अनुवाकः 7 TS 1.6.7

(A7)

(परि॑-मनु॒ष्या॑-इन्द्रि॒यꣳ-सा॒क्षात्-त्रीणि॑ च)

अनुवाकः 7 - Complete Audio

TS 1.6.7 - स्वरानुगामी

0:00 0:00
PS1.1 यथा॒ वै स॑मृतसो॒मा ए॒वं
PS1.2 ॅवा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्.शपूर्णमा॒सौ
PS1.3 कस्य॒ वाऽह॑ दे॒वा य॒ज्ञ्मा॒गच्छ॑न्ति॒
PS1.4 कस्य॑ वा॒ न ब॑हू॒नां
PS1.5 ॅयज॑मानानां॒ ॅयो वै दे॒वताः॒
PS1.6 पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒
PS1.7 श्वो भू॒ते य॑जत ए॒तद्वै
PS1.8 दे॒वाना॑-मा॒यत॑नं॒ ॅयदा॑हव॒नीयो᳚ऽन्त॒राऽग्नी प॑शू॒नां गार्.ह॑पत्यो
PS1.9 मनु॒ष्या॑णा-मन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व
PS1.10 ए॒वायत॑ने दे॒वताः॒ परि॑ -
PS1.11 [ ]
PS2.1 गृह्णाति॒ ताः श्वो भू॒ते
PS2.2 य॑जते व्र॒तेन॒ वै मेद्ध्यो॒
PS2.3 -ऽग्निर् व्र॒तप॑तिर् ब्राह्म॒णो व्र॑त॒भृद्-व्र॒त-मु॑पै॒ष्यन्
PS2.4 ब्रू॑या॒दग्ने᳚ व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर्
PS2.5 वै दे॒वानां᳚ ॅव्र॒तप॑ति॒स्तस्मा॑ ए॒व
PS2.6 प्र॑ति॒प्रोच्य॑ व्र॒तमा ल॑भते ब॒र्॒.हिषा॑
PS2.7 पू॒र्णमा॑से व्र॒तमुपै॑ति व॒थ्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑-रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्
PS2.8 मनु॒ष्या॑ - [ ]
PS3.1 इन्न्वा उप॑स्तीर्ण-मि॒च्छन्ति॒ किमु॑ दे॒वा
PS3.2 येषां॒ नवा॑वसान॒-मुपा᳚स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑
PS3.3 वसन्ति॒ य ए॒वं ॅवि॒द्वान॒ग्नि-मु॑पस्तृ॒णाति॒
PS3.4 यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुद्ध्या॑ आर॒ण्याश्चेत्या॑हु॒र्
PS3.5 यद् ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑
PS3.6 रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञ॑ति॒ तेना॑र॒ण्यान्. यदना᳚श्वानुप॒वसे᳚त्
PS3.7 पितृदेव॒त्यः॑ स्यादार॒ण्यस्या᳚-श्ञातीन्द्रि॒यं - [
PS3.8 ]
PS4.1 ॅवा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदना᳚श्वानुप॒वसे॒त्
PS4.2 क्षोधु॑कः स्या॒द्यद॑श्ञी॒याद्रु॒-द्रो᳚ऽस्य प॒शून॒भि म॑न्येता॒ऽपो᳚ऽश्ञाति॒
PS4.3 तन्नेवा॑शि॒तं नेवाऽन॑शितं॒ न क्षोधु॑को॒
PS4.4 भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि
PS4.5 म॑न्यते॒ वज्रो॒ वै य॒ज्ञ्ः
PS4.6 क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒
PS4.7 भ्रातृ॑व्यो॒ यदना᳚ऽश्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात्
PS4.8 ( ) क्षुधं॒ भ्रातृ॑व्यꣳ
PS4.9 हन्ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.6.7.1 TS 1.6.7.1
यथा॒ वै स॑मृतसो॒मा ए॒वं ॅवा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्.शपूर्णमा॒सौ कस्य॒ वाऽह॑ दे॒वा य॒ज्ञ्मा॒गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां ॅयज॑मानानां॒ ॅयो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑-मा॒यत॑नं॒ ॅयदा॑हव॒नीयो᳚ऽन्त॒राऽग्नी प॑शू॒नां गार्.ह॑पत्यो मनु॒ष्या॑णा-मन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वताः॒ परि॑ - [ ]
पदपाठः (Word-by-word)
यथा᳚ । वै । स॒मृ॒त॒सो॒मा इति॑ समृत - सो॒माः । ए॒वम् । वै । ए॒ते । स॒मृ॒त॒य॒ज्ञा इति॑ समृत - य॒ज्ञाः । यत् । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । कस्य॑ । वा॒ । अह॑ । दे॒वाः । य॒ज्ञ्म् । आ॒गच्छ॒न्तीत्या᳚ - गच्छ॑न्ति । कस्य॑ । वा॒ । न । ब॒हू॒नाम् । यज॑मानानाम् । यः । वै । दे॒वताः᳚ । पूर्वः॑ । प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ । सः । ए॒नाः॒ । श्वः । भू॒ते । य॒ज॒ते॒ । ए॒तत् । वै । दे॒वाना᳚म् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । यत् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । अ॒न्त॒रा । अ॒ग्नी इति॑ । प॒शू॒नाम् । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्यः॒ । म॒नु॒ष्या॑णाम् । अ॒न्वा॒हा॒र्य॒पच॑न॒ इत्य॑न्वाहार्य - पच॑नः । पि॒तृ॒णाम् । अ॒ग्निम् । गृ॒ह्णा॒ति॒ । स्वे । ए॒व । आ॒यत॑न॒ इत्या᳚ - यत॑ने । दे॒वताः᳚ । परीति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः)।

