऽसि य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ ऽस्यदि॑ति-रस्युभ॒यत॑॑श्शीर्ष्णी॒
PS2.2 सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒
PS2.3 सं भ॑व मि॒त्रस्त्वा॑ प॒दि
PS2.4 ब॑द्ध्नातु पू॒षाऽद्ध्व॑नः पा॒त्विन्द्रा॒या-द्ध्य॑क्षा॒यानु॑ त्वा
PS2.5 मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒
PS2.6 सग॒र्भ्योऽनु॒ सखा॒ सयू᳚थ्यः॒ सा
PS2.7 दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमꣳ॑ रु॒द्रस्त्वा
PS2.8 ऽऽ*व॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति
PS2.9 सोम॑सखा॒ ( ) पुन॒रेहि॑
PS2.10 स॒ह र॒य्या

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.2.4.1 TS 1.2.4.1
इ॒यं ते॑ शुक्र त॒नूरि॒दं ॅवर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑ गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वꣳ ह॒विः सूर्य॑स्य॒ चक्षु॒रा -ऽरु॑हम॒ग्ने र॒क्ष्णः क॒नीनि॑कां॒ ॅयदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा-[ ]
पदपाठः (Word-by-word)
इ॒यम् । ते॒ । शु॒क्र॒ । त॒नूः । इ॒दम् । वर्चः॑ । तया᳚ । समिति॑ । भ॒व॒ । भ्राज᳚म् । ग॒च्छ॒ । जूः । अ॒सि॒ । धृ॒ता । मन॑सा । जुष्टा᳚ । विष्ण॑वे । तस्याः᳚ । ते॒ । स॒त्यस॑वस॒ इति॑ स॒त्य - स॒व॒सः॒ । प्र॒स॒वे इति॑ प्र -स॒वे । वा॒चः । य॒न्त्रम् । अ॒शी॒य॒ । स्वाहा᳚ । शु॒क्रम् । अ॒सि॒ । अ॒मृत᳚म् । अ॒सि॒ । वै॒श्व॒दे॒वमिति॑ वैश्व -दे॒वम् । ह॒विः । सूर्य॑स्य । चक्षुः॑ । एति॑ । अ॒रु॒ह॒म् । अ॒ग्नेः । अ॒क्ष्णः । क॒नीनि॑काम् । यत् । एत॑शेभिः । ईय॑से । भ्राज॑मानः । वि॒प॒श्चिता᳚ । चित् । अ॒सि॒ । म॒ना । अ॒सि॒ । धीः । अ॒सि॒ । दक्षि॑णा ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः)।

तृतीये देवयजनं स्वीकृतम्। अथ तस्मिन्नेव देवयजने सोमयागोपयोगिसोमं क्रेतुं सोमक्रयणीविषयं होमादिकं चतुर्थेऽभिधीयते। इयं ते शुक्रेत्यादयस्तन्मन्त्राः। प्रायणीयासंबन्धि ध्रौवाज्यम्। तेनाऽऽज्येन सोमक्रयणीमीक्षमाणो जुहुयात्। ततो मन्त्रव्याख्यानात्पूर्वं प्रायणीया सोमक्रयणी चानुवाकद्वयेन ब्राह्मणेऽभिधीयते।

तत्र प्रायणीयां प्रस्तौति —

“देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्तेऽन्योन्यमुपाधावन्त्वया प्रजानाम त्वयेति तेऽदित्याँ समध्रियन्त त्वया प्रजानामेति साऽब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्निति तस्मादादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः” (सं. का. ६ प्र. १ अ. ५) इति।

देवयजनार्थमयं प्रदेशः समीचीनो न त्वितर इति निश्चेतुं परिभ्रम्य तं प्रदेशं निश्चित्य परिभ्रमणेन दिग्भ्रमं प्राप्य प्राचीनवंशादावसमर्थाः संपन्नाः। ततस्त्वमेव दिशं ज्ञापयेत्येवं परस्परं वदन्तो दिग्बोधकशक्तिमदित्यां निश्चितवन्तः। सो चादितिः सोमयागारम्भसमाप्त्योरहमेव देवता भूयासमिति वरमयाचत। प्रयन्ति प्रारभन्तेऽनेन देवतारूपेणेति प्रायणम्। उद्यन्त्युत्तिष्ठन्ति समापयन्त्यनेनेति उदयनम्। अहमेव प्रायणमारम्भदेवता येषां यज्ञानां ते मत्प्रायणाः। अहमेवोदयनं समाप्तिदेवता येषां यज्ञानां ते मदुदयनाः।

तस्मादेवं वृतत्वाददितिदेवताकः प्रायणीययागः कर्तव्यः। तत्प्रसङ्गादुदयनयागोऽपि विधीयते।

अदितिरेका प्राधानदेवता चतस्रस्त्वङ्गदेवता इत्यभिप्रेत्य संख्यां विधत्ते —

“पञ्च देवता यजति पञ्च दिशो दिशां प्रज्ञात्या अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ५) इति।

दिग्विशेषेषु देवताविशेषान्विधातुं प्रस्तौति —

“पथ्या स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा सोमेन प्रतीची सवित्रोदीचीमदित्योर्ध्वाम्” (सं. का. ६ प्र. १ अ. ५) इति।

स्वस्तिसंज्ञा देवता पथ्या पथि साधुः।

दिग्विशेषबोधनरूपे मार्गे कुशलान्विधत्ते —

“पथ्या स्वस्तिं यजति प्राचीमेव तया दिशं प्रजानाति पथ्या स्वस्तिमिष्ट्वाऽग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानुपश्यत्यग्नीषोमाविष्ट्वा सवितारं यजति सवितृप्रसूत एवानुपश्यति सवितारमिष्ट्वाऽदितिं यजतीयं वा अदितिरस्यामेव प्रतिष्ठायानुपश्यति” (सं. का. ६ प्र. १ अ. ५) इति।

अर्थानुसारेण होमविशेषा दिग्विशेषून्नेयाः। चक्षुर्द्वयरूपेण प्रशंसितुमग्नीषोमयोः सह निर्देशः। होमस्तु तयोः क्रमभावी दिग्भेदाद्याज्यानुवाक्याभेदाच्च। ततोऽग्निमिष्ट्वा सोमं यजतीत्यपि वाक्यं द्रष्टव्यम्। तयोश्चक्षुष्ट्वं दार्शिकाज्यभागाब्राह्मणे प्रपञ्चितम्। अत्रादितेश्चरुहोमः। “आदित्यः प्रायणीयः। पयसि चरुः” इति शाखान्तरे समाम्नानात्। आज्येन तु देवतान्तराणाम्। तथा च सूत्रम् — “चतुर आज्यभागान्प्रतिदिशं यजति” इति।

