पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
षष्ठे प्रपाठक ऐष्टिकयाजमानमन्त्रास्तद्वद्ब्राह्मणानि चाऽऽम्नायन्ते। तद्विशेषस्तु विनियोगसंग्रहे दर्शितः -
“षष्ठे प्रश्ने याजमानकाण्डे द्वादश वर्णिताः।
अनुवाकाः षट्सु मन्त्रा ब्राह्मणं पञ्चसूदितम्॥
अन्ते याज्याः क्रमेणाऽऽज्यग्रहणाद्यनुमन्त्रणम्।
आज्यग्रहो मुख्याहोमो भक्ष्यः शेषाहुतिस्तथा॥
एतेऽनुमन्त्रणीयार्था मन्त्रा आप्ययनादिगाः।
सूर्योपस्थित्यादिमन्त्रा ब्राह्मणे तु विभज्यते॥
परिग्रहो देवतानामायुधानां च संभृतिः।
द्वादशद्वंद्वसंपत्तिर्हविषां सादने विधिः॥
विधिराश्रावणादीनां याज्या इत्यनुवाकगाः” इति॥
तत्र प्रथमानुवाक आज्यग्रहणानुमन्त्रणमन्त्राः प्राधान्येनाभिधीयन्ते।
कल्पः — “सं त्वा सिञ्चामीति तत्स सिञ्चेदभि वा मन्त्रयेत” इति। तदिति स्कन्नमाज्यमुच्यते। यस्याऽऽज्यमनुत्पूत स्कन्देदित्यादिना स्कन्दनस्य प्रकृतत्वात्। यदि शुद्धप्रदेशे स्कन्देत्तदानीमनेन मन्त्रेण पुनः पात्रे प्रक्षिपेत्। अशुचिप्रदेशे स्कन्दने त्वभिमन्त्रणम्।
पाठस्तु - सं त्वा सिञ्चामीति। हे स्कन्नाज्य बृहस्पतिप्रेरितोऽहं प्रजादीन्संपादयेयम। त्वामनेन यजुषा मन्त्रेण पात्रे सम्यक्सिञ्चामि। इह कर्मणि यजमानः स्क-न्दनापराधेन मा रिषन्मा हिंस्यताम्। अयं मन्त्र आध्वर्यवः। अतो यजमानस्या न्यत्वेनोक्तिरविरुद्धा।
कल्पः — “आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्चाऽऽनिमील्यावेक्ष्यानुच्छ्वस न्तावाज्यमवेक्षेते” इति।
पाठस्तु - आज्यमसीति। अत्र वैश्वानरमित्यादिभिश्चतुर्भिः पदैः प्रत्येकमन्वेतुमसीति पदमनुवर्तनीयम्। तथा सति तान्येतानि द्वाविंशतिवाक्यानि संपद्यन्ते। तैरेतैर्वाक्यैराज्यं प्रशस्यते। अजिधातोर्गत्यर्थादुत्पन्न आज्यशब्दः। आज्यमसि प्रापकमसि। घृतेन हि होमाधारो ज्वालन्नग्निः प्राप्यते। सद्विद्यमानं कर्मफलं तदर्हतीति सत्यम्। प्रसिद्धं ह्याज्यस्य कर्मफलसाधनत्वम्। सत्यस्याध्यक्षमसि सतां कर्म सत्यम्। ज्योतिष्टोमे प्रवर्तमाना यजमानसप्तदशा ऋत्विजः सन्तः। ते हि परस्परं द्रोहशङ्कामपनेतुं तानूनप्त्रसंज्ञकमाज्यं स्पृशन्ति। सोऽयं स्पर्शः सतां कर्म, तस्य कर्मणोऽध्यक्षं स्वामि। हविरसि प्राधान्येन हूयमानमसि। पुरोडाशादीनां हविषां नाशेऽप्याज्येनैव तत्कर्मशेषसमापनात्प्राधान्यं द्रष्टव्यम्। विश्वेषां नराणां संबन्धि वैश्वानरम्। विश्वेषां देवानां संबन्धि विश्वदेवम्। प्रसिद्धो भोज्यत्वेन हविष्ट्वेन चोभयसंबन्ध। उत्पूतशुष्ममुत्पवनेनोद्दीपितबलम्। सत्यौजाः सत्यबलम्। आज्यस्य हि बलमवितथम्। अग्न्युद्दीपनस्य प्रत्यक्षत एव दृश्यमानत्वात्। सहः शत्रूणामभिभवनसमर्थम्। सहमानं निरन्तरं तदभिभवेनैव वर्तमानम्। तादृक्त्वं सहस्वारातीरस्मदमित्रानभिभव। सहस्वारातीयतः, ये तु प्रत्यक्षं शात्रवं कर्तुमशक्ता मनसा शात्रवं कर्तुमिच्छन्ति तानप्यभिभव। सहस्व पृतनाः शत्रुसेना अभिभव। सहस्व पृतन्यतः सेनाः संपादयितुमिच्छतः शत्रूनप्यभिभव। सहस्रवीर्यमसि यथोक्ताभिभवविशेषान्कर्तुं बहुप्रकारसामर्थ्योपेतं त्वमसि। तन्मा जिन्व तत्तादृक्स्वभाव त्वं मां यागद्वारेण प्रीणय। आज्यस्याऽऽज्यमसि लौकिकं यदाज्यं तदुत्पूतशुष्मं न भवति त्वं तत्पूतशुष्मत्वान्मुख्यमाज्यमसि। सत्यस्य सत्यमसि लौकिकफलसाधनं कृष्यादिकं सत्यं तत्कदाचिद्वृष्ट्याद्यभावेन व्यभिचारान्न मुख्यं सत्यं त्वं तु कदाचिदप्यव्यभिचारान्मुख्यं सत्यमसि। सत्यायुरसि सत्यभूतमायुरस्मिन्निति सत्यायुः। आज्यनिष्पन्नेन कर्मणा भाविदेहे यदायुः प्राप्यते तन्न