एतैः षड्भिरनुवाकैर्याजमानमन्त्र उदीरिताः। अथानुवाकपञ्चकेन याजमान-ब्राह्मणमुच्यते। तत्रास्मिन्सप्तमानुवाके देवतापरिग्रहादिर्विधीयते। आहवनीया-दिष्वग्निष्वध्वर्युणाऽन्वाधीयमानेषु तस्मिन्नन्वाधानकाले यजमानोऽच्छिद्रका-ण्डाम्नातानग्निं गृह्णामीत्यादिमन्त्राञ्जपेत्। सोऽयं देवतापरिग्रहः। असौ चाऽऽपस्तम्बसूत्रे विस्पष्टः।

आपस्तम्बो ह्यग्निं गृह्णामीत्यादिमन्त्रानुच्चर्येदमाह – ‘आहवनीयेऽन्वधीयमाने जपति’ इति। अन्तराऽग्नी पशव इति मन्त्रमुच्चार्येदमाह – ‘अन्तराऽग्नी तिष्ठञ्जपति’ इति। इह प्रजा इत्यादिमन्त्रद्वयमुच्चार्येदमाह – ‘गार्हपत्यम्’ इति। अन्वाधीयमानमनुमन्त्रयत इति शेषः। अयं पितृणामिति मन्त्रमुच्चार्येदमाह – ‘दक्षिणाग्निम्’ इति। अत्रापि पूर्ववद्वाक्यशेषः।

