पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः )।
सप्तमादिष्वेकादशान्तेषु पञ्चस्वनुवाकेषु याजमानब्राह्मणप्रसङ्गादाध्वर्यव-ब्राह्मणमपि कियदभिहितम्। द्वादशानुवाके याज्या ( पुरोनुवाक्या ) उच्यन्ते। काम्येष्टिकाण्डे सप्तमानुवाके काचिदिष्टिरेवमाम्नायते - “ऐन्द्रं चरुं निर्वपेत्पशुकाम ऐन्द्रा वै पशव इन्द्रमेव स्वेन भागधेयेनोप धावति स एवास्मै पशून्प्र यच्छति पशुमानेव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति। पशूनामैन्द्रत्वमर्थवादान्तरे द्रष्टव्यम्।
पुरोडाशादिपरित्यागेन चरुविधानं प्रशंसति- “चरुर्भवति स्यादेवास्मै योनेः पशून्प्र जनयति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
वाजपेये हि नैवारं चरुमश्वानवघ्रापयेत्। अश्वमेधेऽपि लाजीनित्यादि-मन्त्रेणाश्वायान्नमुपावहरन्ति। तच्च भक्षितमन्नमुत्पत्स्यमानानामश्वानां रेतोरूपेण बीजमित्यभिप्रेत्य चरोः पशुयोनित्वमत्राभिधीयते।
तस्या ऐन्द्रेष्टेः पुरोनुवाक्यामाह - इन्द्रं व इति। हे ऋत्विग्यजमाना वो युष्माकं जनेभ्यः पुत्रभृत्यादिजनसि-द्ध्यर्थं विश्वतस्परि सर्वस्य जगत उपरि स्थितमुत्कृष्टत्वेन वर्तमानमिन्द्रं हवामह आह्वायामः। स चेन्द्रोऽस्माकं केवलोऽस्त्वसाधारणोऽस्तु। इतरयज-मानेभ्योऽप्यधिकमनुग्रहमस्मासु करोत्वित्यर्थः।
याज्यामाह - इन्द्रं नर इति। अग्निचयनमनुतिष्ठन्तो नर इन्द्रं नेमधिता वह्न्यादिभिर्देवैः सह नेमस्यार्धस्य हविषो धिता धारणाय हवन्त आह्वयन्ति। अत एव चयनब्राह्मणमेवमाम्नायते — “अर्धेन्द्राणि जुहोति” इति। तन्मन्त्राश्चैव-
माम्नायन्ते — “अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे” इत्यादयः। यद्यस्मात्कारणात्पार्याश्चितेऽग्नावग्निष्टोमादिपारमर्हन्तो यजमानास्ता धियो युनजते युञ्जते तान्यग्निष्टोमादीन्यनुतिष्ठन्ति। तादृश हे इन्द्र त्वं शूरो रक्षोभिरनभिभूतो नृषाता मनुष्येभ्यः सनिता धनस्य दाता शवसोऽस्मादीयस्य बलस्य चकानस्तर्पको भूत्वा नोऽस्मान्गोमति बहुगवादिपशुयुक्ते व्रजे संघ आभजाऽऽभिमुख्येन स्थापय।
इष्ट्यन्तरं विधत्ते – “इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्पशुकाम इन्द्रियं वै पशव इन्द्रमेवेन्द्रियावन्त स्वेन भागधेयेनोप धावति स एवास्मा इन्द्रियं पशून्प्र यच्छति पशूमानेव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
इन्द्रियं बलं प्रभूतमस्यास्तीतीन्द्रियावान्। क्षीरघृतादिद्वारेणेन्द्रियवृद्धिहेतु-त्वात्पशूनामिन्द्रियत्वम्। इन्द्रियं पशून्। चेति समुच्चयेऽध्याहर्तव्यः।