ऋगनुवचनमध्वर्योर्विधत्ते —

“अदितिमिष्ट्वा मारुतीमृचमन्वाह मरुतो वै देवानां विशो देवविशं खलु वै कल्पमानं मनुष्याविशमनुकल्पते यन्मारुतीमृचमन्वाह विशां कॢप्त्यै” [सं. का. ६ प्र. १ अ. ५] इति।

मरुतो यद्धव इत्येषा मारुती। तथा च सूत्रम् — “मारुतीमृचमन्वाह मरुतो यद्धवो दिव इति” इति। एकोनपञ्चाशत्संख्याकाः सप्तगणरूपा मरुतो मनुष्यवैश्यवद्देवानां धनसंपादकाः प्रजाः। अनेन मन्त्रानुवचनेन देवविशां समूहः स्वव्यपारे कॢप्तो भवति। तं च कल्पमानमनुसृत्य मनुष्यप्रजासंघः कल्पते। अतो मन्त्रानुवचनं प्रजानां कॢप्त्यै भवति।

पूर्वपक्षत्वेन चोदकप्राप्तं किं चिदङ्गमपवदति —

“ब्रह्मवादिनो वदन्ति प्रयाजवदननूयाजं प्रायणीयं कार्यमनुयाजवदप्रयाजमुदयनीयमितीमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिः” [सं. का. ६ प्र. १ अ. ५] इति।

प्रमुखे यष्टव्याः समिदादिनामकाः पञ्च प्रयाजा अनु पश्चात्समाप्तौ यष्टव्या बर्हिरादिनामकास्त्रयोऽनूयाजाः। तदुभयं प्रायणीयोदयनीययोरिष्ट्योरतिदेशतः प्राप्तम्। तत्र प्रायणीमेष्ट्यामनुयाजानुष्ठाने यागः समाप्येत तद्वदुदयनीयायां प्रयाजानुष्ठाने यागान्तरं प्रारभ्येत। तथा सति सोमयागो मध्ये विच्छिद्येत। उभयवर्जने तु सोमयागस्य प्रारम्भरूपायां प्रायणीयेष्टाविदानीमनुष्ठीयमाना इमे प्रत्यक्षाः प्रयाजाः समाप्तिरूपायामुदयनीयेष्टावनुष्ठीयमाना अमी परोक्षा अनुयाजाः। तथा सति प्रयाजानूयाजद्वयेन दर्शयागस्य या संततिः सैवास्य सोमयागस्य मध्ये विच्छेदराहित्यलक्षणा सा संततिः संपद्यते।

पूर्वपक्षं दूषयति —

“तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाद्यदनूयाजान्तरियात्प्रजामन्तरियाद्यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञः पराभवति यज्ञं पराभवन्तं यजमानोऽनु पराभवति” (सं. का. ६ प्र. १ अ. ५) इति।

आत्मनो वा पुत्रादेर्वा नान्तरायः सोढुं शक्यते यतो द्वयं तदङ्गमित्यर्थः सिद्धान्तमाह —

“प्रयाजवदेवानुयाजवत्प्रायणीयं कार्य प्रयाजवदनूयाजवदुदयनीयं नाऽऽत्मानमन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः” (सं. का. ६ प्र. १ अ. ५) इति।

विच्छेदपरिहाराय विधत्ते –

“प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य संततिः” (सं. का. ६ प्र. १ अ. ५) इति।

प्रायणीययागसंबन्धि चरुपात्रमप्रक्षाल्य निष्कासे पात्रलिप्तेऽन्ने निर्वापान्नलेपस्य या संततिः सैव सोमयागस्याविच्छेदरूपा सा संततिर्भवति।

प्रायणीयोदयनीययोर्दैवतैक्येन याज्याया अप्येकत्वप्राप्तौ व्यत्यासं विधत्ते –

“याः प्रायणीयस्य याज्या यत्ता उदयनीयस्य याज्याः कुर्यात्पराङमुं

लोकमारोहेत्प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनुवाक्यस्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति” ( सं. का. ६ प्र. १ अ. ५) इति।

स्वस्तिरिद्धि प्रपथे श्रेष्ठेत्याद्याः प्रायणीयस्य याज्या उदयनीयस्यपि तथेत्येवं केचिदाहुः। तथा सति प्रतिनिवृत्तेरभावद्यजमानोऽस्माल्लोकात्पराङ्मुखः स्वर्गमारोढुं सहसा म्रियेत। तस्मात्तेषां पक्षो न युक्तः। यास्तु स्वस्ति नः पथ्येत्याद्याः प्रायणीयस्य पुरोनुवाक्यास्तासां याज्यत्वे सति स्वस्तिरिद्धीत्यादीनां पूर्वोक्तानां पुरोनुवाक्यत्वाय प्रतिनिवृत्तेर्यजमानोऽप्यस्मिँल्लोके प्रतितिष्ठत्येव।

इत्थं प्रायणीयेष्टिगुक्त्वा सोमक्रयाणीं वक्तुं सोमाहरणं सोपाख्यानमाह —

“कद्रूश्च वै सुपर्णी चाऽऽत्मरूपयोरस्पर्धेताँ सा कद्रूः सुपर्णीमजयत्साऽब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति” (सं. का. ६ प्र. १ अ. ६) इति।

कद्रूः सुपर्णी चोमे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्यं ममैवेत्यस्पर्धेताम्। तत्र मध्यस्थाः कद्र्वा जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश। इतोऽस्माल्लोकादारभ्य गणनायां तृतीया द्यौः स्वर्गलोकस्तस्मिन्सोमो वर्तते। महर्जनस्तपः सत्यमित्येतेऽपि लोका द्युशब्दाभिधेयास्तस्मादितस्तृतीयस्यामिति विशेष्यते। सोम आहृत्य दत्ते सति त्वां मुञ्चामीति।

सोमाहरणं संभावयितुं श्रुतिराह —

“इयं वै कद्रूरसौ सुपर्णी छन्दासि सौपर्णेयाः” (सं. का. ६ प्र. १ अ. ६) इति।

भूलोकरूपत्वात्कद्रूः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपत्वादुत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भावाच्च शक्नोति।

अथ सा सुपर्णी स्वपुत्राणां गायत्र्यादीनामग्रे स्ववृत्तान्तं स्पष्टी करोतीत्याह —

“साऽब्रवीदस्मै वै पितरौ पुत्रान्विभृतस्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति मा कद्रूरवोचदिति” (सं. का. ६ प्र. १ अ. ६) इति।

पुंनामनरकोपलक्षितादशेषाद्दुःखात्त्रायन्त इति पुत्रास्तास्तान्पुत्रानस्यमा एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्णीतः। हे गायत्र्यादिपुत्राः कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम्। गायत्र्यादीनामैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम्।

तत्र प्रौढत्वादादौ जगती प्रववृत इत्याह —

“जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति” (सं. का. ६ प्र. १ अ. ६) इति।