तमिमं देवतापरिग्रहं विधातुमादौ प्रस्तौति-

यथा वा इति। एकस्मिन्नेव काले संहत्य प्राप्ताः समृतसोमाः सोमयागा एकस्मिन्नेव वसन्तर्तौ बहूनां यजमानानां सोमयागाः संहत्य प्राप्यन्त एवमेव बहूनां यजमानानामेते दर्शपूर्णमासा यज्ञा एकस्मिन्नेव पर्वणि संहत्य प्राप्य-न्ते। देवताश्चाग्न्यादयो या एकस्य यजमानस्य ताश्चान्यस्यापि। तथा सति देवानां मनसि संकटमुत्पद्यते। तत्संकटमहशब्देन द्योत्यते। देवानां पक्षपातस्यानुचितत्वात्। कस्य यजमानस्य यज्ञं देवा आगच्छन्ति कस्य वा यज्ञं नाऽऽगच्छन्तीति महदेतत्संकटम्। तस्य संकटस्यायं परिहारः — बहूनां यजमानानां मध्ये यो यजमान इतरेभ्यः पूर्वः प्रवृत्तो देवताः परिगृह्णाति स यजमान एताः परिगृहीता देवताः परेद्युर्यष्टुमर्हति। न च सर्वेऽपि यजमानाः परस्परमात्सर्येण प्रथमं प्रवर्तन्त इति स दोषस्तदवस्थ इति शङ्कनीयम्। परिग्रहमन्त्रपाठेनैव देवसंकटस्य परिहृतत्वात्। यागस्योद्देशत्यागमात्रत्वाद्दे-वानामागमनमन्तरेणापि सोऽनुष्ठातुं शक्यते। योगसामर्थ्येन वा बहूनि शरीराणि स्वीकृत्य तत्र सर्वत्राऽऽगमिष्यन्ति। इत्थं च परिहारं भगवान्बा-दरायणो देवताधिकरणे विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादिति सूत्रयामास। किं बहुनाऽस्य वाक्यस्य देवतापरिग्रहविध्यर्थवादत्वान्न किंचिद्देवानां संकटमस्ति।

देवतापरिग्रहार्थानां देशविशेषाणां विधिमर्थवादेनोन्नयति - एतद्वा इति। वसून्रुद्रानादित्यानिन्द्रेण सह देवता इत्याहवनीयार्थमन्त्रलि-ङ्गादाहवनीयो देवानां स्थानम्। अन्तराऽग्नी पशव इति मन्त्रलिङ्गादाहवनी-यगार्हपत्ययोर्मध्यं पशूनां स्थानम्। इह प्रजा विश्वरूपा रमन्तामिति मन्त्रलि-ङ्गाद्गार्हपत्यो मनुष्याणां स्थानम्। अन्वाहार्यः पच्यतेऽस्मिन्नित्यन्वाहार्यपचनो दक्षिणाग्निः। अयं पितृणामग्निरिति मन्त्रलिङ्गादसौ पितृणां स्थानम्।

देशविधिमन्त्रानुन्नीय तेषु देशेष्ववस्थितस्य देवतापरिग्रहं विदधाति - अग्निं गृह्णातीति। स्पष्टोऽर्थः।

मन्त्रेण यज्ञरूपव्रतस्वीकारं विधातुं प्रस्तौति - व्रतेनेति। वक्ष्यमाणमन्त्रपाठरूपेण व्रतस्वीकारेणैव व्रतपतिरयमग्निर्मेध्यो यागयोग्यो भवति। ब्राह्मणश्च यजमानो व्रतधारी भवति।

समन्त्रकव्रतस्वीकारं विधत्ते - व्रतमुपैष्यन्निति। मन्त्रोऽयमतीतप्रश्ने मम नामेत्यनुवाके समाम्नातः। मन्त्रगतं व्रतपतिशब्दं मन्त्रतात्पर्यं च व्याचष्टे – अग्निर्वा इति।

तिथिविशेषेण व्रतोपायनस्य कालविशेषं विधत्ते - बर्हिषेति। बर्हिषा बर्हिराहरणेनोपलक्षिते काले वत्सैर्वत्सापाकरणेनोपल-क्षिते काल इत्यर्थः। एतदुक्तं कालद्वयमेतयोस्तिथिविशेषगतयोर्व्रतस्वीकारयोरुचितं स्थानमिति शाखान्तरप्रसिद्धिः।

अथोपस्तरणं विधत्ते। अध्वर्युर्यदा दर्भैराहवनीयमार्हपत्यौ परिस्तृणाति तदानीमच्छिद्रकाण्डपठितस्योभावग्नी उपस्तृणुत इत्यादिमन्त्रस्य यजमानेन जप उपस्तरणम्। अथवाऽध्वर्युकर्तृकं परिस्तरणम्। तदिदमस्मिन्काण्डे विदधाति-

