पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयानुवाके हविरनुमन्त्रणमुक्तम्। तृतीयानुवाके भक्षस्येडादिभागस्या-नुमन्त्रणमुच्यते।
अग्निर्मेति। कल्पः - “प्राशित्रेऽवदीयमाने जपति अग्निर्मा दुरिष्टात्पातु सविताऽघश सादिति” इति।
मन्त्रवैकल्येन क्रियावैकल्येन वा यदिष्टं दुरिष्टं तत्तस्माद्दुरिष्टादग्निर्मां पातु। अघशंसात्पापरुचेरसुरादेः सविता मां पातु।
यो मेऽन्तीति। कल्पः - “यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमिति” इति।
यजमानभाग इत्यस्यावदीयमाने जपतीति शेषोऽनुवर्तते। यो राक्षसादिर्म-मान्तिके दूरे वाऽरातीयति शत्रुत्वमिच्छति तं राक्षसादिकमेतेन यजमानभागेन जेषं जयेयम्।
कल्पः - “इडामाह्रियमाणामनुमन्त्रयते सुरूपवर्षवर्ण एहीति मघोनीत्यन्तः” इति।
सुरूपेति मन्त्रादिः। मघोनीति मन्त्रान्तः।
पाठस्तु- सुरूपवर्षेति। गोशरीरं (रस्य) धारयित्र्या इडाख्याया देवतायाः संबोधनं सुरूपवर्षवर्ण इति। शृङ्गपुच्छादिकं रूपम्। वर्षं वृर्ष्टिः। वर्णः शुक्लकृष्णकपिलत्वादिः। शोभना रूपवर्षवर्णा यस्याः सा तथोक्ता। शृङ्गादीनामतिदीर्घत्ववक्रत्वादिपरिहारेण दर्शनीयत्वं रूपस्य शोभनत्वम्। वर्षं द्विविधमुदकरूपं च। तत्रेडा स्वकीयात्पदाद्घृतं वर्षति। तथा च मन्त्र आम्नायते - “इडायाः पदे घृतवति स्वाहा” इति। “मानवी घृतपदी मैत्रवरुणी” इति। “इडायाः पदं घृतवच्चराचरम्” इति च। तथा ब्राह्मणमप्याम्नायते – “सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति। वृष्टिर्वा इडा वृष्ट्यै वै निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्ति” इति च। तदिदं घृतरूपत्वं वर्षस्य शोभनत्वम्। कर्बुरादिसंकीर्णत्वपरिहारेण विस्पष्टं शुक्लकृष्णकपिलत्वादिकं वर्णस्य शोभनत्वम्। तथाविधे हे इडे, इमानस्म-दीयान्भद्राञ्शास्त्रोक्तयज्ञसाधनसंपूर्णान्दुर्यान्यज्ञगृहान्प्रत्यागच्छ। ‘गृहा वै दुर्याः’ इति हि श्रूयते। किंच मामभिल-क्ष्यानुव्रताऽस्मिन्यज्ञव्रतेऽनुकूला सती, एहि आगच्छ। उशब्दः समुच्चये। अपि च हे इडाविशेषा यूयमस्मदीयानि शिरांसि निमृड्ढ्वं नितरां स्नेहपूर्वकाघ्राणा-दिना शोधयध्यम्। त एवेडाविशेषा इडादिभिः सूनर्यन्तैः षड्भिर्नामविशेषैः स्पष्टी क्रियन्ते। इडादीनां गोनामविशेषत्वं सप्तमकाण्डे समाम्नातम् – ‘इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्निये नामानि’ (सं॰ का॰ ७ प्र॰ १ अ॰ ६) इति।
एतेषां प्रदर्शनार्थत्वाद्रमत्यादिकमपि द्रष्टव्यम्। हे जुष्टे प्रिये सेव्ये वा ते जुष्टिं त्वदीयां प्रीतिमशीय प्राप्नुयाम्। हे उपहूत इड एहीत्येवमागमनायास्माभिर-नुज्ञातेऽहमपि त उपहवं त्वदीयामनुज्ञामशीय प्राप्नुयाम्। अस्य यज्ञस्य येय-माशीः फलप्रार्थना सा मे सत्या भूयात्। अरेडताऽनादरमकुर्वता मनसा तत्फलं साधियतुं शकेयं त्वत्प्रसादाच्छक्तो भूयासम्। मयाऽनुष्ठितोऽयं यज्ञो निःश्रेणीमिव क्रमेण दिवमारोहतु। केनापि वैकल्यप्रतिबन्धेन भ्रंशो यज्ञस्यानारोहणं, भ्रंशाभावे तु यज्ञ आरोहत्येव। आरुह्य च यस्यां दिवि यज्ञहविर्भाजो निवसन्ति तां दिवं स्वर्गप्रदेशविशेषं गच्छतु। तस्मिन्प्रदेशे गत्वा सभायामुपविष्टा देवा येन मार्गेण हविर्भोजनशालां गच्छन्ति तेनैव मार्गेणायं यज्ञो यज्ञसंबद्धहविर्देवानप्येतु प्राप्नोतु। तेन यज्ञेन तुष्ट इन्द्रोऽस्मास्विन्द्रियं यज्ञान्तरानुष्ठानाय चक्षुरादिपाटवं दधातु स्थापयतु। तादृशानस्मान्रायो यज्ञसाधनानि धनानि यज्ञा उत करिष्यमाणा यज्ञा अपि सचन्तमाश्रयन्तम्। आशिषस्तद्यज्ञफलान्यस्मासु सन्तु। सा तादृशी त्वं नोऽस्मान्प्रति सुप्रतूर्तिः सुष्ठु प्रकर्षेण शत्रूणां हिंसिका मघोनी धनवती च भव।