व्यभिचरतीत्यायुषः सत्यत्वम्। सत्यशुष्ममसि सत्यबलमसि। अग्न्युद्दीपनबलं सत्यौजःशब्देन पूर्वमुक्तम्। इह तु फलप्रदानबलमुच्यते। सत्येन त्वाऽभिघारयामि तादृशं त्वां चक्षुषा पश्यामीत्यर्थः। तथा च पौरोडाशिककाण्डे समाम्नायते - “ब्रह्मवादिनो वदन्ति। यदाज्येनान्यानि हवीष्यभिघारयति। अथ केनाऽऽज्यमिति। सत्येनेति ब्रूयात्। सत्येनैवैनदभिघारयति” इति। चक्षुषः सत्यत्वमाधानब्राह्मणे प्रतिपादितम्। “अनृतं वै वाचा वदति। अनृतं मनसा ध्यायति। चक्षुर्वै सत्यम्। अद्रा३गित्याह। अदर्शमिति। तत्सत्यम्” इति। तस्य ते भक्षीय तादृशं त्वां भजानि।
पञ्चानां त्वेति। कल्पः — ‘आज्यग्रहणं गृहीतं गृहीतमनुमन्त्रयते पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामिति चतुर्भिर्जुह्वामष्टभिरुपभृति चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामीति चतुर्भिर्ध्रुवायां भूरस्माक हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामीत्यभिपूर्यमाणामनुमन्त्रयते कामाय त्वा गृह्णामीति’ इति।
प्राच्यादिषूर्ध्वान्तासु पञ्चसु दिक्षु वर्तमाना वायवः पञ्चसंख्याकाः। ते चाग्निचयनाङ्गेषु मन्त्रेष्वेवमाम्नायन्ते - “यत्ते रुद्र पुरो धनुस्तद्वातो अनु वातु ते यत्ते रुद्र दक्षिणा धनुस्तद्वातो अनु वातु ते यत्ते रुद्र पश्चाद्धनुस्तद्वातो अनु वातु ते यत्ते रुद्रोत्तराद्धनुस्ताद्वातो अनु वातु ते यत्ते रुद्रोपरि धनुस्तद्वातो अनु वातु ते” इति। यद्वा शरीरमध्ये वर्तमानाः प्राणापानव्यानोदानसमानरूपाः पञ्च वातास्तेषां वातानां यन्त्राय स्वस्वव्यापारेषु नियमनाय धर्त्राय जगद्विधारणकुशलाय हे आज्य त्वां गृह्णामि। ऋतूनां पञ्चत्वमैतरेयब्राह्मणे प्रतिपादितम् - “द्वादशमासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन” इति। प्राच्यादीनामूर्ध्वान्तानां दिशां पञ्चत्वं प्रसिद्धम्। पञ्चजनशब्दः समस्तो देवमनुष्यासुररक्षोगन्धर्वेषु रूढः।
ते च देवादयः पञ्चसंख्याकाः। चरुशब्दः पाकाधारभूतां स्थालीमाचष्टे। सा च क्वचित्पञ्चबिलैर्युज्यते। तच्च पुरुषमेधावसाने कल्पसूत्रकार उदाजहार- “पञ्च-बिलस्य चरोर्विज्ञायत आज्य आग्नेयः पूर्वस्मिन्बिले, दधन्यैन्द्रो दक्षिणे, शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे, अप्सु मैत्रावरुण उत्तरे, पयसि बार्हस्पत्यो मध्यमे” इति। तस्य पञ्चबिलस्य चरोर्नियमनायेति योज्यम्। ब्रह्मणो ब्राह्मणजातेः। तेजो ब्रह्मवर्चसं तस्य यन्त्राय। क्षत्त्रियजातेरोजो युद्धसामार्थ्यम्। वैश्यजातेः कृषिवाणिज्यादिषु नियमनम्। सुवीर्यं सर्वेषां स्वस्वव्यापारेषु सामर्थ्यातिशयः। सुप्रजास्त्वं शोभनापत्यत्वम्। रायस्पोषो धनस्पोषो धनपुष्टिः। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। ब्रह्मणस्त्वा तेजस इत्यत्र शिष्टाङ्गीकृतसाधुवेषरूपं (तेजो) द्रष्टव्यम्। भूरस्माकमित्याद्यो मन्त्रः। हविर्देवानामिति द्वितीयः। आशिषो यजमानस्येति तृतीयः। अवशिष्टश्चतुर्थः। हे आज्य त्वमस्माकं श्रेयसे भव। देवानां हविर्भव। यजमानस्य या आशिषस्तद्रूपं भव। देवानां तर्पकं त्वां देवार्थं गृह्णामि। आपस्तम्बस्य तु भूरस्माकमित्यादिरेक एव मन्त्रः। हे आज्य हविर्भागिन्यो देवतास्त्वां यथा यथा कामयन्ते तथाविधकामाय त्वां गृह्णामि।
अत्र विनियोगसंग्रहः -
“स्याद्दर्शपूर्णमासस्थं काण्डं तु यजमानगम्।
षष्ठः प्रश्नस्तत्र सं त्वा स्कन्नाज्यं प्रक्षिपेत्स्रुचि॥१॥
आज्यमाज्यमवेक्षेत पञ्चानां त्वा चतुर्दश।
स्रुक्ष्वाज्यमन्त्रणे मन्त्रा इति मन्त्रास्तु षोडश॥२॥ “ (इति)।