पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके एकादशोऽनुवाकः )।
दशमे हविःसादनं विहितम्। एकादशे त्वाश्रावणादिमन्त्राः प्राधान्येन विधी-यन्ते। तेषां पञ्चमन्त्राणामुत्पत्तिं विधातुं प्रस्तौति -
यो वै सप्तेति। अयं मन्त्रसंघः सप्तदशाक्षरोपेतत्वात्प्रजापतिसृष्टत्वाच्च सप्तदशः प्रजापतिरित्यभिधीयते। स च यज्ञमन्वायत्तः सर्वयज्ञेष्वनुगत-स्तद्विद्यजमानः संपूर्णेन यज्ञेन प्रतिष्ठितो भवति। वैकल्याभावाच्चायं यज्ञान्न भ्रष्टो भवित।
मन्त्रानुत्पादयति - आ श्रावयेति। एतेषु पञ्चसु मन्त्रेष्वाद्यस्य मन्त्रत्रयस्य विनियोगमापस्त-म्बोऽध्वर्युकाण्डे दर्शयति — “ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीति ब्रह्माणमामन्त्र्याऽऽश्रावयोश्रावय श्रावयोमाश्रावयेति वा श्रावयत्यस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्फ्य संप्रमार्गाश्च धारयन्प्रत्यश्रावयति” इति। “अवद्यम्नमुष्मा अनुब्रूहीति पुरोनुवाक्यां संप्रेष्य-त्यवदायावदाय स्रुवेण प्रस्तरबर्हिः संमृज्य जुहूपभृतावादाय दक्षिणाऽतिक्र-म्याऽऽश्राव्य प्रत्याश्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम्” इति (च)। आश्रावयेत्ययमेव पाठोऽत्रत्यः। ओश्रावयेति श्रावयेति ओमाश्रावयेति च त्रयं शाखान्तरीयम्। हे आग्नीध्र यक्ष्यमाणदेवतां प्रति तुभ्यमिदं दीयत इत्याभिमुख्येन श्रावयेत्यध्वर्युणोक्ते सति स आग्नीध्रोऽस्वित्यङ्गीकृत्य श्रौषडिति शब्देन श्रावयति। हे देवास्त्व (युष्म) द्विषयमिदं हविर्दानं शृणुतेत्यर्थः। हे होतर्यज याज्यां पठेत्यर्थः। इतरस्य तु मन्त्रद्वयस्य विनियोगमाश्वलायनो होतृकाण्डे दर्शयति — “आगूर्याज्यादिरज्यादिरनुयाजवर्जं ये यजामह इत्यागुर्वषट्कारोऽन्त्यः सर्वत्रः” इति। ये वयं होतारोऽध्वर्युणा यजेति प्रेषितास्ते वयं यजामहे याज्यां पठामः। वषट्कारशब्देन वौषडित्येवंरूपो मन्त्रो विवक्षितः। तं चाऽऽश्वलायन उदाहृत्य दर्शयति — “ये यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू वौषळिति वषट्कार इति” इति। हविर्दीयत इति तस्य शब्दस्यार्थः।
एतेषां पञ्चमन्त्राणां महिमानं वक्तुं प्रस्तौति - यो वै यज्ञस्येति। प्रायणं प्रारम्भः। प्रतिष्ठा मध्यकालवर्त्यनुष्ठानम्। उदयनं सपाप्तिः। यो यजमानो यज्ञस्य मुख्यं प्रारम्भादित्रयं वेद तदीयो यज्ञः प्रतिष्ठितः साङ्गोऽरिष्टो वैकल्यरहितस्तादृशेन यज्ञेन संस्थां फलपर्यन्ततां प्राप्नोति। मन्त्रमहिमानं वक्ति - आ श्रावयेति। आद्यो मन्त्रो मुख्यः प्रारम्भः। मन्त्रत्रयं प्रतिष्ठा। अन्त्य उदयनम्। देवतोद्दशेन द्रव्यात्यागरूपस्य यागशरीरगतस्येतैरेव मन्त्रैर्निष्पन्नत्वादवशिष्टानि प्राच्यान्युदीच्यानि शरीरगतवस्त्रालंकारस्थानीयानि।