पुरा जगतीपादस्य चतुर्दशाक्षराण्यासन्। तादृशी जगती द्युलोकं गत्वास्वानभ्राजादिसोमरक्षकैः सह युद्ध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्ध्याख्यपशूनिष्टिसाध्यां दीक्षां च गृहीत्वा स्वकीये चाक्षरद्वये स्वानादिभिर्गृहीते सति पराजित्य समागता। यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तं पशुप्रदा। यतः पशुभिः सह दीक्षाऽऽनीता ततः स्वाधीनसंपत्तौ सत्यां दीक्षायां प्रवर्तते।

तथैव त्रिष्टुभो युद्धं दर्शयति —

“त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्” (सं. का. ६ प्र. १ अ. ६) इति।

गौश्चाश्वश्चेत्यादयो दक्षिणाः। अशनपरित्यागमुष्टिबन्धवाग्यमनवनीताभ्यङ्गकृष्णाजिनप्रावरणादिक्लेशसहिष्णुत्वं तपः। प्राणवत्प्रियस्य गवाश्वादेर्दानमधिकं तपः।

त्रिष्टुभा तदानयनमुपपादयति —

“तस्मात्त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” (सं. का. ६ प्र. १ अ. ६) इति।

माध्यंदिनसवनस्य त्रिष्टुगभिमानिनी देवता। ततस्तदेतत्त्रिप्टुभो लोकः स्थानं, शरीरप्रयासादपि धनहानिकृतस्य मानसप्रयासस्याधिकत्वाद्दत्तेन धनेन परोपजीवनाच्च दानमेव महत्तप इत्यभिज्ञानां मतम्।

गायत्र्या युद्धे जयं दर्शयति —

“गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्ध तद

जाया अजत्व सा सोमं चाऽहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत” ( सं. का. ६ प्र. १ अ. ६) इति।

सहायरहितयोः पूर्वयोः पराजयं दृष्ट्वा गायत्री स्वयमजया सहोदपतत्। सा त्वजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोममभितो रुरोध। तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम्।

प्रश्नोत्तराभ्यां गायत्रीं प्रशंसति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं पर्यैत्तस्मात्तेजस्विनीतमा” (सं. का. ६ प्र. १ अ. ६) इति।

सत्यात्कारणात्। कनिष्ठा न्यूनाक्षरा। यज्ञमुखं प्रातःसवनम्। तत्र बहिष्पवमाननाम्नि प्रथमस्तोत्र उपास्मै गायता नर इत्याद्या ऋचो गायत्र्यः। सेयं यज्ञमुखप्राप्तिः। ब्रह्मवादिष्वेव बुद्धिमन्तो यदेवेत्याद्युत्तरमाहुः। यस्मादियमदोऽमुष्माल्लोकात्सोममाहरत्तस्मादस्या मुखप्राप्तिर्युक्ता। मुखत्वादेवास्यास्तेजोबाहुल्यम्।

आहरणप्रकारं दर्शयति —

“पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” (सं. का. ६ प्र. १ अ. ६) इति।

पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ सोमभागो पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां संदश्य तदीयं रसं पपौ। यस्मात्पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात्प्रातःसवनमाध्यंदिनसवने शुक्रशब्दाभिधेयेन सोमरसेनोपेते।

यस्मात्तृतीये भागः पीतस्तस्मात्पीतत्वं मन्यमानास्तत्सादृश्यार्थमृजीषमभिषुणुयुरिति प्रासङ्गिके किंचिद्विधाय तत्रापरं विशेषं विधत्ते —

“आशिरमवनयति सशुक्रत्वायाथो संभरत्येवैनत्” [सं. का. ६ प्र. १ अ. ६] इति।

आशिरं क्षीरम्। सशुकत्वं सरसत्वम्। किंच क्षीरसेचनादृजीषगतसोमरसरूपहविः संभरति सम्यक्पोषयत्येव।

पुनरप्यन्यद्विधत्ते —

‘त सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्त्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः सोमो वसति’ (सं. का. ६ प्र. १ अ. ६) इति।

उपसद्दिवसेषु त्रिष्वभिषवमकृत्वा सोमं निवासयेदित्यर्थः।

इत्थं सोमाहरणं निरूप्य सोमक्रयणीं निरूपयितुमारभते —

‘ते देवा अब्रुवनस्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाच स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ (सं. का. ६ प्र. १ अ. ६) इति।

एकसंवत्सरवयस्कया स्त्रीरूपया वाग्देवतया सोमस्य निष्क्रयः कृतः।

गन्धर्वेष्वपरक्तायास्तस्याः स्त्रिया रोहितगोरूपतां दर्शयति —

‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्यातिष्ठत्तद्रोहितो जन्म’ (सं. का. ६ प्र. १ अ. ६) इति।

देवेष्वनुरक्तायाः पुनर्देवताप्राप्तिं दर्शयति –

‘ते देवा अब्रुवन्नप युष्मदक्रमीन्नास्मानुपावर्तते विह्वयामहा इति ब्रह्म गन्धर्वा अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्त स्त्रियः कामयन्ते’ (सं. का. ६ प्र. १ अ. ६) इति।

विह्वयामहै विलक्षणं यथा भवति तथैवाऽऽकारयामः। ब्रह्म वेदः।

एतद्वृत्तान्तवेदनं प्रशंसति —

‘कामुका एन स्त्रियो भवन्ति य एवं वेदाथो य एवंविद्वानपि जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया भवन्ति’ (सं. का. ६ प्र. १ अ. ६) इति।

वरस्य स्निग्धा वरार्थं कन्यामन्वेष्टुं प्रवृत्ता बान्धवा जन्याः। तादृशानां जन्यानां द्वौ वर्गौ। तत्रैकस्मिन्वर्गे यथोक्तवेदनरहिता अनेकगुणान्तरोपेता बहवोवरा यद्यपि सन्ति तथाऽपि तं वर्गमुपेक्ष्य येषु जन्येष्वेकोऽप्येवं विद्वान्वरो भवति तेभ्य एव जन्येभ्यः कन्यां तत्पितरो ददति।

सोमक्रयण्यां गुणं विधत्ते —

“एकहायन्या क्रीणाति वाचैवैन सर्वया क्रीणाति तस्मादेकहायना मनुष्या वाचं वदन्ति” (सं. का. ६ प्र. १ अ. ६) इति।

वाग्देवतायाः सोमक्रयणीरूपस्वीकारात्सर्वया वाचा क्रय उपपद्यते। एकसंवत्सरस्वीकारश्च तस्मिन्वयसि सति वदनव्यवहारोपक्रमात्।

वर्ज्यदोषान्विशदयति —

‘अकूटयाऽकर्णयाऽकाणयाऽश्लोणयाऽसप्तशफया क्रीणाति” (सं. का. ६ प्र. १ अ. ६) इति।

कूटा कुटिलशृङ्गी। कर्णा छिन्नकर्णोपेता। काणा त्वेकाक्षी। श्लोणा कुष्ठादिदूषिता। सप्तशफा न्यूनाङ्गी। एता वर्ज्याः।

