अनुवाकः 11 TS 1.6.11

(A11)

तेनै॒वे-न्द्र॑स्या॒-ऽष्टात्रिꣳ॑शच्च)

अनुवाकः 11 - Complete Audio

TS 1.6.11 - स्वरानुगामी

0:00 0:00
PS1.1 यो वै स॑प्तद॒शं प्र॒जाप॑तिं
PS1.2 ॅय॒ज्ञ्म॒न्वाय॑त्तं॒ ॅवेद॒ प्रति॑ य॒ज्ञेन॑
PS1.3 तिष्ठति॒ न य॒ज्ञाद् भ्रꣳ॑शत॒
PS1.4 आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒
PS1.5 चतु॑रक्षरं॒ ॅयजेति॒ द्व्य॑क्षरं॒ ॅये
PS1.6 यजा॑मह॒ इति॒ पञ्चा᳚क्षरं द्व्यक्ष॒रो
PS1.7 व॑षट्का॒र ए॒ष वै स॑प्तद॒शः
PS1.8 प्र॒जाप॑तिर् य॒ज्ञ्म॒न्वाय॑त्तो॒ य ए॒वं
PS1.9 ॅवेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒
PS1.10 न य॒ज्ञाद्- भ्रꣳ॑शते॒ यो
PS1.11 वै य॒ज्ञ्स्य॒ प्राय॑णं प्रति॒ष्ठा
PS1.12 -[ ]
PS2.1 मु॒दय॑नं॒ ॅवेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑
PS2.2 सꣳ॒॒स्थां ग॑च्छ॒त्याश्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये
PS2.3 यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञ्स्य॒
PS2.4 प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ ॅय ए॒वं
PS2.5 ॅवेद॒ प्रति॑ष्ठिते॒नाऽरि॑ष्टेन य॒ज्ञेन॑ सꣳ॒॒स्थां
PS2.6 ग॑च्छति॒ यो वै सू॒नृता॑यै॒
PS2.7 दोहं॒ ॅवेद॑ दु॒ह ए॒वैनां᳚
PS2.8 ॅय॒ज्ञो वै सू॒नृता ऽऽ
PS2.9 श्रा॑व॒येत्यैवैना॑-मह्व॒दस्तु॒ - [ ]
PS3.1 श्रौष॒डित्यु॒पावा᳚स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑ऽसदद् वषट्का॒रेण॑
PS3.2 दोग्द्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒
PS3.3 य ए॒वं ॅवेद॑ दु॒ह
PS3.4 ए॒वैनां᳚ दे॒वा वै स॒त्रमा॑सत॒
PS3.5 तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना
PS3.6 श्रा॑व॒येति॑ पुरोवा॒त-म॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒भ्रꣳ सम॑प्लावय॒न्॒.
PS3.7 यजेति॑ वि॒द्युत॑ - [
PS3.8 ]
PS4.1 मजनय॒न्॒. ये यजा॑मह॒ इति॒
PS4.2 प्राव॑र्.षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै
PS4.3 तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य
PS4.4 ए॒वं ॅवेद॒ प्रास्मै॒ दिशः॑
PS4.5 प्यायन्ते प्र॒जाप॑तिं त्वो॒वेद॑ प्र॒जाप॑ति
PS4.6 स्त्वंॅवेद॒ यं प्र॒जाप॑ति॒र् वेद॒
PS4.7 स पुण्यो॑ भवत्ये॒ष वै
PS4.8 छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒याऽस्तु॒ श्रौष॒ड्यज॒
PS4.9 ये यजा॑महे वषट्का॒रो य
PS4.10 ए॒वं ॅवेद॒ पुण्यो॑ भवति
PS4.11 वस॒न्त - [ ]
PS5.1 मृ॑तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा
PS5.2 ऋ॒तूने॒व प्री॑णाति॒ ते᳚ऽस्मै प्री॒ता
PS5.3 य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒
PS5.4 य ए॒वं ॅवेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒
PS5.5 चक्षु॑ष्मान् भूयास॒मित्या॑-हा॒ग्नीषोमा᳚भ्यां॒ वै य॒ज्ञ्श्चक्षु॑ष्मा॒न्
PS5.6 ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ ऽग्नेर॒हं
PS5.7 दे॑वय॒ज्यया᳚ऽन्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्ते नै॒
PS5.8 वा - [ ]
PS6.1 ऽन्नाद्य॑-मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं
PS6.2 द॑भेय॒मित्या॑है॒तया॒ वै दब्द्ध्या॑ दे॒वा
PS6.3 असु॑रानदभ्नुव॒न्तयै॒व भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑
PS6.4 वृत्र॒हा भू॑यास॒मित्या॑हा॒ऽग्नीषोमा᳚भ्यां॒ ॅवा इन्द्रो॑
PS6.5 वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यꣳ स्तृणुत इन्द्राग्नि॒योर॒हं
PS6.6 दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्या॒ -
PS6.7 [ ]
PS7.1 ऽहं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति
PS7.2 महे॒न्द्रस्या॒ऽहं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑
PS7.3 गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः
PS7.4 स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑
PS7.5 प्रति॒ष्ठां ग॑मेय॒मित्या॒-हायु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑
PS7.6 य॒ज्ञेन॑ -तिष्ठति
PS7.7 ( प्र॒ति॒ष्ठा-म॑ह्व॒दस्तु॑-वि॒द्युतं॑-ॅवस॒न्तं-

