पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठकेऽष्टमोऽनुवाकः )।
सप्तमे देवतापरिग्रहादिरुक्तः। अष्टमे यज्ञायुधसंभृतिरुच्यते।
तत्र प्रथमं तावदपां प्रणयनं विधातुं प्रस्तौति - यो वै श्रद्धामिति। यो यजमानो मनसि देवतादिविषयां श्रद्धामसंनिधाप्य यष्टुं प्रयुङ्क्ते तदीयमिष्टं देवा ऋत्विजश्च न विश्वसन्ति।
विधत्ते - अपः प्रेति। अपां श्रद्धाहेतुत्वमैतरेयिणः समामनन्ति - “आपो ह्यस्मै श्रद्धां संनमन्ते पुण्याय कर्मणे” इति। प्रत्यक्षं चैतत्स्नानाचमनादियुक्तस्य देवपूजादावैकाग्न्यातिशयदर्शनात्। अतोऽपां प्रणयनेन श्रद्धाया उपस्थापितत्वाद्देवानामृत्विजां चैतदीये यज्ञे विश्वासो युक्तः। यद्यपि पौरोडाशिककाण्डेऽध्वर्युकर्तृकमिदं प्रणयनं विहितं तथाऽपि शाखाभेदादपुनरुक्तिः। शाखाभेदश्चाऽऽपस्तम्बेन तत्रत्यमन्त्राणां साकल्येनानुवादाद्विधिपुनरुक्तिबाहुल्याच्चावगन्तव्यः।
पृथिवीं च मनसा ध्यायतीति सूत्रकारेण प्रणयनकाले ध्यानमुक्तं, तदिदं विधातुं विधत्ते - तदाहुरिति। तत्तत्रापां प्रणयने केचिदभिज्ञा इत्याहुः। किमिति। एता आपो वर्त्रं शरीरस्य वृत्तिमतिनेदन्ति अतिक्रामन्ति, वाचमप्यतिक्रामन्ति, न खलु प्रवहन्तीनां नद्यादिगतानामपां निवारणं शरीरेण वाचा वा कर्तुं शक्यते। मन एवैकमेता आपो नातिक्रामन्तीति। तदुत्तरत्र स्पष्टी करिष्यते।
विधत्ते - मनसेति। पृथिवीं ध्यायन्निति शेषः। ब्राह्मणान्तरमनुसृत्य सूत्रकारेणोक्त-त्वात्।
अनतिक्रमणमुपपादयति - इयं वा इति। मनसाः पृथिवीवद्व्याप्तुं शक्यत्वात्पृथिवीत्वम्। न हि नद्यादिगता आपः पृथिव्या अतिक्रमणे शक्ताः।
मनसा प्रणयनस्य वेदनं प्रशंसति - अस्कन्नहविरिति।
विधत्ते - यज्ञायुधानीति। वक्ष्यमाणानि स्फ्यकपालादीनि यज्ञस्य साधनत्वादायुधा-नीत्युच्यन्ते। तान्यध्वर्युः संपादयेत्। साध्यसाधनयोरभेदोपचाराद्यज्ञस्यैव तदायुधत्वम्। तत्तेनाऽऽयुधसंपादनेन यज्ञमेव संपादयति।
अत्रऽऽयुधानां प्रयोगस्त्रिविधः। एकैकस्य प्रयोगः सर्वेषां सह प्रयोगो द्वयो-र्द्वयोः प्रयोगश्चेति। तत्र तृतीयं विधातुमितरपक्षौ निन्दति - यदेकमेकमिति। ईदृशौ पैतृकमानुषपात्रप्रयोगौ गृह्यकारेण दर्शितौ - द्वंद्वं व्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि सकृदेव मनुष्यसंयुक्तान्येकैकशः पितृसंयुक्तानीति।
विधत्ते - द्वेद्वे इति। द्वित्वसाम्येन याज्यानुवाक्यारूपत्वं स्रीपुरुषात्मकमिथुनत्वं च।
संपादयनीयानां यज्ञायुधानां स्वरूपविशेषं विधातुं तद्वेदनं प्रशंसति - यो वै दशेति। यो यजमानो मुखतो यज्ञारम्भे दशैतानि संपादनीयानीत्यनु-संधत्तेऽस्य यज्ञो निर्विघ्नेनानुष्ठानक्षमो भवति।
आयुधविशेषस्वरूपाणि विधत्ते - स्फ्यश्चेति। स्फ्यो नाम बाहुमात्रः खड्गाकारः काष्ठविश्षः। कपालानि भाण्डलेशसदृशानि। अग्निहोत्रहवणीलक्षणं सूत्रकार आह - वैकङ्कत्यग्नि-होत्रहवणी बाहुमात्र्यरत्निमात्री वा प्रसृताकृतिरिति। शम्या बाहुमात्रो गदाकृतिः काष्ठविशेषः। शिष्टानि शूर्पादीनि लोकप्रसिद्धानि। पुनरपि दशायुधवेदनप्रशंसनमुपसंहारार्थम्। चकाराः परस्परसमुच्चयार्था अनुक्तदशायुधसमुच्छयार्था वा।
तानि सर्वाण्यापस्तम्बो दर्शयति - “उत्तरेण गार्हपत्याहवनीयौ दर्भान्सस्तीर्य द्वंद्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि स्फ्यश्च कपालानि चेति यथासमाम्नातपराणि प्रयुज्य स्रुवं जुहुमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि तान्युत्तरेणावशिष्टान्यन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणि” इति।
