पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः)।
तृतीये भक्ष्यस्येडादिभागस्यानुमन्त्रणमुक्तम्। चतुर्थे शेषाहुतीनामनुयाजा-दीनामनुमन्त्रणमुच्यते।
बर्हिषोऽहमिति। कल्पः - ‘अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशसस्याहं देवयज्यया पशुमान् भूयासमग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति’ इति।
बर्हिर्नराशंसस्विष्टकृच्छब्दा अनुयाजदेवानामग्निविशेषाणां वाचकाः। बर्हिर्नराशंसयागाभ्यां प्रजापतिः क्रमेण प्रजाः पशूंश्च ससर्जेति यजमानस्य तत्तत्प्रर्थना युक्ता। स्विष्टकृन्मन्त्रस्तु व्याख्यातः’
कल्पः - ‘अथ यत्र होतुरभिजानात्यग्निरिदं हविजुषतेति तद्यजमानमुज्जि-तीर्वाचयति अग्नेरहमुज्जतिमनूज्जेषमिति यथेष्टम्’ इति।
यस्मिन्काले होता सूक्तवाकं पठन्नग्निरिद हविरजुषतेत्यादीनि तत्तद्देवता-स्मारकाणि वाक्यानि पठति तस्मिन्कालेऽध्वर्युर्यजमानं तत्तद्देवताविषयाण्यु-ज्जितिवाक्यानि वाचयेत्। अमावास्यायां पौर्णामास्यां वा यां देवतां यजति तदिष्टमनतिक्रम्य तदनुसारेण सूक्तवाकभागा उज्जितिभागाश्च प्रयोक्तव्याः।
पाठस्तु - अग्नेहरमिति। आज्यभागदेवोऽग्निर्हविः सेवित्वा तेन हविषा पुष्टो यज्ञविरो-धिनोऽसुरादीनभिभवन्नुत्कृष्टं जयं प्राप्तवान्। तदीयां तामुज्जितिमनु यजमानोऽहं पापरूपं वैरिणमभिभवन्नुत्कृष्टं जयं प्राप्तोऽस्मि। एवं सर्वत्र योज्यम्।
कल्पः - ‘उक्तं वाजवत्योर्व्यूहनम्’ इति।
वाजशब्दोऽस्ति ययोचोस्ते ऋचौ वाजवत्यौ, तयोचोर्यजमानेन जप्यमानयोरध्वर्युर्जुहूपभृतौ द्वे स्रुचौ व्यूहेत्परस्परविपर्यासेनापसारयेत् तत्प्रकारस्त्वस्माभिराध्वर्यवकाण्डे दर्शित इत्यर्थः।
पाठस्तु- वाजस्य मेति। इन्द्रो वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच ऊर्ध्वग्रहणेन मामु-ग्रभीदुत्कर्षं प्रापितवात्। अथ स्रुचो न्यक्कारेण मम सपत्नानधरान्न्यक्कृतान-करोत्। देवा ब्रह्म परिवृढं स्रुचोरुद्ग्राहनिग्राहरूपं कर्मद्वयमवर्धयन्। अथेन्द्राग्नी मम सपत्नान्विषूचीनान्सर्वतः पलायमानान्व्यस्यतां विनाशयेताम्।
एमा अग्मन्निति। कल्पः - “अथ यत्र होतुरभिजानात्याशास्तेऽयं यजमा-नोऽसाविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमिति” इति।
यस्मिन्काले होता सूक्तवाकं पठन्नाशास्तेऽयमित्यादिवाक्यामुच्चारयति तस्मि-न्कालेऽध्वर्युर्यजमानमेमा अग्मन्नित्यादियज्ञदोहमन्त्रं वाचयति। सूक्तवाक आ-युराशास्ते सुप्रजास्त्वमाशास्त इत्यादय आयुराद्याशिषः समाम्नाताः। इमा आ-शिषोऽग्मन्मां प्रत्यागच्छन्तु। वयमप्यायुरादिदोहं कामयमानास्तत्फलप्रदेनेन्द्रेण युक्तत्वादिन्द्रवन्तस्तमिन्द्रं वनामहे भजामहे। तेन भजनेन पुत्रपौत्रादिप्रजामिष-मिष्यमाणमन्नायुरादिकं धुक्षीमहि कामधेनुसदृशीमिन्द्रदेवतां दुह्यास्म।
रोहितेनेति। कल्पः - “प्रस्तरं प्रह्रियमाणमनुमन्त्रयते रोहितेन त्वाऽग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति” इति।
रोहितहर्येतशब्दा अग्नीन्द्रसूर्याणामश्वानभिदधते। हे प्रस्तर तैरश्वैरग्न्या-दयस्त्वां सूक्तवाकोक्तां देवतां गमयन्तु।
वि ते मुञ्चामीति। कल्पः - “परिधीन्विमुच्यमानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा यानि परिचर्तनानि। धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति” इति।