उपादेयां दर्शयति —

‘सर्वयैवैनं क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।

सर्वाऽवयवसंपूर्णेत्यर्थः।

विपक्षबाधपुरःसरं स्वपक्षं विधत्ते —

‘यच्छ्वेतया क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूप स्वयैवैनं देवतया क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।

मृतं पुरुषमनु हन्यमाना गौरनुस्तरणी। कृष्णायास्तादृक्त्वेन यजमानो म्नियेत। वर्णद्वयोपेता यद्यापि विरोधिघातिनी तथाऽपि यजमानतद्वैरिणोरन्योन्यविरोधित्वात्को हन्ति को वा हन्यत इति न ज्ञायते। अरुणत्वं पिङ्गाक्षत्वं च सोमदेवतायाः स्वरूपम्। अतस्तादृशी गौः सोमक्रयाय सदृशी भवति।

इत्थं चतुर्थानुवाकोक्तमन्त्रव्याख्यानस्योपोद्घातत्वेन ब्राह्मणेन प्रायणीयासोमक्रयण्यावनुवाकभ्यामभिहिते। अथ मन्त्रा व्याख्यातव्याः।

इयमिति। कल्पः – ‘अथैतद्ध्रुवाज्यमाप्याय्य स्रुचि चतुर्गृहीतं गृहीत्वा सूत्रेण हिरण्यं निष्टर्क्यं बद्ध्वा दर्भाभ्यां प्रबध्य स्रुच्यवदधातीयं ते शुक्र तनूरिदं वर्चस्तया सं भव भ्राजं गच्छेति’ इति।

हे शुक्र दीप्तिमद्धिरण्य तवेयं जुहूस्तनूः, इदं घृतं तव तेजोऽतस्तया जुह्वा संगच्छ संभव। हे हिरण्याऽऽज्यरूपां भ्राजं दीप्तिं प्राप्नुहि। अथवा हे शुक्र वह्ने इयमाज्यरूपा तव तनूरिदं हिरण्यं तव तेज इत्येवं ब्राह्मणानुसारेण व्याख्यातव्यम्।

आधानब्राह्मणोक्तं हिरण्यस्य महिमानं तत्रत्यपदत्रयोच्चारणेन प्रत्यभिज्ञाप्य प्रशंसति —

“तद्धिरण्यमभवत्तस्मादद्भ्यो हिरण्यं पुनन्ति” [सं. का. ६ प्र. १ अ. ७] इति।

आधानब्राह्मणे त्वेवमाम्नायते —

आपो वरुणस्य पत्नय आसन्। ता अग्निरभ्यध्यायत्। ताः समभवन्। तस्य रेतः परापतत्। तद्धिरण्यमभवत्” इति।

तस्माद्धिरणस्य वह्निः पिता आपो मातरः। तस्मात्स्वतःशुद्धं हिरण्यं यदि कदाचिद्रजस्वलादिस्पर्शेन शोधनीयं भवति तदाऽद्भ्यः पुनन्ति जलेनैव शोधयन्ति न तु कांस्यताम्रादेरिव भस्माग्न्यदिकमपेक्षन्ते।

जुह्वां हिरण्यप्रक्षेपेण विशिष्टं होमं विधत्ते —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्यादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्त इति यद्धिरण्यं घृतेऽवधाय जुहोति तस्मादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्ते” [सं. का. ६ प्र. १ अ. ७] इति।

तस्मादनस्थिकेन वीर्येण प्रजाः प्रवीयन्ते गर्भाः क्रियन्ते। उत्पत्तिकाले त्वस्थियुक्ता जायन्ते। तत्र वीर्यसदृशमाज्यमस्थिसदृशं हिरण्यम्। तदिदं सादृश्यं निर्वोढुमीश्वरेणास्थि निर्मीयत इत्यर्थः।

वह्निसंबन्धबोधनपरतया मन्त्रं व्याचष्टे —

“एतद्वा अग्नेः प्रियं धाम यद्घृतं तेजो हिरण्यमियं ते शुक्र तनूरिदं वर्च इत्याह सतेजसमैवैन सतनुं करोत्यथो स भरत्येवैनम्” [सं. का. ६ प्र. १ अ. ७] इति।

एनमग्निं संभरति सम्यक्करोत्येव। वह्निसंबोधनेन तदीयतेजोरूपेण हिरण्यमत्र प्रकाश्यते।

हिरण्यस्य सूत्रेण बन्धनं विधत्ते —

“यदबद्धमवदध्याद्गर्भाः प्रजानां परापातुकाः स्युर्बद्धमव दधाति गर्भाणां धृत्यै” [सं. का. ६ प्र. १ अ. ७] इति।

सूत्राग्राकर्षणेन यथा सहसा मुच्यते तथा बध्नीयादिति विशेषं विधत्ते —

“निष्टर्क्यं बध्नाति प्रजानां प्रजननाय” (सं. का. ६ प्र. १ अ. ७) इति।

निःशेषेण सहसा मोचनयोग्यं निष्टर्क्यम्।

जूरसीति। कल्पः – “नाडीस्रुग्दण्ड उपसंगृह्याऽऽहवनीये जुहोत्यन्वारब्धे

यजमाने जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहेति” इति।

हे सोमक्रयणि वाग्रूपा त्वं जूर्वेगयुक्ताऽसि मनसा नियमिताऽसि यज्ञाय प्रियाऽसि। तादृश्या अमोघप्रेरणायास्तव प्रेरणे सति मन्त्रोच्चाणरूपाया वाचो यन्त्रं नियममशीय प्राप्नुयाम्। इदमाज्यं हुतमस्तु।

यथोक्तार्थं मन्त्रे दर्शयति —

“वाग्वा एवा यत्सोमक्रयणी जूरसीत्याह यद्धि मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता जुष्टा विष्णव इत्याह यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृप्रसूतामेव वाचमवरुन्धे” (सं. का. ६ प्र. १ अ. ७) इति।

जवते तूर्णं कर्तव्यमित्यवगच्छति।

शुक्रमिति। बौधायनः — “अग्रेण शालां तिष्ठन्यजमानमाज्यमवेक्षयति शुक्रमस्यमृतमसि वैश्वदेव हविरिति” इति।

आपस्तम्बः – “सोमक्रयणीमीक्षमाणो जुहोति जूरसीत्यपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं घृतादुद्धृत्य वैश्वदेव हविरित्याज्यमवेक्ष्य” इति।

शुक्रं दीप्तिमत्। अमृतं नाशरहितम्। हे आज्य हे हिरण्येति वा योज्यम् हे आज्य त्वं सर्वदेवप्रियं हविरसि। तदिदं स्पष्टत्वान्न ब्राह्मणे व्याख्यातम्।

सूर्यस्येति। कल्पः — “अथैनद्धिरण्यमन्तर्धायाऽऽदित्यमुदीक्षयति सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चितेति” इति।