यजमानस्याभिमन्त्रणं विधातुं प्रस्तौति - यो वै देवेभ्य इति। प्रतिप्रोच्य होष्यामीति प्रतिश्रुत्य।
विधत्ते - हविर्निरुप्यमाणमिति। अग्नि होतारमित्यादिमन्त्रः पूर्वप्रपाठके मम नामेत्यनुवाके समाम्नातो व्याख्यातश्च। देवानामाह्वातारं तमग्निमिह यज्ञेऽहमाह्वयामि। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येत्यस्मिन्नुत्तरार्धे देवेभ्यः प्रतिश्रवणं विस्पष्टम्। अस्य हविषो वियन्तु इदं हविरश्नन्त्वित्यर्थः।
इदमिभिमन्त्रणं पुनः प्रशंसति - एष वा इति। एष मन्त्रप्रयोगो यज्ञस्वीकाररूपः। हविषो वियन्त्वित्यनेन देवतामुद्दिश्य द्रव्यत्यागस्य सूचितत्वात्।
यजमानस्य मौनं विधत्ते - तदुदित्वेति। तदभिमन्त्रणमन्त्रवाक्यम्। मौनेन यज्ञो बहिरप्रकाशितत्वाद्धृतो भवति।
पुनरपि मौनं प्रशंसति - अथो मनसेति। सति वाग्व्यापारे विवक्षितशब्दविशेषतदर्थचिन्तया तत्प्रसक्तानुप्रसक्तचिन्तया च विक्षिप्तं मनः प्रकृताद्यज्ञात्स्खलति। अतः प्रजापतिरविक्षेपाय मनसैव यज्ञमकरोत्। तद्वद्यजमानोऽपि तत्तेन मैनेन यज्ञं तनुते। तथा सति स्खलनाभावाद्रक्षसामत्र प्रचारो न भवति।
यज्ञयोगविधिमनुन्नेतुं प्रस्तौति - यो वै यज्ञमिति। यो यजमानो यज्ञयोगकाले समागते सत्यप्रमत्तो यज्ञं युनक्ति स एव युञ्जानेषु यजमानेषु युङ्क्त इति व्यपदेशमर्हति। अकाले तु योगः कृतोऽप्यकृत एव स्यात्।
योगविध्युन्नयनमभिप्रेत्य तत्र करणभूतं मन्त्रमुदाहृत्य व्याचष्टे- कस्त्वा युनक्तीति। अयमपि मन्त्रः पूर्वप्रपाठके समाम्नातः। यः प्रजापतिः सर्वदा सर्वेषां यजमानानां यज्ञं युनक्ति स एवाद्य मदीयं यज्ञं युनक्तु रथेऽश्वमिव मयि यज्ञं संबध्नातु। अनेन मन्त्रेण यज्ञं युञ्ज्यादित्युन्नीतो विधिः।
तृतीयाध्यायस्य प्रथमपादे चिन्तितम् -
द्रव्यस्य स्फ्यकपालादेः सांकर्यं वा व्यवस्थितिः।
यज्ञायुधत्वं सर्वाङ्गसमं तेनात्र संकरः।
वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति।
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्।
दर्शपूर्णमासयोः श्रूयते - “स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश य-ज्ञायुधानि” इति। स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते। अग्निहोत्रहवणी हविर्नि-र्वापसाधनं काष्ठपात्रम्। शम्या गदाकारं काष्ठम्। तत्र व्रीह्यादिद्रव्येष्ववघाता-दिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्र-पणाद्यङ्गक्रियासु सांकर्यं निराकर्तुमशक्यम्। येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात्। न च (ह्य) व्यवस्थामात्रेण यज्ञसाधनत्वमपैतीति प्राप्ते ब्रूमः - स्फ्येनोद्धन्ति। कपालेषु श्रपयति। अग्निहोत्रहवण्या हवीषि निर्वपति। शूर्पेण विविनक्ति। कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति। शम्यायां दृषमुपदधाति। उलूखलमुसलाभ्यामवहन्ति। दृषदुपलाभ्यां पिनष्टीत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्यं सांकर्यपक्षे प्रसज्येत। व्यावस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकमिति चेन्न। उद्धननादिवाक्यसिद्धार्थानुवादित्वात्। न च वैपरीत्येनोद्धननादिवाक्या-नामेवानुवादित्वमिति वाच्यम्। बहुवैयर्थ्यस्य जघन्यत्वात्। न चात्यन्तं यज्ञा-युधानुवादस्य वैयर्थ्यम्। यज्ञायुधानि संभरतीत्यासादनविधानायोपयुक्तत्वात्। तस्मादवघातादिसंस्कारा इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् -
दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा।
आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पने॥
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते।
स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः॥
दर्शपूर्णमासयोः स्फ्यश्च कपालानि चेत्याद्यनुक्रम्यैतानि वै दश यज्ञायुधा-नीत्याम्नातम्। तानि चात्र हविष्ट्वेन विधीयन्ते विधीयन्ते। कुतः। मानान्त-रैरप्राप्तत्वेनापूर्वार्थत्वात्। यदि तत्र पुरोडाशो हविर्भवेत्तदा तेन सहैतेषां समुच्चयो विकल्पो वाऽस्त्विति प्राप्ते ब्रूमः - आग्नेयोऽष्टाकपाल इत्युत्पत्ति-शिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पो समुच्चयो वा न संभवति। आयुधत्वं यज्ञसाधनत्वम्। तच्च स्फ्येनोद्धन्ति कपालेषु श्रपयतीत्यादिशास्त्रसिद्धमेवात्रानूद्य यज्ञायुधानि संभरतीत्येष संभरणविधिः स्तूयते। तस्मान्नास्ति हविष्ट्वम्।
एकादशाध्यायस्य तृतीयपादे चिन्तितम् -
देशपात्रर्त्विजोऽन्यस्मिन्प्रयोगेऽन्य उतैच्छिकाः।
भुक्त्यर्थपर्णवत्तेऽन्ये वासोवत्ते स्युरैच्छिकाः॥
समे यजेतेत्युक्तो देशः। जुह्वादीनि पात्राणि। अधर्युप्रमुखा ऋत्विजः। ते चैकस्मिन्प्रयोग उपयुक्ता निरिष्टकत्वान्न प्रयोगान्तरमर्हन्ति। इष्टान्निर्गता निरिष्टाः। कुत्सिता निरिष्टा निरिष्टका दुष्टाः। पुनःप्रयोगानर्हा इत्यर्थः। यथा भोजन उपयुक्तं कदलीपलाशादिपर्णं प्रक्षाल्यापि न पुनः शिष्टास्तत्स्वी कुर्वन्ति तथाऽत्राप्यन्ये देशादयः प्रयोगान्तरे संपाद्या इति प्रप्ते ब्रूमः — यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमिति दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वाऽन्यद्वा स्वेच्छया दिनान्तरे स्वी कुर्वन्ति तद्वदत्रापि द्रष्टव्यम्। इदं निरिष्टकमिदं नेत्यत्र शिष्टाचार एव प्रमाणम्। शिष्टाश्च देशादीन्नियमेन न त्यजन्ति। तस्मादैच्छिकाः।
तत्रैवान्यच्चिन्तितम् -
मा भूदन्यत्वनियमः पात्रे तन्त्रं किमैच्छिकम्।
नियतं वाऽग्रिमो देशवन्मैवं प्रतिपत्तितः।
देशपात्रर्त्विजां साधारण्येनान्यत्वनियमे निवारिते सति पुनः पात्रेषु नियमा-न्तरसदसद्भावश्चिन्त्यते। प्रथमप्रयोगे पात्राणि तान्येव प्रयोगान्तरेष्विति नियमो नास्त्युतास्तीति संशयः। यथा देशकर्तृषु त एवेति नियमो नास्त्यैच्छिकस्योक्तत्वात्तथा पात्रेष्वपीति चेन्मैवम्। आमरणं पात्राणं धारणीयत्वात्। आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति प्रतिपत्तिविधानेनाऽऽमरणं धारणमेवं गम्यते। ननु पात्रैरिति तृतीयाया गुणभावावगमादर्थकर्मेदं न तु प्रतिपत्तिः। तथा सति पात्रान्तरैरपि दाहसिद्धेर्न धारणनियम इति चेन्मैवम्। दक्षिणे पाणौ जुहूमासादयतीति द्वितीयया प्रतिपाद्यत्वावगमात्पूर्वेषु धारणम्। तस्मात्सर्वेषु प्रयोगेषु पात्राणां तन्त्रम्।
तत्रैवान्यच्चिन्तितम् -
किं पौर्णमासीमारभ्य यद्वाऽऽधानमियं धृतिः।
प्रकृत्यर्थतयाऽऽद्यः स्यान्मरणानियमात्परः॥
अनारभ्याधीतानां पात्राणां प्रकृतिगामितया पौर्णमासीमारभ्य धारणमिति प्रप्ते ब्रूमः — आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि। अन्यथाऽऽधानपौर्णमास्ययोर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात्। तस्मादाधानमारभ्य धारणमित्ययं परः पक्षोऽभ्युपगन्तव्यः॥