पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः )।
अष्टमे यज्ञायुधसंभृतिरुक्ता। नवमे द्वादशद्वंद्वसंपत्तिरुच्यते। प्रथमं तावदा-नुष्ठातॄणां फलाधिक्याय वेदनविशेषविधिमुन्नेतुं प्रस्तौति – प्रजापतिरिति। अत्राग्निहोत्रपौर्णमास्यमावास्यायागा अल्पैर्द्रव्यमन्त्रक्रिया-विशेषैः साध्या अत एवाल्पफलाः। अग्निष्टोमोक्थ्यातिरात्रयागा बहुभिर्द्रव्य- मन्त्रक्रियाविशेषैः साध्या अत एवाधिकफलाः। तानुभयविधान्यज्ञान्प्रजापतिः सृष्ट्वा कनिष्ठपुत्रे पितेव कनीयःस्वग्निहोत्रादिष्वनुग्रहेण तुलया त्रीणि द्वंद्वान्युन्मितवान्। तदनुग्रहादग्निहोत्रादीनामग्नीष्टोमादिसमानि संपन्नानि।
वेदनविशेषविधिमुन्नयति- य एवं विद्वानिति। प्रजापत्यनुग्रहादग्निहोत्रादीनामग्निष्टोमादिसाम्यं जानतः समानफलत्वकथनात्फलाधिक्यायानुष्ठातृभिरग्निष्टोमादिसाम्यं भावयेदिति वि-धिरुन्नीयते। विद्यया युक्तस्य कर्मणः फलाधिक्यं छन्दोगा आमनन्ति - “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति” इति। लोकेऽपि राज्ञा ग्रामेषु प्रेरिते राजमुद्राधारिणि नीचे कस्मिंश्चिद्भृत्ये राजत्वमुपचरन्तीनां प्रजानां भृत्यचित्तप्रसादेन फलाधिक्यमुपलभामहे। काण्वैश्च बृहदारण्यकस्य पञ्चमाध्याये कानिचिदुपासनान्यथ संपद इति वाक्येनाऽऽम्नायते। स्वल्पे कर्मण्यधिककर्मत्वस्य मनसा संपादनं संपत्। एतदेवाभिप्रेत्य सर्वेषु स्मृतिपुराणागमेषु शालग्रामप्रतिमादौ विष्ण्वादिबुद्धिर्विहिता। तस्मादेतद्वाक्यमग्निहोत्रादावग्निष्टोमादिसंपादनविधिपरम्। यद्यपि पूर्वमीमांसायां द्वितीयाध्याये य एवं विद्वान्पौर्णमासीं यजत इत्यस्य विद्वद्वाक्यस्य विधायकत्वं निराकृत्यानुवादत्वमुक्तं तथाऽपि कर्मविधेरेव तत्र निराकरणात्संपद्बुद्धयुन्नीतो न कोऽपि विरोधः। भावनाविधिपरत्वे वाक्यमतेत्कर्मप्रकरणादुत्कृष्येतेति चेत्। उत्कृष्यतां नाम। अग्निचयनप्रकरणपठितानां मनश्चिदाद्युपास्तीनां प्रकरणोत्कर्षस्य व्यासेनैव निर्णीतत्वात्। अन्यपरस्या-न्यार्थत्वाद्दर्शपूर्णमासौ प्रशंसितुमत्र पाठोऽस्तु।
पुनरपि दर्शपूर्णमासौ प्रशंसति - परमेष्ठिनो वा इति। परमे पदे सत्यलोके तिष्ठतीति परमेष्ठी चतुर्मुखः। तस्य चाग्रे पूर्वस्मिन्कल्पे यजमानत्वेनावस्थितस्यैष यज्ञो दर्शपूर्णमासयज्ञः प्रवृत्तः। तेन चेश्वरार्पणबुद्ध्याऽनुष्ठितेन स यजमानः परमां काष्ठामिदं परमेष्ठित्वपदं प्राप्तवान्। प्रजापतिर्दक्षादिः। तं पूर्वस्मिञ्जन्मनि तेनोत्तमफलहेतुदर्शपूर्णमासो-पदेशेन निरवासाययत्तोषितवाननुष्ठानाय प्रेरितवान्वा। स च तस्मिञ्जन्मनि यजमानस्तेनानुष्ठानेन परमां काष्ठां दक्षत्वपदं प्राप्तवान्। एवमितरत्र योज्यम्। अत एव दर्शपूर्णमासयोः स्वर्गकामार्थत्वमाम्नातं मीमांसकैर्विचारितं च।
द्वंद्वसंपादनं विधातुं प्रस्तौति - यो वै प्रजातेनेति। प्रजातेनात्यन्तविस्तृतेन प्रजादिभिः विस्तृतो जायते। द्वादशमासोपेतसंवत्सरसाम्येन द्वादशद्वंद्वोपेतस्य यज्ञस्य प्रसृतत्वम्।