प्रकारान्तरेण महिमानं वक्तुं प्रस्तौति - यो वा इति। सूनृता समीचीना वाक्। सम्यक्त्वं च तस्याः सत्यप्रियरूपत्वम्।
अत एव स्मार्यते —
“सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः” इति।
सा च कामधेनुवत्परितोषहेतुत्वाद्गोत्वेनात्र विवक्षिता। तस्याश्च दोहनप्रकारं यो यजमानो वेद सोऽवश्यमेनां दुग्धे।
काऽसावत्र सूनृता को वा तद्देहनप्रकार इत्याशङ्क्य तदुभयं दर्शयन्मन्त्र-महिमानं वक्ति - यज्ञो वा इति। लोके हि धोक्ष्यमाणाया गोराभिमुख्याय किमपि भक्ष्यं दातुं सांकेतिकेन नाम्ना तामाह्वयन्ति। अत एव प्रवर्ग्यब्राह्मणे धर्मदुह आह्वान-मेवनाम्नायते — “इड एह्यदित एहि सरस्वत्येहीत्याह। एतानि वा अस्यै देवनामानि। देवनामैरेवैनामाह्वयति। असावेह्यसावेह्यसावेहीत्याह। एतानि वा अस्यै मनुष्यनामानि। मनुष्यनामैरेवैनामाह्वयति” इति। तद्वदत्राप्याश्रावयेति मन्त्रपाठेनैवैनां सुनृतामाह्वयति। अस्तु श्रौषडिति पाठेनोपावास्राग्वत्समुपावसृजति। यजेति पाठेनोदनैषीद्दोहनपात्रमुन्नयति। ये यजामह इति पाठेनोपासदद्दोग्धा प्रत्यासीदति। वौषडिति पाठेन दोग्धि। अत्र रूपकत्वेन परिकल्पनामन्त्राणां तत्तदर्थवाचकत्वं नापेक्षितम्।
सामर्थ्यान्तरकल्पनया पुनर्महिमानं वक्ति - देवा वा इति। सत्रमासीनानां देवानां केनापि वैकल्येन वृष्ट्यभावाद्दिशोऽ-दस्यन्नानादिग्गतानि सस्यानि शोषणेनोपक्षीणानि। तत्परिहाराय देवा आर्द्रां वृष्टिहेतुभूतामेतां पङ्क्तिं मन्त्रपञ्चकमपश्यन्। स्पष्टमन्यत्।
पुनरपि प्रकारान्तरेण मन्त्रमहिमानं दर्शयितुं प्रस्तौति - प्रजापतिमिति। त्वशब्दः सर्वनामगणे पठित एकशब्दपर्यायः। अत एव संप्रदायविद उत त्वः पश्यन्न ददर्श वाचमित्यृचमेवं व्याचक्षते – अप्येकः पश्यन्न पश्यतीति। सप्तदशाक्षररूपमेनं प्रजापतिमेको यजमानो वक्ष्यमाणमहिमोपेतं वेद। स च प्रजापतिर्ज्ञातारं तमेकं यजमानं वेद जानात्यनुगृह्णाति। यमनुगृह्णाति सोऽन्येभ्यो यजमानेभ्यः पुण्यादुत्कृष्टो भवति।
तन्महिमानं दर्शयति - एष वा इति। एषोऽक्षररूपः प्रजारतिश्छन्दस्यः, छन्दःसु वेदेषु सारत्वेन निष्पन्नः। अत एव तृतीयकाण्डे समाम्नायते — “एतद्वै छन्दसां वीर्यमा श्रावयास्तु श्रौषड्यज ये यजामहे वषट्कारः” इति। य एवं प्रजापतिं छन्दःसारं वेद स उत्कृष्टो भवति। त्वोवेद त्वंवेदेत्यत्रोभयत्रैकपद्यं सांप्रदायिकम्।
द्वितीयानुवाकोक्तानां प्रयाजानुमन्त्रणमन्त्राणां रूपकल्पनया तात्पर्यं व्याचष्टे – वसन्तमिति। ऋतुदेवतास्तत्कल्पनया प्रीयन्ते। प्रीताश्चास्मै यजमानाय यथापूर्वं कल्पन्तेऽविपर्यासेन प्रवर्तन्ते स्वस्वकालोचितपुष्पोद्भवसंतापवृष्ट्या-दिलक्षणयुक्ता भवन्ति। वेदितुरपि तदेव फलम्।
आज्यभागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। चक्षुषी वा एते यज्ञस्य यदाज्याभागावित्यस्मिन्ननुवाके यज्ञचक्षुष्ट्वमाज्यभागयोः सम्यक्प्रतिपादितम्। अतस्तदीयदेवताभ्यां यज्ञस्य चक्षुष्मत्त्वं यजमानस्य तत्पलं चोच्यते।