जुष्टिरसीति। कल्पः - “अवान्तरेडा प्राश्यमानामनुमन्त्रयते जुष्टिरसि जुषस्व नो जुष्टा नोऽसि जुष्टिं ते गमेयमिति” इति।
हेऽवान्तरेडे त्वं जुष्टिरसि प्रीतिरूपाऽसि। नोऽस्माञ्जुषस्व प्रीणय। नोऽस्माभिर्जुष्टाऽसि सेविताऽसि। ते जुष्टिं त्वदीयां प्रीतिं गमेयं प्राप्नुयाम्।
मनो ज्योतिरिति। कल्पः - “अथान्तर्वेद्यद्भिर्मार्जयते मनो ज्योतिर्जुषता-माज्यं विच्छिन्नं यज्ञ समिमं दधातु। बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति” इति। मनो ज्योतिर्मननीयोऽयमग्निस्तत्तदाहुतिष्वाज्यं सेवताम्। केनापि वैकल्येन विच्छिन्नमिमं यज्ञं वैकल्यपरिहारेण संदधातु। बृहस्पतिः स्वयमेव नोऽस्मदीयमिमं यज्ञ तनुताम्। विश्वे देवा इड यज्ञे मादयन्तां तृप्यन्तु।
ब्रध्न पिन्वस्वेति। कल्पः - ‘बर्हिषदं पुरोडाशमनुमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसदिति’ इति।
यज्ञपुरुषवाची ब्रध्नशब्दः। ‘यज्ञो वै ब्रध्नः’ इति श्रुतेः हे ब्रध्न पिन्वस्वास्मानृत्विजश्च प्रीणय। ददतो धनं प्रयच्छतो मम देयं धनं मा क्षीयतामपि तूपचीयताम्। यागं कुर्वतो मम सामर्थ्य मोपदसन्मोपक्षीयतामपि तु पुनः पुनर्वर्धताम्।
प्रजापतेरिति। कल्पः - ‘अथान्वाहार्यं याचति तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वाप्राणापानौ मे पाहि समानव्यानौ मे पाह्यु-दानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिँल्लोक इति’ इति।
यद्यप्यन्वाहार्य ऋत्विजां भागस्तथाऽपि तेन प्रजापतेः परितोषात्तद्भागत्वम-प्यविरुद्धम्। स च भाग ऊर्जस्वान्बलवान्। तद्भोजिनां बलप्रदत्वात्। पय-स्वान्क्षीरवत्स्वादुतमः। यद्वा क्षीरं पच्यमानत्वात्पयस्वान्। अत एव सूत्रकार आह – ‘क्षीरे भवतीत्येक’ इति। हेऽन्वाहार्य त्वं शरीरगतान्प्राणादिवायुभेदा-न्पाहि। एक एव वायुः शरीरगतः शरीरगतः स्थानभेदात्कार्यभेदाच्च प्राणादिनामभिर्भिद्यते।
स्थानभेद कैश्चिदुक्तः —
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः” इति।
उच्छ्वासनिःश्वासौ प्राणव्यापारः। मलमूत्रयोरधःपातनमपानव्यापारः। भुक्तस्यान्नरसस्य शरीरे साम्येन नयनं समानव्यापारः। उद्गारादिरुदानव्यापारः। कृत्स्नासु शरीरनाडीषु व्याप्य प्राणापानवृत्योः संधिकाले शरीरस्य बलप्रदानं व्यानव्यापारः। अत एव च्छन्दोगा आमनन्ति – ‘यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः सा वाक्तस्मादप्राणन्ननपानन्वाचमभिव्याहरति। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपान-स्तानि करोति’ इति। एवं बहुविधव्यापारहेतुत्वात्प्राधान्यं द्योतयितुं व्यानस्य द्विरुक्तिः। यद्वा नागकूर्मादिवायुविशेषाणामत्रान्तर्भामभिप्रेत्य पुनरप्युक्तिः। हेऽन्वाहार्य त्वमक्षितोऽक्षीणोऽसि। अपरिमितो निरुप्य इति ब्राह्मणोक्तेर्दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचतीति सूत्र-कारोक्तेश्च। तस्मात्परलोकेऽप्यक्षित्यै त्वां ददामीति शेषः। तेनाभिप्रायेण दीयमानत्वादमुत्र परलोके मम भोगाय मा क्षेष्ठाः क्षयं मा प्राप्नुहि। तस्माद-हमप्यमुष्मिँल्लोके त्वां यथेच्छमनुभवामीति शेषः।
अत्र विनियोसंग्रहः —
“अग्निः प्राशित्रावदानं यो मेऽन्ति स्वामिभागकम्।
इडाद्वयं सुरूपेति जुष्टिरित्यनुमन्त्रयेत्॥१॥
मनोऽद्भिर्मार्जनं ब्रध्न पुरोडाशं प्रजायतेः।
अन्वाहार्यं मन्त्रयेत मन्त्राः सप्तेह वर्णिताः॥२॥” इति॥