द्वंद्वानि विधत्ते - यत्सं चोपावसृजतीति। गां दोग्धुमध्वर्युरयक्ष्मा वः प्रजयेति मन्त्रेण वत्सं बन्धनान्मुञ्चेत्। क्षीरं श्रपयितुं मातरिश्वनो घर्म इति मन्त्रेणोखां गार्हपत्ये स्थापयेत्। अव रक्षो दिव इति शाखान्तरमन्त्रेण व्रीहीनवहन्यात्। इषमा वदेति मन्त्रेण पाषाणेन शम्यया वा पेषणार्थं दृषदुपले समाहन्यात्। देवस्य त्वेत्यादिमन्त्रेण पेषणाय दृषदि तण्डुलानधिवपेत्। ध्रुवमसीत्यादिभिर्मन्त्रैः पुरोडाशश्रपणायाग्नौ कपालान्युपदध्यात्। घर्मोऽसीति मन्त्रेण तेषु कपालेषु पुरोडाशमधिश्रयेत्। अग्निस्ते तेज इति मन्त्रेणाऽऽज्यमाहवनीयेऽधिश्रयेत्। चिकीर्षितवेदिस्थाने पृथिवि देवयजनीत्यादिभिर्मन्त्रैः स्तम्बयजुर्हरेत्। अररुस्ते दिवमिति मन्त्रेणाऽऽग्नीध्रोऽञ्जलिना सतृणपांसूनुत्करे प्रक्षिप्तानभिगृह्णीयात्। वसवस्त्वा परिगृह्णन्त्वित्यादिभिर्मन्त्रैर्वेदिं परिगृह्णीयात्। आशासानेति मन्त्रेण योक्त्रेण पत्नीं संनह्येत्। ऋतसधस्थेति शाखान्तरमन्त्रेण स्फ्यनिष्पादितायां लेखायां प्रोक्षणीरासादयेत्। अग्नेर्जिह्वाऽसीति मन्त्रेण स्फ्यलेखायामाज्यं सादयेत्।
विहितानि द्वंद्वानि प्रशस्योपसंहरति - एतानि वा इति। यद्यप्युक्तानां वत्सविमोकादीनां चतुर्दशत्वात्सप्तैवैतानि द्वंद्वानि तथाऽपि चकारैः पूर्वानुवाकोक्तेषु दशसु यज्ञायुधेषु समुच्चितेषु द्वादश संपद्यन्ते।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् -
एवं विद्वान्पौर्णमासीममावास्यामितीरितम्।
कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम्॥
कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता।
वार्त्रघ्नीत्यादितो लभ्याऽनुवादस्तु न युज्यते॥
वार्त्रघ्नीत्याज्यभागाङ्गव्यवस्थोक्तेर्न त्रिकं तथा।
अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम्।
सहस्थितिः पौर्णमास्यामित्यक्तिभ्यां त्रिके त्रिके॥
विद्वद्वाक्ये विधौ विध्यावृत्तिराग्नेय आदिना।
विहितस्य फलित्वेन प्राधान्यमितरे गुणाः॥
इदमाम्नायते - य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इति। अत्र यजतिना कर्मान्तरं विधीयते न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते। आग्नेयादयः कालसंयुक्तास्तत्प्रकरण एवाऽऽम्नाताः “यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति। “तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजति” इति। “ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्” इति। “ऐन्द्रं दध्यमावास्यायाम्” इति। “ऐन्द्रं पयोऽमावास्यायाम्” इति च। एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते। न च कर्मान्तरत्वे द्रव्यदेवतयोर-भावो ध्रौवादिसद्भावात्। अत एवोक्तम् -
“ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी।
रूपवन्तौ ततो यागौ विधीयेते पृथक्तया” इति।
“सर्वस्मै वा एतद्यज्ञाय गृह्यते। यद्ध्रुवायामाज्यम्” इति ध्रौवस्य साधारणत्वं श्रुतम्। देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् - “तस्माद्वार्त्रघ्नी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायाम्” इति। वार्त्रघ्न्यौ चर्चौ क्रमेण कालद्वयोपेते विधीयेते। तत्राग्निर्वृत्राणि जङ्घनदित्येको वार्त्रघ्नो मन्त्रः। त्वं सो-मासि सत्पतिस्त्वं राजोत वृत्रहेत्यपरः। तयोरुक्तावग्नीषोमौ पौर्णमासदेवता। एवमनन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावास्यादेवता। ताभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते। षड्यागानुवादत्वे तदनुवादेन विधेयान्तरस्य कस्याचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात्। न केवलं तदानर्थक्यं किंतु पौर्णमास्या पौर्णमास्यां यजेत, अमावास्यायाममावास्यया यजेतेत्येतदपि व्यर्थं स्यात्। न चैतत्कालविधायकं यदाग्नेय इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात्। कर्मान्तरत्वे तु कालं विधास्यति। तस्मात्कर्मान्तरमिधिरिति प्राप्ते ब्रूमः – आस्तां तावद्द्रव्यं, देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते। वार्त्रघ्न्योर्वृधन्वत्योश्चाऽऽज्यभागदेवताप्रतिपादकत्वात्। हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदप्रयाजमन्त्रांश्चाऽऽम्नाय प्रयाजानन्तरभाविनोराज्य-भागयोः क्रमेण वार्त्रघ्न्यौ वृधन्वत्यौ चाऽऽम्नाते। लिङ्गं चाग्निविषयं सोम-विषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते। यत्तु वार्त्रघ्नी पूर्णमास इत्यादिवाक्यं तल्लिङ्गक्रमकॢप्तयोराज्यभागाङ्गयोर्म-न्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे, न तु नूतनकर्माङ्गतां तयोर्विदधाति। अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति, किं तर्हि पूर्वप्र-कृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति। न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः। तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात्। न चानुवादो व्यर्थः। समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात्। तत्सिद्धौ च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते। यदप्युक्तमनुवादपक्षे पौर्णमास्यामित्यादिवाक्यवैयर्थ्यमिति, तदयुक्तम्। कालविधानासंभवेऽप्येकैकस्य त्रिकस्य सहप्रयोगविधानात्। आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सह प्रयोगः पौर्णमास्येत्येनेन तृतीयैकवचनान्तेन विधीयते। एवमितरत्रापि। ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वं, तस्य यागविधायकत्वाभ्युपगमात्। आग्नेयोऽष्टाकपाल इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानीति चेन्न। तथा सत्येकेन वाक्येकेनानेकगुण-विध्यसंभावात्। प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत। आग्नेयादिवा-क्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः। तस्मादा-ग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम्। किंचानुवादमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत्। तथा हि – समिधो यजत्याघारमाघारयतीत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः। यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चेत्यादयः कालयुक्ता अपरे। तेषामुभयेषां प्रकृतत्वाद्दर्शपूणमासाभ्यां स्वर्गकामो यजेतेति वाक्येन सर्वेषां फलसंबन्धो बोधनीयः। दर्शपूर्णमासाभ्यामिति द्विवचनं बहुवचनत्वेन परिणेतव्याम्। विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेत्येतेषु द्वित्वासंभवात्। सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात्। तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात्। अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात्समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम्। प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः। तस्माद्विद्वद्वाक्यमनुवादकम्।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-
दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः।
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते॥
उत्पत्तिचोदनासिद्धे आश्रित्य विधिभावने।
फलसंयोगबोधेन भवेदेष फले विधिः॥
इदमाम्नायते – “एकस्मै वा अन्या इष्टयः कामायाऽऽह्रियन्ते सर्वेभ्यो दर्श-पूर्णमासौ” इति। “एकस्मै वा अन्ये यज्ञक्रतवः। कामायाऽऽह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः” इति। तत्र सर्वेभ्य इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः। विधायकस्य लिङादेर्भावनावाचिन आख्यातस्य चाभावात्। अनुवादस्तु भविष्यति, सर्वकामानां प्राप्तत्वात्। न च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरमिति वाच्यम्। अङ्गोपाङ्गकामानामपि प्राप्तत्वात्। सामिधेन्यो दर्शपूर्णमासयोरङ्गम्। तत्र कामाः श्रूयन्ते – “एकविशतिमनुब्रूयात्प्रतिष्ठाकामस्य” “चतुर्विशतिमनुब्रूयात्प्रतिष्ठाकामस्य” इति। तथा सांनाय्ययागस्य दोहनमङ्गं, तत्साधनं वत्सापाकरणमुपाङ्गं, तत्र पलाशशाखाहरणे काम आम्नातः – “यं कामयेत पशुमान्त्स्यादिति। बहुपर्णां तस्मै बहुशाखामाहरेत्। पशुमन्तमेवैनं करोति” इति। त एते सर्वे कामा अनूद्यन्त इति प्राप्ते ब्रूमः – मा भूतामस्मिन्वाक्ये विधिभावने। तथाऽ-ऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते। तस्मादेष फले विधिः।
तृतीयाध्यायस्याष्टमे पादे चिन्तितम् –
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयेदिति।
द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा।
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात्।
महाकाण्डोक्तितोऽन्योऽस्तु द्वंद्वतैवात्र कीर्त्यते॥
दर्शपूर्णमासयोर्याजमानकाण्डे श्रूयते – द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानीत्याहुर्वत्सं चोपावसृजत्युखां चाधिश्रयत्यव च हन्ति दृषदौ च समाहन्तीत्यादि। तत्र गां दोग्धुं वत्सोपसर्जनमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनपरं कर्म। तदेतदुभयं द्वंद्वम्। तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघात इत्येतदुभयं द्वितीयं द्वन्द्वम्। एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्यत्राऽऽम्नातानि। तेषां याजमानकाण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानीति प्राप्ते ब्रूमः – यजमानस्य यानि कार्याणि तान्य-नुष्ठातुमेव परिक्रीता ऋत्विजः। किंच यजुर्वेदे याजमानमिदमवान्तरकाण्डं, महाकाण्डं, त्वाध्वर्यवमेव। तत्रैते वत्सापाकरणादयो धर्मा आम्नाताः। तस्मादध्वर्युरेव ताननुतिष्ठेत्। याजमाने तु काण्डे न तेषामनुष्ठानप्रकारश्चोदितः किंतु परिगणनया द्वंद्वसंपादनमात्रमेवाऽऽम्नातम्। तेन यजमानस्तामानुपूर्वीं मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति। तस्मादध्वर्योरेवानुष्ठानम्॥