तस्यामिष्टौ पुरोनुवाक्यामाह - इन्द्रियाणीति। हे शकक्रतो पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिवर्णेषु यानि ते तवानुग्रहादिन्द्रियाणि सामर्थ्यानि सन्ति, हे इन्द्र तानि सर्वाणि ते तवानुग्रहादावृणे समन्ताद्गृह्णामि।
याज्यामाह - अनु ते दायीति। यजत्र यष्टव्य हे इन्द्र महे महते सर्वेभ्योऽधिकाय ते तुभ्यं सत्रा सत्रेषु विश्वं सर्वं हविर्देवेभिरग्न्यादिभिरनुदायि अनुक्रमेण दीयते। किमर्थम्। वृत्रहत्ये वृत्रवधमनु ते तवेन्द्रियाय बलसिद्ध्यर्थम्। न केवलं वृत्रवधमनुसृत्य किंतु क्षत्त्रमनु त्वदीयं क्षत्त्रियत्वजात्यभिमानमनुसृत्य, सहोऽनु त्वदीयं बलमनुसृत्य, नृषह्ये वैरिमनुष्यतिरस्कारशीलमनुसृत्य, त्वयि यथोक्तान्गुणानवेक्ष्य ते तुभ्यं पुनः पुनर्दीयत इति शेषः।
अन्यामिष्टिं विधत्ते - “इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामो ब्रह्मवर्चसं वै गर्म इन्द्रमेव घर्मवन्त स्वेन भागधेयेनोप धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
घर्मवते वेदशास्त्रादिप्रयुक्तब्रह्मतेजोयुक्ताय। विद्वत्सु वेदशास्त्रादिरूपेण ब्रह्मवर्चसेन दीप्यत इति ब्रह्मवर्चसस्य धर्मत्वम्।
एतस्यामिष्टौ पुरोनुवाक्यामाह - आ यस्मिन्निति। वासयन्ति रथस्योपर्यादित्यमिति वासवा आदित्यस्याश्वाः। ते च सप्तसंख्याकाः। सप्त युञ्जन्ति रथमेकचक्रमिति मन्त्रवर्णात्। न चैवं सत्येको अश्वो वहति सप्तनामेत्यनेन विरोधः। वचनद्वयबलेन विकल्पस्याङ्गीकृतत्वात् ते च सप्ताश्वाः स्वारुहो यथाऽऽदित्यापरतन्त्रा अपि स्वयमेवा-ऽऽरोहन्त इव वर्तन्ते, सुशिक्षितत्वेन प्रेरणं विनैव प्रवृत्तत्वात्। तादृशाः सप्ताश्वा यस्मिन्नादित्य आभिवर्तन्ते आतिष्ठन्ति स आदित्य ऋषिर्हातीन्द्रि-यज्ञान्येव सर्वदा वेदत्रयोपेतत्वात्। अत एवाऽऽम्नायते — “वेदैरशून्यस्त्रिभिरेति सूर्यः” इति। दीर्घश्रुत्तमस्त्रैलोक्यप्रकाशनेन प्रथितकीर्तितमः। ईदृशो घर्मो दीप्यमान आदित्य इन्द्रस्य गृहेऽतिथिः स्वाभीष्टं याचितुं यदा कदाचिदागच्छति तस्येन्द्रस्य महिमा किमिव वक्तव्य इत्यभिप्रायः।
याज्यामाह - आमास्विति। आमासु फलपाकरहितास्वोषधीषु पक्वं सम्यक्पाकयुक्तं फलं हे इन्द्र त्वमैरयो वृष्टिद्वारा संपादितवानसि। सूर्यं विचरन्तं परिवर्तनसाम- र्थ्यप्रदानेन दिव्यारोहयसि। हेतिभिर्यजमाना जुष्टमिन्द्रस्य प्रियं हविः पुरोडाशरूपं तपत सुष्ठु हुतं कुरुत। किमिव, घर्मं न प्रवर्ग्यमिव, सुवृक्तिभि-र्हुंकारप्रस्तावादिशोभनभक्तियुक्तैः सामन्सामभिर्धर्मं यथा तपन्ति। गिर्वणसे गीर्भिः स्तुत्यायेन्द्राय गिरः स्तुतिरूपाः प्रयुङ्क्तेति शेषः।
इष्ट्यन्तरं विधत्ते - “इन्द्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामोऽर्को वै देवानामन्न-मिन्द्रमेवार्कवन्त स्वेन भागधेयेनोपधावति स एवास्मा अन्नं प्र यच्छत्यन्नाद एव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