उपस्तीर्य इति। परोक्षकथनेन विधिः प्रशस्यते।

विहितमुपस्तरणमुपपादयति - मनुष्या इदिति। इन्न्वा इति निपातत्रयसमुदायोऽपिशब्दार्थं ब्रूते। अत्य-न्तदरिद्रा मनुष्या अपि शीतवातादिपरिहाराय तृणादिभिराच्छन्नं गृहमिच्छन्ति महाप्रभावा देवा उपस्तरणमिच्छन्तीति किमु वक्तव्यम्। येषां देवानामिच्छानुसारेण तदा तदा तत्र तत्र नवावसानं नूतनगृहं निष्पाद्यते। यो यजमान एवं विद्वानग्निमुपस्तृणाति अस्मिन्यजमाने परेद्युर्यक्ष्यमाणे सति पुर्वेद्युस्तत्समीपे हविर्भुजो देवता निवसन्ति।

आरण्यं सायमाशेऽश्नातीति सूत्रकारेण यदारण्यधान्यभोजनमुक्तं तदिदं विधातुं प्रस्तौति - यजमानेनेति। अत्रायं विचारः। किं ग्राम्यधान्यस्यान्नं भोक्तव्यमारण्यधा-न्यस्य वा भोजनमेव वा वर्जनीयमिति। तत्राऽऽरण्यधान्यभोजनपक्षामभ्युपे-त्येतरपक्षद्वयमपोद्यते। पशवो हि द्विविधाः ग्राम्या आरण्याश्च। गवाश्वाजा-विपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः। द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्ताऽऽरण्याः त एत उभयेऽपि यजमानेनावरुध्याः संपादनीया इति। बुद्धिमन्त आहुः। यदि ग्राम्यान्व्रीह्यादीन्प्रत्युपवसेद्भोजनं वर्जयेत्तेन वर्जनेन ग्राम्यान्पशून्संपादयति। यदारण्यास्य नीवारादेरन्नं भुञ्जीत तेन भोजनेनाऽऽरण्यान्पशून्संपादयति। यद्यनाश्वानुभयविधभोजनवर्जमुपवासं कुर्यात्तदानीमयं व्रतविशेषः पितृदेवत्यो भवेत्। पितरो ह्यनश्नन्तं श्राद्धकर्तारमभिनन्दन्ति।

इदानीं विदधाति - आरण्यस्येति। इन्द्रियाभिवृद्धिहेतुरारण्यधान्यम्।

अथ पक्षान्तरं विधातुं भोजनयोर्दोषमाह - यदनाश्वानिति। क्षोधुकः क्षुधाशीलः। अभिमन्येत हन्यात्। विधित्सितं पक्षान्तरं विदधति- अप इति।

उक्तं दोषद्वयमत्र परिहरति - तन्नेवेति। अशितास्वप्स्वदनाभावादशितमिव न भवति, क्षुच्छान्तेरनशित-मिव न भवति। अतो न दोषद्वयम्।

अथोपवासपक्षं विधत्ते - वज्रो वा इति। यज्ञस्य नरकपाताद्यनिष्टनिवारकत्वाद्वज्रत्वम्। क्षुधो वैरित्वं प्रसिद्धम्। यज्ञाङ्गभूतोपवासलक्षणेनानेन वज्रेणैव भाविजन्मनि प्राप्स्यमानं साक्षाद्भ्रातृव्यं मुख्यवैरिणं क्षुद्रूपं हन्ति। अनेन यज्ञेन जन्मान्तरेऽन्नबाहुल्यस्य लप्स्यमानत्वात्।