सूर्यसंबन्धि मदीयं चक्षुरिन्द्रियं, कनीनिका त्वग्निसंबन्धिनी, तदुभयमारुहं प्राप्तोऽस्मि। यतो हे सूर्य त्वमेतशनामकैरश्वर्गैच्छसि, हे वह्ने त्वं विपश्चिता तेजसा भ्राजमानोऽसि तस्माद्रक्षोनिवारणाय युवामुभौ प्राप्तोऽस्मि।

एतदभिप्रायं दर्शयति —

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्त्येषु खलु वा अरक्षोहतः पन्था योऽग्नेश्च सूर्यस्य च सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकामित्याह य एवारक्षोहतः पन्थस्त समारोहति” (सं. का. ६ प्र. १ अ. ७) इति।

काण्डेकाण्डे तत्तदुपाङ्गयुक्त एकैकस्मिन्यज्ञाङ्गे।

बौधायनः- “अथैता सोमक्रयणीमग्रेण शालमुदीचीमभिवर्तयन्ते तामनुमन्त्रयते चिदसि मनाऽसीत्यन्तादनुवाक्यस्य” इति।

स च मन्त्र एवमाम्नायते —

चिदसीति। आपस्तम्बस्तु त्रेधा विभज्य विनियुङ्क्ते — “चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते, कर्णगृहीता पदिबद्धा भवति, मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते, पूषाऽध्वनः पात्विति प्राचीमायतीमनुमन्त्रयते” इति।

हे वाग्देवतारूपे सोमक्रयणि त्वं चिदादिशब्दप्रतिपाद्याऽसि। अन्तःकरणस्य चित्तं मनो बुद्धिरिति तिस्रो वृत्तयः। देवादिसंघातस्याचेतनत्वं व्यावर्त्य चेतनत्वं संपादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यप्रज्ञानं जनयन्ती वृत्तिश्चित्तम्। अयं पदार्थ एवं भवति वा न वेति विचाररूपा वृत्तिर्मनः। भवत्येवेति निश्चयरूपा बुद्धिः। एतत्त्रितयमिह चिन्मनोधीशब्दैरुच्यते। दक्षिणा कुशला देयद्रव्यरूपा वा यज्ञिया सोमक्रयद्वारेण यज्ञसंबन्धिनी। क्षत्त्रिया देवेषु सोमः क्षत्त्रियजात्यभिमानी।

तथा च वाजसनेयिन आमनन्ति —

“यान्येतानि देवक्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” इति।

तेन सोमेनाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वेन क्षत्त्रिया। ज्योतिष्ठोमस्याऽऽद्यन्तयोः प्रायणीयोदयनीययोरदितेर्देवतात्वात्सेयमुभयतः शीर्ष्णी तद्रूपा त्वमसि। सा तादृशी त्वमस्मदर्थं सुप्राची सुप्रतीची संभव, प्रथमं सोमस्य क्रेतारं प्रति सुष्ठु प्राङ्मुखी गत्वा पश्चादस्मान्प्रति सुष्ठु प्रत्यङ्मुखी समागम्यास्माभिः संगच्छस्व।

यथोक्तमर्थं मन्त्रे दर्शयति —

“वाग्वा एषा यत्सोमक्रयणी चिदसि मनाऽसीत्याह शास्त्येवैनामेतत्तस्माच्छिष्टाः प्रजा जायन्ते” (सं. का. ६ प्र. १ अ. ७) इति।

एतेन मन्त्रेण वागात्मिकां सोमक्रयणीं चिदादिशब्दवाच्या भवेत्येवमनुशास्ति। यस्मादेवं तस्माँल्लोकेऽपि प्रजा अनुशिष्यन्ते।

कृत्स्नशस्तात्पर्यमुक्त्वा प्रत्यवयवं व्याचष्टे —

चिदसीत्याह यद्धि मनसा चेतयते तद्वाचा वदति मनाऽसीत्याह यद्धि मनसाऽभिगच्छति तत्करोति धीरसीत्याह यद्धि मनसा ध्यायति तद्वाचा वदति दक्षिणाऽसीत्याह दक्षिणा ह्येषा यज्ञियाऽसीत्याह यज्ञियामेवैनां करोति क्षत्त्रियाऽसीत्याह क्षत्त्रिया ह्येषाऽदितिरस्युभयतःशीर्ष्णीत्याह यदेवाऽऽदित्यः प्रायणीयो यज्ञानामादित्य उदयनीयस्तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ७) इति।

मनसा वृत्तित्रयसाधारणेनान्तःकरणेन चेतयते सामान्यतो जानात्यभिगच्छति विचारयति ध्यायति निश्चिनोति। उत्तरमन्त्रस्यायमर्थः। हे सोमक्रयणि मित्रो हितकारी देवस्त्वां दक्षिणे पादे बध्नातु।

एतन्मन्त्रविरुद्धं पक्षत्रयं व्यावर्तयन्मन्त्रं व्याचष्टे —

“यदबद्धा स्यादयता स्याद्यत्पदिबद्धाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यत्कर्णगृहीता वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयान्मित्रस्त्वा पदि बध्नात्वित्याह मित्रो वै शिवो देवानां तेनवैनां पदि बध्नाति” (सं. का. ६ प्र. १ अ. ७) इति।

अत्र पादबन्धनं कर्णग्रहणं चामन्त्रकमङ्गी चकरेत्यविरोधः। अथवा, अकर्णगृहीता, अपदिबद्धेति पदच्छेदः। तृतीयमन्त्रस्यायमर्थः — हे सोमक्रयणि त्वां पूषा पोषको देवो भयोपेतान्मार्गात्पालयतु। यागध्यक्षायेन्द्राय त्वां सोमक्रयसाधनेन मातृ(ता)पित्रादयोऽनुमन्यन्ताम्। सगर्भ्यस्त्वया सहैकस्मिन्गर्भेऽवस्थितः। हे देवि सा त्वमिन्द्रार्थं सोमं देवमनुगच्छ। तां त्वां रुद्रो देवोऽस्मान्प्रति पुनरावर्तयतु। आवर्तयन्नपि न रौद्रेण मार्गेण किंतु मित्रस्य पथा। ततस्ते स्वस्ति सुखं भवतु। सोमः सखा यस्यास्तव सा त्वं सोमसखा भूत्वा धनेन सहास्मान्प्रति पुनरागच्छ। अत्र रुद्रस्त्वेत्यादिना पृथङ्मन्त्रेण सोमक्रयादूर्ध्वमेतस्याः प्रत्यावर्तनमिति केचित्।