आग्नेययागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नेरहमिति। अन्नादो बह्वाशी न त्वन्यदेववदल्पाशी।
उपांशुयाजानुमन्त्रणमन्त्रं व्याचष्टे - दब्धिरसीति। एतयोपांशुयाजरूपया दब्धया वैरिघातिन्या हेत्यादभ्नुवन्हिं- सितवन्तः।
पौर्णमासीगतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। वृत्रनामकोऽसुरोऽग्नीषोमौ देवौ दन्तैः संदष्टवान्। तौ निःसारयितुमिन्द्रः शीतज्वरसंतापौ वृत्रे प्रयुज्य जञ्जभ्यमानाद्वृत्रात्तौ निःसार्य वृत्रं हतवानिति द्वितायकाण्डे स्पष्टी भविष्याति। स्तृणुते हिनस्ति। अमावास्यागतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्राग्नियोरिति।
सांनाय्यानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्रस्येति।
गतश्रियां राजन्यादीनां सांनाय्यनुमन्त्रणमन्त्रं व्याचष्टे - महेन्द्रस्येति।
स्विष्टकृदनुमन्त्रणमन्त्रं व्याचष्टे - अग्नेः स्विष्टकृत इति।
दशमाध्यायस्याष्टमे पादे चिन्तितम् -
नाऽऽर्षेयं न च होतारं नानूयाजेष्वितीदृशः।
विकल्पः पर्युदासो वा स्यादाद्यो वचनद्वायात्॥
अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः।
नेत्यनूयाजधातुस्थस्तदर्थं पर्युदस्यति॥
महापितृयज्ञे चोदकप्राप्तं वरणं प्रत्येवं श्रूयते — “नाऽऽर्षेयं वृणीते। न होतारम्” इति। तथाऽनारभ्यवादे श्रूयते — “आ श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः” इति। तथोक्तम् — “नानूयाजेषु येयजामहं करोति” इति। तत्र वरणस्य विधिप्रतिषेधौ चोदकप्रत्यक्षवचनाभ्यां प्रतीयेते। ये यजामह इति मन्त्रस्य तु द्वाभ्यां प्रत्यक्षवचनाभ्यां विधिप्रतिषेधप्रतीतिः। तत्र विधायकप्रतिषेधकयोर्द्वयोः प्रमाणयोरवैयर्थ्याय विकल्प इति प्राप्ते ब्रूमः — अष्टदोषग्रस्तत्वाद्विकल्पो न न्याय्यः। ननु परस्परविरुद्धयोर्विधिनिषेधयोः समुच्चयस्याप्यसंभवात्का गतिरत्रेति चेदुच्यते– निषेधत्वेन प्रतीयमानमिदं नेत्यनेन शब्देनोपेतं वाक्यं विधिवाक्यस्य शेषो भविष्यति। तथा हि - यदि नेत्ययं शब्दः करोतिना संबध्येत तदा येयजामहं न करोतीत्येवं प्रतिषेधः स्यात्। यदि च वृणीत इत्येवाऽऽख्यातप्रत्ययेन संबध्येत तदा वरणं न कर्तव्यमिति निषिध्येत न चैवं संबध्यते, किं त्वानूयाजपदेन वृञ्धातुना च संबध्यते। तथा सत्यनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यः। वरणव्यतिरिक्तमङ्गजातमनुष्ठेयमित्यनूयाजवरणपर्युदासेन विधेरेव विशेषितत्वे सति प्रतिषेधवाक्यस्य कस्यचिदभावान्न विकल्पः शङ्कितुमपि शक्यः॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इन्द्रेणेन्द्रियावी, अग्निनान्नादश्च भवति । 'बहुलं छन्दसि' इति विनिः, 'अन्येभ्योपि दृश्यते' इति दीर्घत्वम् ॥