बुभुक्षुभिरर्थ्यमानत्वादादरेण स्वीक्रियमाणत्वादन्नस्यर्कत्वाम्।
तत्र पुरोनुवाक्यामाह - इन्द्रमिदिति। गाथिनः सामगा बृहद्बृहता साम्नेन्द्रमिदिन्द्रमेवानूषतास्तुवन्। ऋच् स्तुतावित्यस्माद्धातोरुत्पन्नोऽर्कशब्द ऋचमाचष्टे। अर्केभिग्भिरर्किणो बह्वृचा इन्द्रमस्तुवन्। वाणीरन्या अपि वाचो यजुरूपा इन्द्रमस्तुवन्।
याज्यामाह - गायन्तीति। हे शतक्रतो गायत्रिणो गायत्रसामयुक्ता उद्गातारस्त्वां गायन्ति। अर्किणो बृह्वृचास्त्वामर्चन्ति स्तुवन्ति। ब्रह्माणस्तदुपलक्षिता अध्वर्यवोऽपि त्वामुद्येमिर उत्थापयन्ति वर्धयन्तीत्यर्थः। किमिव, वंशमिव। यथा कुलाचारादिभिः स्वकीयं वंशमुन्नतं कुर्वन्ति तद्वत्।
इष्ट्यन्तरं त्रिहविष्कं विधत्ते - “इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्रायेन्द्रियावत इन्द्रा-यार्कवते भूतिकामो यदिन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति यदिन्द्रायेन्द्रियावत आत्मानमेवास्य तेन करोति यदिन्द्रायार्कवते भूत एवान्नद्ये प्रति तिष्ठति भवत्येव” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
तेन घर्मवते निर्वापेणाध्वर्युरस्य यजमानस्य शिरः करोति। एवंविधैश्वर्या-दिभिः सभायामुन्नतशिरस्कं करोति। तेनेन्द्रियावते निर्वापेणास्य यजमानस्याऽऽत्मानमेव करोति पुष्टशरीरमेव करोति। अर्कवते निर्वापेण यजमानो भूत एवैश्वर्यं प्राप्त एव सन्नदनयोग्ये सम्यगन्ने प्रतितिष्ठति। भवत्येव पुनरप्याधिकमैश्वर्यं प्राप्नोत्येव। अत्र घर्मवतो हविषि ‘आ यस्मिन्’ इत्यादिके याज्यानुवाक्ये। इन्द्रियावतो हविषि “इन्द्रियाणि शतक्रतो” इत्यादिके। अर्कवतो हविषि “इन्द्रमिद्गाथिनो बृहत्” इत्यादिके।
इष्ट्यन्तरं विधत्ते - ‘इन्द्राया होमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतः स्यात्पाप्मा वा अह इन्द्रमेवाहोमुच स्वेन भागधेयेनोप धावति स एवैनं प्राप्मनोऽहसो मुञ्चति’ (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
अंहःशब्देनात्र नरकहेतुर्निषिद्धाचरणादिरूपः पाप्मोच्यते। पाप्मनोंऽह-सोऽत्यधिकात्पापादित्यर्थः।
तत्र पुरोनुवाक्यामाह - अहोमुच इति। गृणानाः स्तुवन्तो वयमोषिष्ठदाव्ने ग्रीष्मकाले दावा-ग्निनाऽत्यन्तदग्धभूप्रदेशेभ्यो वर्षर्तौ वृष्टिदात्रेंऽहोमुचे पापान्मोचयित्रे मनीषां बुद्धिं प्रभरेम स्वी कुर्मः। कीदृशीं सुमतिं, त्वां तोषयेमेत्येवमादिशो-भनमननोपेताम्। हे इन्द्रेदं त्यज्यमानं हव्यं प्रतिगृहाण। तेन यजमानस्य कामाः सत्याः सन्तु।
याज्यामाह - विवेषेति। यद्यस्मात्कारणाद्धिषणा पूर्वोक्ता बुद्धिर्मां विवेष व्याप्तवती तस्मादहं सुबुद्धिर्जजान जातवानस्मि। एत एव पार्यादह्नः पुरोत्तमान्मरणादि वसात्पुरा त्वां स्तवै, आमरणं स्तवानीत्यर्थः। यत्र यस्यां धिषणायां सत्यामि न्द्रोऽस्मानंहसः पापात्पीपरदुत्तारितवान्सा धिषणा विवेषेत्यन्वयः। अथवा यत्राहन्यस्मानंहसः पारयति तस्मात्पार्यादह्नः पुरा स्तवा इत्यन्वयः। यथा लोके नावा नद्यां यान्तं नाविकमुभये कुलद्वयवर्तिनो हवन्ते मामुत्तारयेत्पाह्वयन्ति तथैवांहसो मुक्तानस्मानुभयकूलप्रभवा आह्वन्तीत्यर्थः।
अत्रैव विकल्पितामन्यां याज्यामाह - प्रसम्राजमिति। हे नरो मनुष्या ऋत्विजः प्रकर्षेणेन्द्रं भजतेति शेषः। कीदृशं, सम्राजं सम्यग्दीप्यमानम्। अध्वराणामग्निष्टोमादीनां प्रथमं मुख्यदेवम्। अंहोमुचं पापान्मोचयितारम्। यज्ञियानां यज्ञसंबन्धिफलानां वृषभं वर्षितारम्। अपां वृष्टिरूपाणामुदकानां नपातमविनाशयितारम्। हयन्तमैश्वर्यस्य गमयितारम्। हेऽश्विनावस्मिन्यजमान इन्द्रियं चक्षुरादिपा-टवमोजो बलं च धत्तं स्थापयतम्।
इष्ट्यन्तरं विधत्ते - “इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यं मृधोऽभि प्रवेपेरन्रा-ष्ट्राणि वाऽभि समियुरिन्द्रमेव वैमृध स्वेन भागधेयेनोप धावति स एवास्मान्मृधोऽपहन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
मृधो वैरिणो यं यजमानमभितः प्रवेपेरन्प्रकर्षेण कम्पयेयुर्भीतिमुत्पादयेयुः। अथवा राष्ट्राणि देशानभितो विनाशयितुं समियुः संगता भवेयुः, तस्य यजमानस्य रक्षायै वैमृधाय शत्रुविनाशकायेन्द्राय निर्वपेत्। स चेन्द्रोऽस्मा- द्यजमानान्मृधः शत्रूनपहन्ति।
तत्र पुरोनुवाक्यामाह - वि न इन्द्रेति। हे इन्द्र नोऽस्माकं मृधः शत्रून्विशेषेण जहि। किंच, पृतन्यतोऽस्मान्घातयितुं सेनामिच्छतः शत्रून्नीचान्न्यग्भूतान्यच्छोपरतान्कुरु। यश्चान्योऽस्मानभिदासत्युपक्षपयति तमीं तमपि वैरिणमधस्पदमस्मत्पादयोः प्रणतशिरस्कं कृधि कुरु।
तत्र याज्यामाह - इन्द्र क्षत्रमिति। हे इन्द्र वामं वननीयं क्षत्रं क्षताद्रक्षणमोजोऽस्मदीयं बलं चाभिलक्ष्याजायथा एतत्सर्वं संपादयितुं जातोऽसि। चर्षणीनां मनुष्याणां हे वृषभ कामानां वर्षकामित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदस्तिरस्कृतवानसि। देवेभ्यो हविष्प्रदानादिव्यवहारिभ्यो यजमानेभ्य उरुं विस्तीर्णं लोकं भोगस्थानमकृणोरु कृतवानेवासि।
तस्यामेवेष्टौ विकल्पितां पुरोनुवाक्यामाह - मृगो नेति। हे इन्द्र भीमो भयंकरः कुचरः प्राणिभक्षणादिरूपकुत्सिताचर-णशीलो गिरिष्ठाः पर्वतनिवासी मृगो न सिंहव्याघ्रादिमृग इव परस्याः परावतो महतो दूरादाजगामास्मद्विरोधिनं हन्तुमागतोऽसि। आजगन्थेति हि शाखान्तरे मध्यमपुरुषः पठितः। सृकं परशरीरादिषु सरणशीलं तिग्मं तीक्ष्णं पविं वज्रं संशाय सम्यक्तीक्ष्णं कृत्वा विशेषेण शत्रूंस्ताडय। मृधो योद्धॄञ्शत्रून्विशेषेण नुदस्व निराकुरु ।