मन्त्रस्य भागान्क्रमेण व्याचष्टे —

“पूषाऽध्वनः पात्वित्याहेयं वै पूषेमामेवास्या अधिपामकः समष्ट्या इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्यक्षं करोति अनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवैनया क्रीणाति सा देवि देवमच्छेहीत्याह देवी ह्येषा देवः सोम इन्द्राय सोममित्याहेन्द्राय हि सोम आह्रियते यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयाद्रुद्रस्त्वाऽऽवर्तयत्वित्याह रुद्रो वै क्रूरो देवानां तमेवास्यै परस्ताद्दधात्यावृत्त्यै क्रूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति मित्रस्य पथेत्याह शान्त्यै वाचा वा एष वि क्रीणीते यः सोमक्रयण्या स्वस्ति सोम सखा पुनरेहि सह रय्येत्याह वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनुपदासुकाऽस्य वाग्भवति य एवं वेद” (सं. का. ६ प्र. १ अ. ७) इति।

समष्ट्यै सम्यक्प्राप्तये। एतद्रुद्रस्ये(स्त्वे)ति यजुः। तमेव क्रूरं रुद्रम्। अस्याः सोमक्रयण्या आवृत्तये परस्तात्तामतिलङ्घ्य परभागे स्थापयति। अनुपदासुका क्षयरहिता तदेतद्वेतनस्य प्रशंसनम्।

अथ विनियोगसंग्रहः —

“इयं क्षिप्त्वा घृते स्वर्णं जूरसीति जुहोति हि।

शुक्रेति स्वर्णमुद्धृत्य वैश्वेत्याज्यमवेक्षते॥१॥

सूर्यसूर्यमुपस्थाय चित्सोमक्रयणीं जपेत्।

मित्रो दृष्ट्वा बद्धपादं पूषा तामनुमन्त्रयेत्।

रुद्रस्तामावर्तयीत मन्त्राः संकीर्तिता नव॥२॥ इति।

अथ मीमांसा।

एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —

“प्रायणीयस्य निष्कासे यो निर्वापोऽर्थकर्म तत्।

निष्कासप्रतिपत्तिर्वोदयनीयस्य संस्कृतिः॥

उताऽऽद्यः पूर्ववन्मैवं मुख्यस्य प्रकृतित्वतः।

मध्योस्तु नोपयोक्तव्यसंस्कारस्य गुरुत्वतः॥” इति।

ज्योतिष्टोमे श्रूयते – “प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति” इति। अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयसमानकर्मकमन्यदर्थकर्मेत्वाद्यः पक्षः। मुख्यस्योदयनीयस्य प्रकृतत्वाद्भिन्नप्रकरणाम्नातावभृथधर्मातिदेशवदुदयनीयधर्मातिदेशासंभावान्नार्थकर्मत्वम्। तर्हि निष्कासप्रतिपत्तिरिति मध्यमः पक्षोऽस्तु। सोऽपि न संभवत्युपयुक्तसंस्कारादुपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात्। तस्मादुदयनीयस्य संस्कारः।

तृतीयाध्यायस्य प्रथमपादे चिन्तितम् —

“क्रीणात्यरुणयेत्येतत्संकीर्णं वा क्रयैकभाक्।

क्रयेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा॥

द्रव्यद्वारा क्रये योगात्तद्भागेनान्वयः पुनः।

साक्षात्क्रये गुणस्यार्थद्द्रव्ये संनिहितेऽस्त्वसौ” इति।

ज्योतिष्टोमे श्रूयते — “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति” इति। तत्रारुणशब्दोऽरुणिमानं गुणमाचष्टे। गुणिविषयतया प्रयुज्यमानस्यापि नागृहीतविशेषणा विशिष्टे बुद्धिरिति न्यायेन गुणबोधकत्वादन्वयव्यतिरेकाभ्यां गुणमात्रे व्युत्पत्तेश्च। तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते। तच्चानुपपन्नममूर्तस्य गुणस्य वासोहिरण्यादिवत्क्रयसाधनत्वासंभवात्। ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम्। प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं विनिवेशयति। न चानेन न्यायेन पिङ्गाक्ष्येकहायनीश्ब्दयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम्। तयोः शब्दयोर्द्रव्यवाचित्वात्। पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी। एवमेकहायनी। यद्यप्येकगोवाचिनौ शब्दौ तथाऽपि विशेषणीभूतधर्मभेदाच्छब्दद्वयम्। तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति। न चैतद्द्रव्यमितरद्रव्ये विनिवेशयितुं शक्यम्। अरुणिमगुणो द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते। तत्रैषाऽक्षरयोजना। अरुणयेत्येतत्पृथग्वाक्यम्। तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि तानि सर्वाण्यनूद्य प्रतिपदिकेन गुणो विधीयते यानि ज्योतिष्टोमे साधनद्रव्याणि तानि सर्वाण्यरुणानि कर्तव्यानीति। तस्माद्गुणः संकीर्ण इति प्राप्ते ब्रूमः — यद्यप्यमूर्तो गुणस्तथाऽपि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति। तञ्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति। एवं सति वाक्यभेदो न भविष्यति। ननु वाक्यभेदाभावेऽपि लक्षणादुर्वारा। गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात्। मैवम्। गुणस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते। तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकं कल्प्यते। तर्हि ग्रहचमसादिद्रव्यमवच्छिद्यतामिति चेत्। न। तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदकगुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः। तर्हि वाससा क्रीणात्यजया क्रीणातीति वस्त्रादीनां क्रयसाधनत्वात्तदेवच्छेदोऽस्त्विति चेत्। न। तेषां क्रयान्तरसाधनत्वात्। न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिविकल्पो युक्तः। अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात्। ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः। न हि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः। तस्मात्क्रमेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादन्यथाऽनुपपत्त्या परस्परावच्छेदकत्वेनान्वयः। तथा सत्यारुण्यविशिष्टयैकहायन्या क्रीणातीत्यर्थः पर्यवस्यति। तस्मादारुण्यगुणः क्रयहेतुमेकहायनीमेव भजते।

अथ च्छन्दः —

सूर्यस्य चक्षुरारुहमित्यनुष्टुप्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय

तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके

चतुर्थोऽनुवाकः॥४॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 हिरण्यं स्रुच्यवदधाति - इयमिति ॥ हे शुक्र शुद्धहिरण्य इयं स्रुक् तव तनूः शरीरम् । ऊप्रत्ययान्तस्तनूशब्दः । इदं स्रुक्स्थमाज्यं तव वर्चः बलम् । अतस्त्वं तया शरीरभूतया स्रुचा सम्भव सङ्गच्छस्व, अन्तः प्रविश्येत्यर्थः । भ्राजं गच्छ प्रज्व- लीभव । 'तद्धिरण्यमभवत्' इत्यादि ब्राह्मणम् । 'आपो वरुणस्य पत्नय आसन्' इत्यादिरस्य शेषः ॥
2 तदाज्यमाहवनीये जुहोति - जूरसीति ॥ जूरिति सोमक्रयण्युच्यते । तस्याश्च वाग्रूपत्वात् तद्रूपेण वर्ण्यते, यथा 'ते वाचं स्त्रियमेकहायनीं कृत्वा' इत्यादि । 'वाग्वा एषा यत्सोमक्रयणी' इत्यादि ब्राह्मणम् । सोमक्रयणि वाग्रूपे जूरसि प्रत्यर्थं गन्त्र्यसि । जवतेर्गतिकर्मणः 'क्विब्वचि प्रच्छि' इत्यादिना क्विब्दीर्घौ । 'यद्धि मनसा जवते तद्वाचा वदति' इति ब्राह्मणम् । मनसो यत्र जवः वागपि तत्र जवं करोतीत्यर्थः । कीदृशी पुनरसौ ? आह - धृता मनसा त्वमसि, मनःपूर्वकत्वात् । 'मनसा हि वाग्धृता' इत्यादि । जुष्टा सेवितास्माभिः विष्णवे व्यापनाय । यज्ञाय प्रिया वासि 'यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति' इत्यादि । तस्यास्तादृश्यास्तव वाग्रूपया एकहायनीभावमापन्नाया यन्त्रं यमनं स्थितिं अशीय प्राप्नुयाम् । अश्नोतेर्लेटि 'बहुळं छन्दसि' इति शपो लुक् । 'गुधृवचि' इत्यादिना यमेस्त्रप्रत्ययः । 'सावेकाचः' इति वाचः परस्याष्षष्ठ्या उदात्तत्वम् । आत्मन्येव स्थापनं यमनम् । यद्यपि त्वया सोमं क्रीणामि, तथापि त्वद्विरहो मे मा भूदित्यर्थः । 'पुनरेहि सह रय्या' इत्यस्मिन् मन्त्रेप्ययमर्थस्स्पष्टो भविष्यति । 'वाचैव विक्रीय' इत्यादि । कथमस्या यमनं लभत इत्याह - सत्यसवसः प्रसवे । सत्यममोघं सवः प्रेरणं यस्य स सत्यसवाः सविता । सुवतेरसुन् । तस्य देवस्य प्रसवे अनुज्ञाने लब्धे सर्वमिष्टं सम्पद्यत इति । थाथादिस्वरेण प्रसवशब्दोन्तोदात्तः । 'सवितृप्रसूतामेव वाचमवरुन्धे' इति ब्राह्मणम् ॥
3 अपरं चतुर्गृहीतं गृहीत्वा तद्यजमानमवेक्षयति - शुक्रमिति ॥ शुक्रम् । शुचेर्दीप्तिकर्मणः सम्पदादिलक्षणः क्विप्, 'लुगकारेकाररेफाश्च वक्तव्याः' । यद्वा - मत्वर्थे रप्रत्ययः, अयस्मयादित्वात्पदत्वात्कुत्वम् । किञ्च – अमृतमसि, देवानाममरणहेतुत्वात् । 'नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । वैश्वदेवं विश्वेदेवत्यं हविस्त्वमसि ॥
4 हिरण्यमन्तर्धाय यजमानमादित्यमुदीक्षयति - सूर्यस्येति चतुष्पदयानुष्टुभा । सूर्यो मण्डलान्तर्गतः पुरुषः स्थावरजङ्गमानामात्मा, यथा - 'सूर्य आत्मा' इति । तस्य तव चक्षुर्भूतं यदेतन्मण्डलं आरुहमारूढोस्मि । रुहेर्लुङि 'कृवृदृरुहिभ्यश्छन्दसि' इति च्लेरङादेशः । पुनरपि विशेष्यते - अग्नेस्स्वभूतस्य अक्ष्णः कनीनिकां तारकास्थनीयमेतन्मण्डलमारूढोस्मि । उदात्तनिवृत्तिस्वरेणाक्ष्णः परस्याः षष्ठ्या उदात्तत्वम् । तदारोहणं च तत्स्थाने पुरुषेण सह स्वात्मैक्यम्, यथा 'स यश्चायं पुरुषे' इति । तस्मिन् सति सूर्यस्याग्नेश्च पन्थानमारूढो रक्षोभिर्न बाध्यते । 'एष खलु वा अरक्षोहतः पन्थाः' इत्यादि ब्राह्मणम् । कीदृशस्य सूर्यस्येत्याह - यत् यस्त्वम् । यच्छब्दात्परस्य सोः 'सुपां सुलुक्' इत्यादिना लुक् । चक्षुरपेक्षया [वा] नपुंसकत्वम् । यस्त्वं एतशेभिः शुक्लवर्णैरश्वैः ईयसे गच्छसि । ईङ् गतौ दैवादिकः । एतशब्दाल्लोमादित्वाच्छः, वृषादित्वादाद्युदात्तत्वम् । यद्वा - 'एतेरतशतसुनौ' इति तसुन्प्रत्ययः । गमनकुशलाः । यद्वा - एतशरीरा एतशाः । पृषोदरादित्वात् यथाभिमतस्वरूपस्वरसिद्धिः । पुनश्च विशेष्यते - विपश्चिता मेधाविना महर्षिगणेन भ्राजमानश्शोभमानः । सह वा तेन । यस्त्वमीयसे तस्य ते मण्डलमारुहम्, इति ॥
5 सोमक्रयणीमनुमन्त्रयते चिदसीति ॥ चेतयतीति चित् । 'बहुळं संज्ञाछन्दसोः' इति णिलुक् । हे सोमक्रयणि वाग्रूपे चेतयमानासि, चैतन्यकार्यत्वात् । 'यद्धि मनसा चेतयते तद्वाचा वदति' । किञ्च - मना मन्वानासि मनःपूर्वकत्वान्मनसा सह प्रवृत्तेः । 'यद्धि मनसाभिगच्छति' इति । मन अवबोधने, पचाद्यच् । धीः प्रज्ञा चासि । 'यद्धि मनसा ध्यायति तद्वाचा वदति' इति । 'ध्यायतेः सम्प्रसारणं च' इति क्विपि सम्प्रसारणम् । एवं [चित्तमनो]ध्यात्मकतया सर्वप्रवृत्तिहेतुत्वमस्या उक्तम् । यद्वा - धीः कर्मासि । अस्मिन्पक्षे कर्तृकरणक्रियारूपतया सर्वार्थसाधनत्वमस्याः प्रतिपाद्यते । दक्षिणा शीघ्रगामिनी चासि । दक्ष वृद्धौ शीघ्रार्थे च, 'द्रुदक्षिभ्यामिनन्' इति शीघ्रार्थकदक्षेः इनन्प्रत्ययः । एवं यज्ञिया यज्ञकर्मार्हा चासि । 'यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसङ्ख्यानम्' इति यत्प्रत्ययः । यज्ञसम्पादिनीत्यर्थः । एवं क्षत्रिया चासि क्षत्रं धनं सोमलक्षणं तस्यापत्यमसि, तत्प्रभवत्वाद्बलप्रभवत्वाच्च । 'क्षत्राद्घः' । अपिच - अदितिः अखण्डिता देवमाता चासि । नञ्समासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । कीदृश्यदितिः - उभयतश्शीर्ष्णी उभयतश्शिरस्का यज्ञानामाद्यन्तयोरुभयोः शिरस्स्थानीयतया प्रधानभूता । प्रायणीयोदयनीयौ चरू यस्यास्तादृशी । 'शीर्षं छन्दसि' इति शीर्षादेशः, 'नित्यं संज्ञाच्छन्दसोः' इति ङीप्, बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, उभयशब्दात् 'इतराभ्योपि दृश्यन्ते' इति सप्तम्यर्थे तसिल्प्रत्ययात्पूर्वस्योदात्तत्वम् । 'यदेवादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः' इत्यादि ब्राह्मणम् । तादृशी त्वं नस्सम्भव सङ्गच्छ स्वात्मनाऽस्मत्सकाशे वर्तस्व । यद्वा - नः अस्माकं सम्भव, मा कदाचिदुपेक्षिष्ठाः । कथंभूतेत्याह – सुप्राची सुप्रतीची च भूत्वा । प्रागञ्चतीति प्राची । सोमक्रयणं प्रति प्रथमं प्राचीनगतिर्भूत्वा पुनरपि प्रतीची अस्मत्सकाशं प्रत्यागता भूत्वास्माकमेव भवेति । 'ऋत्विक्' इत्यादिनाऽञ्चेः क्विन्प्रत्ययः । 'अञ्चतेश्चोपसङ्ख्यानम्' इति ङीप्, नकाराकारयोर्लुप्तयोः 'चौ' इति दीर्घः । ततश्शोभना प्राची शोभना प्रतीची । 'प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः' इति प्राप्ते, 'स्वती पूजायाम्' इति प्रादिसमासः, 'सुः पूजायाम्' इति कर्मप्रवचनीयत्वेन गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम् । किञ्च – मित्रस्त्वा पदि पादे बध्नातु । 'ऊडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्, 'पद्दन्' इत्यादिना पद्भावः । 'यदबद्धा स्यात्' इत्यादि ब्राह्मणम् । अपिच – पूषा त्वामध्वनो मार्गान्मार्गस्थाद्भयहेतोः पातु । अपि चास्या इन्द्रः अध्यक्षः स्वामी इन्द्राय सोमस्वामिने त्वां माता अनुमन्यतां इन्द्रार्थं त्वया सोमक्रयं क्रियमाणं अनुजानातु, पिता चानुमन्यतां, भ्राता चानुमन्यताम् । कीदृशः - सगर्भ्यः समाने गर्भे भवः । 'समानस्य छन्दसि' इति सभावः, 'सगर्भसयूथ' इत्यादिना भवार्थे यत्, सभावस्योत्पत्तिकाल एवोदात्तविधानात्सत्यामपि तद्धितवृत्तौ उदात्तत्वं न निवर्तते । यद्वा - 'पूर्वादयश्च दृश्यन्ते' इत्याद्युदात्तत्वम् । सखा चानुमन्यताम् । कीदृशः सयूथ्यः समाने यूथे भवः, सगर्भ्यवत् । हे देवि सोमविक्रयणि सा तादृशी त्वं मात्रादिभिरनुज्ञाता त्वं देवं सोममच्छ आभिमुख्येन इहि गच्छ । 'देवी ह्येषा देवस्सोमः' इति ब्राह्मणम् । इन्द्राय इन्द्रार्थम् । 'इन्द्राय हि सोम आह्रियते' इति ब्राह्मणम् । किञ्च - रुद्रस्त्वा वर्तयतु कृतकृत्यानस्मान्प्रति अविनष्टामानयतु । 'यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयात्' इत्यादि ब्राह्मणम् । रुद्रोपि न रौद्रभावेन, किन्तु मित्रस्य पथा त्वामावर्तयतु निजकीर्तनापराधमनादृत्य शान्तो भूत्वा वर्तयतु उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । 'कूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति' इत्यादि ब्राह्मणम् । हे सोमक्रयणि त्वं च स्वस्ति अविघ्नेन पुनरेव सोमविक्रयिणस्सकाशात् अस्मत्सकाशमेह्यागच्छ । कीदृशी भूत्वा? सोमसखा भूत्वा, सोमस्सखा यस्यास्तादृशी भूत्वा, सोमेन सख्या सहागच्छेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अत एव टजभावः । अपिच – रय्या धनेनास्मदीयेन सहागच्छ । 'उदात्तयणो हल्पूर्वात् इति विभक्तेरुदात्तत्वम् । 'वाचा वा एष वि क्रीणीते' इत्यादि ब्राह्मणम्॥