अथ मीमांसा।

षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्-

वत्सैर्दर्शे सवत्सस्य वत्समात्रस्य वा विधिः।

व्रतकालं लक्षयेद्वा वत्सयुक्ते व्रते विधिः॥

भाति रागाद्व्रतप्राप्तेर्वत्समात्रं विधीयते।

व्ररततयाकरणं वत्सः कालगीस्तदपाकृतेः” इति॥

दर्शपूर्णमासयोः श्रूयतेः - “बर्हिषा पूर्णमासे व्रतमुपैति वत्सेरमावास्यायाम्” इति। व्रतं भोजनम्। अत एवाऽऽम्नायते - “अमाषममा सं बहुसर्पिष्कं व्रतयति” इति। तदेद्व्रतं यत्ससंयुक्तमत्र विधीयते। कुतः। वत्सैरिति तृतीयया साहित्यस्य प्रतिभानादित्येकः पक्षः। रागत इत्येव प्राप्तत्वाद्व्रतं न विधीयते किंतु वत्समात्रं विधेयमिति द्वितीयः पक्षः। न हि वत्सः पाण्यादिवद्व्रतस्य करणम्। ततो न तस्य विधिः। किंतु वत्सानामपाकरणेन काल उपलक्ष्यते। तस्मिन्काले व्रतमुपेयात्। एवं मासे बर्हिःसंपादनकाले व्रतमुपेयात्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः॥७॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परं दर्शपूर्णमासयोर्याजमानब्राह्मणं प्राजापत्यमेव काण्डम् । तत्राग्न्यन्वाधानं विधातुमाह - यथा वा इत्यादि ॥ यथा समृतानां सम्प्राप्तानां पूर्वपरिगृहीतानां सोमास्सोमयागाः, केचित्सवादयोपि भवन्ति । यथा 'पूर्वो वाचं पूर्वो देवताः पूर्वश्छन्दांसि वृङ्क्ते' इति । एवमेते दर्शपूर्णमासयाजिनः समृतयज्ञाः सम्भूतयज्ञाः पूर्वपरिगृहीतानां देवानां भवन्ति । उभयत्रापि शाकपार्थिवत्वात्समासः । कारणमाह - कस्य वेत्यादि । यजमानानां बहुत्वे कस्य यज्ञं देवा देवादय आगच्छेयुः कस्य न? न हि प्रथमपरिगृहीतादृते नियमकारणं किञ्चिदस्ति तदेवाह - यो वा इत्यादि । पश्वादीनां देवतात्वमस्त्येव; 'तस्मात्पूर्वेद्युरेव देवतापरिग्रहार्थमन्वाधानं कर्तव्यमिति । मन्त्रलिङ्गं च 'ताः पूर्वः परिगृह्णामि' इति । अथ कुत्र का देवता परिगृह्यते इत्याह - एतद्वा इत्यादि । आहवनीयगार्हपत्ययोर्मध्यं पशूनामायतनम् । 'अन्तरान्तरेण युङ्क्ते' इति द्वितीया । गार्हपत्य इति । 'गृहपतिना संयुक्ते ञ्यः' इति ञ्यः । अन्वाहार्य ओदनः पच्यतेस्मिन्निति अन्वाहार्यपचनो दक्षिणाग्निः । पितॄणामिति । 'नामन्यतरस्याम्' इति षष्ठ्या उदात्तत्वम् । अग्निं गृह्णातीत्यादि गतम् ॥
2 अथ व्रतोपनयनं विधातुमाह - व्रतेन वा इत्यादि ॥ यदि व्रतचारी यजमानस्स्यात्तदा अग्निर्व्रतपतिः व्रतस्य पाता मेध्यो मेधार्हो भवति । स्वयं च ब्राह्मणो व्रतभृत् व्रतधारी भवति; तस्माद्व्रतमुपेयादिति । व्रतमुपैष्यन्नित्यादि । व्रतपतिमग्निमामन्त्र्य तस्मै निवेद्य व्रतमारभते इति । 'एत्येधत्यूठ्सु' इति वृद्धिः । बर्हिषेत्यादि । बर्हिराहरणेन तत्कालेन सह, बर्हिराहरणानन्तरमिति यावत् । वत्सैर्वत्सानामपाकरणेन तत्कालेन सह वत्सेष्वपाकृतेष्वित्यर्थः । उक्तञ्च - 'वत्सं संयोगे व्रतचोदना स्यात्' । अयञ्च सन्नयतोसन्नयतश्च कालः । 'कालस्सन्नयनपक्षे तल्लिङ्गसंयोगात्' इति ॥