विकल्पितां याज्यामाह - वि शत्रूनिति। हे इन्द्र शत्रून्विशेषेण नुद निराकुरु। मृधो योद्धॄनपि विशेषेण नुद। वृत्रस्य हनू विरुज विशेषेण भग्नी कुरु। त्वं भामितः क्रुद्धः सन्नभिदासतोऽस्मानुपक्षपयतोऽमित्रस्य वैरिणो मन्युं विशेषेण भग्नं कुरु।
इष्ट्यन्तरं विधत्ते - “इन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वेन्द्रमेव त्रातार स्वेन भागधेयेनोप धावति स एवैनं त्रायते” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति। बद्धः शृङ्खलया निगडितः। परियत्तः शृङ्खलामन्तरेण परितो भटैवरुद्धः।
तत्र पुरोनुवाक्यामाह - त्रातारमिति। त्रातारं शृङ्खलाबन्धाद्रक्षितारम्। अवितारं भटावरोधाद्रक्षि-तारम्। शूरं बन्धकानामवरोधकानां च तिरस्कारे क्षमम्। हवे हवे सुहवं सर्वस्मिन्होमे सुखेनाऽऽह्वातुं शक्यम्। शक्रं सर्वेषु कार्येषु शक्तियुक्तम्। पुरुहूतं बहुभिर्यजमानैराहूतमिन्द्रं हुवे नु आह्वायाभ्येव। प्रतिविशेषणमिन्द्र-शब्दावृत्तिर्वाक्यभेदार्थम्। त्रातारमिन्द्रं हुवे। अवितारमिन्द्रं हुव इत्येवं वाक्यभेदः। तैश्च बहुभिर्वाक्यैरादरातिशयः प्रदर्श्यते। इन्द्राऽऽगच्छ हरित आगच्छेत्यादौ तद्दर्शनात्। लोकेऽप्यतिबालं पुत्रमुपलालयितुं पितरागच्छ भ्रातरागच्छेत्यादौ दृश्यते। मघवा धनवानिन्द्रो नोऽस्माभ्यं स्वस्ति धातु अविनाशं ददातु।
तत्रैव याज्यामाह – मा ते अस्यमिति। हे सहसावन्बलवन्निन्द्रास्यां परिष्टौ परित्राणार्थं क्रियमा-णायामिष्टौ वयमघाय वैकल्याय मा भूम, अस्मदनुष्ठिते कर्मणि वैकल्यं मा भूदित्यर्थः। हे हरिवो हरिभिरश्वैस्तद्वन्परादै परादातुं त्वामवज्ञातुं वयं मा भूम कदाचिदप्यवज्ञां मा करवामेत्यर्थः। त्वं नोऽस्मानवृकेभिर्हिंसकरहितैर्वरूथै-र्गृहैस्त्रायस्व। तादृशान्गृहान्प्रयच्छ। सूरिषु विद्वत्सु यजमानेषु मध्ये वयं तव प्रिया भवेम।
इष्ट्यन्तरं विधत्ते - “इन्द्रायार्काश्वमेधवते पुरोडामेकादशपालं निर्वपेद्यं महायज्ञो नोपनमेदेते मै महायज्ञस्यान्त्ये तनू यदर्काश्वमेधाविन्द्रमेवार्काश्वमेधयन्त स्वेन भागधेयेनोप धावति स एवास्मा अन्ततो महायज्ञं च्यावयत्युपैनं महायज्ञो नमति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