लोके ह्यारुरुक्षुरारोहणीयमश्वं रशनादिभिः सर्वतो बध्नाति। तत्र रशनाशब्देन पल्ययनदार्ढ्यायोदरे बध्यमाना तन्तुमयी चर्ममयी वा कक्ष्याऽभिधीयते। रश्मिशब्देनाश्वमुखे संलग्नो हस्तेनाश्वनियमनार्थो रज्जु-विशेष उच्यते। योक्त्रशब्देनाश्वं स्तम्भे बद्धु (न्धु) मुपयुक्तो रज्जुविशेषः। पल्ययनस्य पुरतः पृष्ठतश्चापसरणं वारयितुमुरःपुच्छादौ बन्धनोपयुक्ता रज्जुविशेषाः परिचर्तनशब्देनोच्यन्ते। अश्ववदग्नेश्च रशनादिस्थानीयाः परिधयः। हेऽग्ने तव बन्धनहेतून्परिधिरूपान्रशनादीन्विमुञ्चामि। तद्विमोकेन संतुष्टस्त्वमस्मासु द्रविणं धेहि। यच्चान्यद्भद्रमन्नपानादिकं तदप्यस्मासु धेहि। अस्मदीयहविर्भुक्षु देवतासु भागधान्हविष्प्रदानस्मान्प्रकर्षेण ब्रूहि।
विष्णोः शंयोरिति। कल्पः - ‘शंयुवाकमुक्तमनुमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति’ इति। शंयुशब्दः सुखमिश्रं बृहस्पतिपुत्रं ब्रूते। ते शंयुं बार्हस्पत्यमिति ब्राह्मणोक्तेः। स च बहुषु कार्येषु व्याप्नुवन्विष्णुरित्युच्यते। तस्य परितोषहेतुत्वात्परिधिप्र-हरणं तदीया देवयज्या तथा यजमानोऽहं कृत्स्नयज्ञेन निष्पन्नां प्रतिष्ठां फलं गमेयं प्राप्नुयाम्।
सोमस्याहमिति। कल्पः - ‘पत्नीसंयाजानामिष्टमनुमन्त्रयते सोमस्याहं देवयज्यया सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूना रूपं पुषेयमिति’ इति। ‘अथेतरावुपसमस्यति देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं दवेयज्यया मिथुनेन प्र भूयासमिति’ इति।
चतुर्णां पत्नीसंयाजानां क्रमेण सोमस्त्वष्टा देवपत्न्यो गृहपत्यग्निरिति चतस्रो देवताः। तत्र सोमस्य रेतोधारणाभिमानित्वात्तदीययागेनाहं रेतो घिषीय धारयेयम्। द्विविधं रेतो वन्ध्यमुत्यादकं च। तत्र वन्ध्यव्यावृत्तये सुरेता इति विशेष्यते। त्वष्टा तु निषिक्तं रेतः पश्वादिरूपेण विकारयति। अतस्तद्यागेन पशुरूपं पुषेयं पुष्यासम्। मिथुनत्वसिद्ध्यर्थमेकस्मिन्नेव मन्त्रे तृतीयचतुर्थदेवते समस्येते। या देवपत्न्यो यश्च गृहपतिरग्निस्तदुभयं मिलित्वा यज्ञसंबन्धि मिथुनम्। तदीययागेनाहमपि मिथुनेत पुत्रपुत्रीरूपेण प्रकृष्टो भूयासम्।
कल्पः - ‘वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेत्याऽन्तादनुवाकस्य’ इति। वेदे निहिते सतीति शेषः। अन्तर्वेदि वेदं निधायेति सूत्रान्तरे दशंनात्।
पाठस्तु - वेदोऽसीति। वेदोऽसीत्यस्य वाक्यस्यार्थो वित्तिरसीत्यनेन स्पष्टी क्रियते। हे दर्भमय त्वं वेदनामाऽसि। तस्य नाम्नोऽयमर्थः - वित्तिर्द्रव्यलाभसाध-नमित्यतस्तत्प्रसादेनाहं धनं विदेय लभेय। तथैवोपरि व्याख्येयम्। कर्मासि कर्मनामकम(कोऽ)सि। तस्य व्याख्यानं करुणमसीति। क्रियतेऽनेनेति करुणं वेदिसंमार्जनभस्माध्यूहनादिसाधनमित्यर्थः। अतस्त्वयाऽहं संमार्जनादिकं क्रियासम्। तथा त्वं सनिरसि सनिनामाऽसि। तद्व्याख्यानं सनिताऽसीति। धनस्य दाताऽसीत्यर्थः। अतस्त्वत्प्रसादेन सनेयं धनमृत्विगादिभ्यो देयासम्। किंच वेदो भवान्मह्यं रायस्पोषं धनं पुष्टिं ददाति। कीदृशं रायस्पोषं, घृतवन्तं घृतादिभोजनसाधनसमृद्धम्। कुलायिनं निवासहेतुबहुगृहोपेतम्। सहस्रिणं सहस्रलक्षादिसंख्योपेतम्। वाजिनं भोज्यान्नसमृद्धम्।
अत्र विनियोगसंग्रहः -
“बर्हिस्त्रिभिरनूयाजान्मन्त्रयेत्सूक्तवाककम्।
अग्नेरित्यष्टभिर्वाजद्वाभ्यां व्यूहेत्स्रुचौ तथा॥१॥
एमाः स्वनामग्रहणे रोहीति प्रस्तरं त्रिभिः।
वि ते परिधिमोकं तु विष्णोः शं शंयुवाककम्॥२॥
त्रिभिः सोमादिसंयाजान्वेदो वेदिभिमर्शनम्।
अनुवाके चतुर्थेऽस्मिंस्त्रयोविंशतिरीरिताः”॥३॥ इति॥