13 अथोपस्तरणं विधातुमाह - उपस्तीर्य इत्यादि ॥ उपस्तीर्यः उपस्तरितव्यः । छान्दसः क्यप् । दर्भैः पूर्वेद्युरेवोभावग्नी उपस्तृणुयात् तयोस्समीपे परितस्स्तृणुयात् । मनुष्या अपि खलूपस्तीर्णं समन्तादाच्छादितं निवासं गृहमिच्च्छन्ति किम्पुनर्देवाः, येषामायतनं नवावसानं नूतनाध्यवसायम् । यद्वा - अवसानं गृहम् । तेन कर्मधारये दासीभारादिर्द्रष्टव्यः । उपास्मिन्नित्यादि । उपवसन्ति उपेत्य वसन्ति देवा अस्मिन्निति । विद्वान्वेदार्थवित् ॥
4 अथ सायमाशविषये विकल्पभेदानाह - यजमानेनेत्यादि ॥ ग्राम्याणामनशनेन अवरोधः आरण्यानां तन्मांसाद्यशनेन । तत्र गोश्वाजाविपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिमत्स्यसरीसृपहस्तिमर्कटादयः सप्तारण्याः । यदनाश्वानित्यादि । यदि सायं किञ्चिदप्यनशित्वाग्निसमीपे वसेत् । 'उपेयिवान्' इत्यादौ निपातितः । पितृदेवत्यस्स्याद्यागः, तेषामनशनप्रियत्वात् । 'देवतातात्तादर्थ्ये यत्' । आरण्यस्येन्द्रियसाधनत्वात्तदशनेन तल्लाभ इत्यारण्याशनकल्पः प्रथमः ॥
5 अथ द्वितीयोऽपामशनकल्पः - यदित्यादि ॥ क्षोधुको बुभुक्षाशीलः दरिद्रो वा । छान्दस उकञ् । अभिमन्येताभिक्रुध्येत् । नेवाशितमिति । नभावः । पीतवन्तमशितवन्तमाहुः । नेवानशितं, अपामशितत्वात् ॥
6 अथानशनकल्पः तृतीयः - वज्र इति ॥ क्षुल्लक्षणमनशनलक्षणेन यज्ञात्मना वज्रेण हन्तीति क्षोधुकत्वदोषाप्रसङ्गः । 'व्यन् सपत्ने' इति व्यन् ॥
इति षष्ठे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.6.7.2 TS 1.6.7.2
गृह्णाति॒ ताः श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेद्ध्यो॒ -ऽग्निर् व्र॒तप॑तिर् ब्राह्म॒णो व्र॑त॒भृद्-व्र॒त-मु॑पै॒ष्यन् ब्रू॑या॒दग्ने᳚ व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर् वै दे॒वानां᳚ ॅव्र॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमा ल॑भते ब॒र्॒.हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒थ्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑-रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर् मनु॒ष्या॑ - [ ]
पदपाठः (Word-by-word)
गृ॒ह्णा॒ति॒ । ताः । श्वः । भू॒ते । य॒ज॒ते॒ । व्र॒तेन॑ । वै । मेद्ध्यः॑ । अ॒ग्निः । व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । ब्रा॒ह्म॒णः । व्र॒त॒भृदिति॑ व्रत - भृत् । व्र॒तम् । उ॒पै॒ष्यन्नित्यु॑प - ए॒ष्यन्न् । ब्रू॒या॒त् । अग्ने᳚ । व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । व्र॒तम् । च॒रि॒ष्या॒मि॒ । इति॑ । अ॒ग्निः । वै । दे॒वाना᳚म् । व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । तस्मै᳚ । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । व्र॒तम् । एति॑ । ल॒भ॒ते॒ । ब॒र्॒.हिषा᳚ । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । व्र॒तम् । उपेति॑ । ए॒ति॒ । व॒थ्सैः । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । ए॒तत् । हि । ए॒तयोः᳚ । आ॒यत॑न॒मित्या᳚ - यत॑नम् । उ॒प॒स्तीर्य॒ इत्यु॑प - स्तीर्यः॑ । पूर्वः॑ । च॒ । अ॒ग्निः । अप॑रः । च॒ । इति॑ । आ॒हुः॒ । म॒नु॒ष्याः᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.6.7.3 TS 1.6.7.3