अश्वमेधयज्ञस्य साधनभूतो योऽग्निः सोऽर्कः। यश्च तत्फलभूत आदित्यः सोऽश्वमेधः। अत एव पञ्चमकाण्डे पञ्चार्काहुतिविधिशेषार्थवादे समाम्नायते - “अर्को वा एष यदाग्निरसावादित्योऽश्वमेधो यदेता आहुतीर्जुहोत्यर्काश्वमेधयोरेव ज्योतीषि संदधाति” इति। अश्वमेधब्राह्मणेऽप्याम्नायते - “अग्निर्वा अश्वमेधस्य योनिरायतम्। सूर्योऽग्नेर्योनिरायतनम्। यदश्वमेधेऽग्नौ चित्य उत्तरवेदिं चिनोति तावर्काश्वमेधौ” इति। वाजसनेयिनोऽपि चित्यस्यग्नेरुपासने समामनन्ति — “एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ” इति। इन्द्रः स्तुतयोरग्न्यादित्ययोः स्वामित्वादर्काश्वमेधवानित्युच्यते। यं यजमानं प्रत्यश्वमेधराजसूयरूपो महायज्ञो नोपनमेन्न प्राप्नुयात्स यजमानोऽर्काश्वमेधस्वामिने निर्वपेत्। यावेतावर्काश्वमेधशब्दवाच्यावग्न्यादित्यौ तावुभौ महायज्ञस्याश्वमेधस्यान्त्ये तनू प्रारम्भसमाप्तिकोटयोर्वर्तमानशरीरे। चित्याग्निः साधनत्वेन प्रारम्भकोटौ वर्तते। आदित्यः फलरूपत्वेन समाप्तिकोटिगामी। स एवेन्द्र एवास्मै यजमानस्य समीपे महायज्ञं प्रेरयति। स च महायज्ञ एनं यजमानमुपनमति प्राप्नोति।
तत्र पुरोनुवाक्यामाह - अनवस्त इति। हे पुरुहूत बहुभिर्यजमानैराहूतेन्द्र ते तव रथमनवो मनुष्यास्तक्षंस्तक्षन्तु संस्कुर्वन्तु। किमर्थम्। अश्वायाश्वं संयोक्तुम्। त्वष्टा देवः शिल्पी द्युमन्तं दीप्तिमन्तं वज्रं तक्षतु। ब्रह्माणो ब्राह्मणा ऋत्विजोऽर्कैर-र्चनसाधनैर्मन्त्रैर्महयन्तः पूजयन्त इन्द्रमवर्धयन्यशसा वर्धयन्तु। अहयेऽहिमघं महायज्ञप्राप्तिप्रतिबन्धकं पापं हन्तवा उ अवश्यं हन्तुमवर्धयन्नित्यन्वयः।
याज्यामाह - वृष्णे यत्त इति। हे इन्द्र यद्यदा वृष्णे ते कामाभिवर्षिणस्तव संबन्धिनमर्क-मर्चनीयं वृषणं वर्षणं (कं) फलाभिवर्षकं यागं ग्रावाणः साधनभूता दृषदुपलादयः पदार्था अर्चानर्चयन्ति अलंकुर्वन्ति, तदानीमदितिर्वेदिरूपा पृथिवी सजोषास्त्वया समानप्रीतिर्भवतु। इन्द्रेषिता इन्द्रप्रेरिता ये पवयो वज्राः सन्ति तेऽप्यरथा अनश्वासो रथाश्वनिरपेक्षा एव दस्यून्महायज्ञप्राप्तिप्रतिबन्धकानसुरानभ्यवर्तन्ताभिलक्ष्य हन्तुं प्रवर्तन्ताम्।
अत्र विनियोगसंग्रहः —
“इन्द्रं वो विश्वतोऽमुष्मिंश्चरावैन्द्र ऋचोर्द्वयम्।
इन्द्रीन्द्रियावद्यागे स्यादा यस्मिन्घर्मवद्यजौ॥१॥
इन्द्रं स्यादर्कवद्यागे तिस्रोंऽहोमुग्यजावृचः।
विनो (वै)मृधे चतस्रः स्युस्त्रातारं त्रातृमद्यजौ।
अनवोऽर्काश्ववद्यागे मन्त्राः सप्तदशेरिता (न्त्रा एकोनविंशतिः”
॥२॥ इति।
-----
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमेहश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्व-
रस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण
विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
प्रथमकाण्डे षष्ठः प्रपाठकः॥६॥
—------------------------------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
—--------------------------------------------