इति द्वितीये चतुर्थोनुवाकः ।

पञ्चशत् 2 #
TS 1.2.4.2 TS 1.2.4.2
ऽसि य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ ऽस्यदि॑ति-रस्युभ॒यत॑॑श्शीर्ष्णी॒ सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्नातु पू॒षाऽद्ध्व॑नः पा॒त्विन्द्रा॒या-द्ध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू᳚थ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमꣳ॑ रु॒द्रस्त्वा ऽऽ*व॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ ( ) पुन॒रेहि॑ स॒ह र॒य्या ॥
पदपाठः (Word-by-word)
अ॒सि॒ । य॒ज्ञिया᳚ । अ॒सि॒ । क्ष॒त्रिया᳚ । अ॒सि॒ । अदि॑तिः । अ॒सि॒ । उ॒भ॒यतः॑ शी॒र्ष्णीत्यु॑भ॒यतः॑ - शी॒र्ष्णी॒ । सा । नः॒ । सुप्रा॒चीति॒ सु -प्रा॒ची॒ । सुप्र॑ती॒चीति॒ सु - प्र॒ती॒ची॒ । समिति॑ । भ॒व॒ । मि॒त्रः । त्वा॒ । प॒दि । ब॒द्ध्ना॒तु॒ । पू॒षा । अद्ध्व॑नः । पा॒तु॒ । इन्द्रा॑य । अद्ध्य॑क्षा॒येत्यधि॑ - अ॒क्षा॒य॒ । अन्विति॑ । त्वा॒ । मा॒ता । म॒न्य॒ता॒म् । अन्विति॑ । पि॒ता । अन्विति॑ । भ्राता᳚ । सग॑र्भ्य॒ इति॒ स - ग॒र्भ्यः॒ । अन्विति॑ । सखा᳚ । सयू॑थ्य॒ इति॒ स - यू॒थ्यः॒ । सा । दे॒वि॒ । दे॒वम् । अच्छ॑ । इ॒हि॒ । इन्द्रा॑य । सोम᳚म् । रु॒द्रः । त्वा॒ । एति॑ । व॒र्त॒य॒तु॒ । मि॒त्रस्य॑ । प॒था । स्व॒स्ति । सोम॑स॒खेति॒ सोम॑ -स॒खा॒ ( ) । पुनः॑ । एति॑ । इ॒हि॒ । स॒ह । र॒य्या ॥
पदसंख्या: 55