इन्न्वा उप॑स्तीर्ण-मि॒च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसान॒-मुपा᳚स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं ॅवि॒द्वान॒ग्नि-मु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुद्ध्या॑ आर॒ण्याश्चेत्या॑हु॒र् यद् ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञ॑ति॒ तेना॑र॒ण्यान्. यदना᳚श्वानुप॒वसे᳚त् पितृदेव॒त्यः॑ स्यादार॒ण्यस्या᳚-श्ञातीन्द्रि॒यं - [ ]
पदपाठः (Word-by-word)
इत् । नु । वा । उप॑स्तीर्ण॒मियुप॑ - स्ती॒र्ण॒म् । इ॒च्छन्ति॑ । किम् । उ॒ । दे॒वाः । येषा᳚म् । नवा॑वसान॒मिति॒ नव॑ - अ॒व॒सा॒न॒म् । उपेति॑ । अ॒स्मि॒न्न् । श्वः । य॒क्ष्यमा॑णे । दे॒वताः᳚ । व॒स॒न्ति॒ । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒स्तृ॒णातीत्यु॑प - स्तृ॒णाति॑ । यज॑मानेन । ग्रा॒म्याः । च॒ । प॒शवः॑ । अ॒व॒रुद्ध्या॒ इत्य॑व-रुद्ध्याः᳚ । आ॒र॒ण्याः । च॒ । इति॑ । आ॒हुः॒ । यत् । ग्रा॒म्यान् । उ॒प॒वस॒तीत्यु॑प - वस॑ति । तेन॑ । ग्रा॒म्यान् । अवेति॑ । रु॒न्धे॒ । यत् । आ॒र॒ण्यस्य॑ । अ॒श्नाति॑ । तेन॑ । आ॒र॒ण्यान् । यत् । अना᳚श्वान् । उ॒प॒वसे॒दित्यु॑प - वसे᳚त् । पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ - दे॒व॒त्यः॑ । स्या॒त् । आ॒र॒ण्यस्य॑ । अ॒श्ना॒ति॒ । इ॒न्द्रि॒यम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.6.7.4 TS 1.6.7.4
ॅवा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदना᳚श्वानुप॒वसे॒त् क्षोधु॑कः स्या॒द्यद॑श्ञी॒याद्रु॒-द्रो᳚ऽस्य प॒शून॒भि म॑न्येता॒ऽपो᳚ऽश्ञाति॒ तन्नेवा॑शि॒तं नेवाऽन॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञ्ः क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना᳚ऽश्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात् ( ) क्षुधं॒ भ्रातृ॑व्यꣳ हन्ति ॥
पदपाठः (Word-by-word)
वै । आ॒र॒ण्यम् । इ॒न्द्रि॒यम् । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । यत् । अना᳚श्वान् । उ॒प॒वसे॒दित्यु॑प - वसे᳚त् । क्षोधु॑कः । स्या॒त् । यत् । अ॒श्नी॒यात् । रु॒द्रः । अ॒स्य॒ । प॒शून् । अ॒भीति॑ । म॒न्ये॒त॒ । अ॒पः । अ॒श्ना॒ति॒ । तत् । न । इ॒व॒ । अ॒शि॒तम् । न । इ॒व॒ । अन॑शितम् । न । क्षोधु॑कः । भव॑ति । न । अ॒स्य॒ । रु॒द्रः । प॒शून् । अ॒भीति॑ । म॒न्य॒ते॒ । वज्रः॑ । वै । य॒ज्ञ्ः । क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः । यत् । अना᳚श्वान् । उ॒प॒वस॒तीत्यु॑प-वस॑ति । वज्रे॑ण । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् ( ) । क्षुध᳚म् । भ्रातृ॑व्यम् । ह॒न्ति॒ ॥
पदसंख्या: 53