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.6.11.1 TS 1.6.11.1
यो वै स॑प्तद॒शं प्र॒जाप॑तिं ॅय॒ज्ञ्म॒न्वाय॑त्तं॒ ॅवेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्रꣳ॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒ ॅयजेति॒ द्व्य॑क्षरं॒ ॅये यजा॑मह॒ इति॒ पञ्चा᳚क्षरं द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः प्र॒जाप॑तिर् य॒ज्ञ्म॒न्वाय॑त्तो॒ य ए॒वं ॅवेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्- भ्रꣳ॑शते॒ यो वै य॒ज्ञ्स्य॒ प्राय॑णं प्रति॒ष्ठा -[ ]
पदपाठः (Word-by-word)
यः । वै । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । य॒ज्ञ्म् । अ॒न्वाय॑त्त॒मित्य॑नु - आय॑त्तम् । वेद॑ । प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ । न । य॒ज्ञात् । भ्रꣳ॒॒श॒ते॒ । एति॑ । श्रा॒व॒य॒ । इति॑ । चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् । अस्तु॑ । श्रौष॑ट् । इति॑ । चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् । यज॑ । इति॑ । द्व्य॑क्षर॒मिति॒ द्वि - अ॒क्ष॒र॒म् । ये । यजा॑महे । इति॑ । पञ्चा᳚क्षर॒मिति॒ पञ्च॑ - अ॒क्ष॒र॒म् । द्व्य॒क्ष॒र इति॑ द्वि - अ॒क्ष॒रः । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ए॒षः । वै । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्म् । अ॒न्वाय॑त्त॒ इत्य॑नु-आय॑त्तः । यः । ए॒वम् । वेद॑ । प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ । न । य॒ज्ञात् । भ्रꣳ॒॒श॒ते॒ । यः । वै । य॒ज्ञ्स्य॑ । प्राय॑ण॒मिति॑ प्र - अय॑नम् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे षष्ठप्रपाठके एकादशोऽनुवाकः )।

दशमे हविःसादनं विहितम्। एकादशे त्वाश्रावणादिमन्त्राः प्राधान्येन विधी-यन्ते। तेषां पञ्चमन्त्राणामुत्पत्तिं विधातुं प्रस्तौति -

यो वै सप्तेति। अयं मन्त्रसंघः सप्तदशाक्षरोपेतत्वात्प्रजापतिसृष्टत्वाच्च सप्तदशः प्रजापतिरित्यभिधीयते। स च यज्ञमन्वायत्तः सर्वयज्ञेष्वनुगत-स्तद्विद्यजमानः संपूर्णेन यज्ञेन प्रतिष्ठितो भवति। वैकल्याभावाच्चायं यज्ञान्न भ्रष्टो भवित।

मन्त्रानुत्पादयति - आ श्रावयेति। एतेषु पञ्चसु मन्त्रेष्वाद्यस्य मन्त्रत्रयस्य विनियोगमापस्त-म्बोऽध्वर्युकाण्डे दर्शयति — “ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीति ब्रह्माणमामन्त्र्याऽऽश्रावयोश्रावय श्रावयोमाश्रावयेति वा श्रावयत्यस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्फ्य संप्रमार्गाश्च धारयन्प्रत्यश्रावयति” इति। “अवद्यम्नमुष्मा अनुब्रूहीति पुरोनुवाक्यां संप्रेष्य-त्यवदायावदाय स्रुवेण प्रस्तरबर्हिः संमृज्य जुहूपभृतावादाय दक्षिणाऽतिक्र-म्याऽऽश्राव्य प्रत्याश्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम्” इति (च)। आश्रावयेत्ययमेव पाठोऽत्रत्यः। ओश्रावयेति श्रावयेति ओमाश्रावयेति च त्रयं शाखान्तरीयम्। हे आग्नीध्र यक्ष्यमाणदेवतां प्रति तुभ्यमिदं दीयत इत्याभिमुख्येन श्रावयेत्यध्वर्युणोक्ते सति स आग्नीध्रोऽस्वित्यङ्गीकृत्य श्रौषडिति शब्देन श्रावयति। हे देवास्त्व (युष्म) द्विषयमिदं हविर्दानं शृणुतेत्यर्थः। हे होतर्यज याज्यां पठेत्यर्थः। इतरस्य तु मन्त्रद्वयस्य विनियोगमाश्वलायनो होतृकाण्डे दर्शयति — “आगूर्याज्यादिरज्यादिरनुयाजवर्जं ये यजामह इत्यागुर्वषट्कारोऽन्त्यः सर्वत्रः” इति। ये वयं होतारोऽध्वर्युणा यजेति प्रेषितास्ते वयं यजामहे याज्यां पठामः। वषट्कारशब्देन वौषडित्येवंरूपो मन्त्रो विवक्षितः। तं चाऽऽश्वलायन उदाहृत्य दर्शयति — “ये यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू वौषळिति वषट्कार इति” इति। हविर्दीयत इति तस्य शब्दस्यार्थः।

एतेषां पञ्चमन्त्राणां महिमानं वक्तुं प्रस्तौति - यो वै यज्ञस्येति। प्रायणं प्रारम्भः। प्रतिष्ठा मध्यकालवर्त्यनुष्ठानम्। उदयनं सपाप्तिः। यो यजमानो यज्ञस्य मुख्यं प्रारम्भादित्रयं वेद तदीयो यज्ञः प्रतिष्ठितः साङ्गोऽरिष्टो वैकल्यरहितस्तादृशेन यज्ञेन संस्थां फलपर्यन्ततां प्राप्नोति। मन्त्रमहिमानं वक्ति - आ श्रावयेति। आद्यो मन्त्रो मुख्यः प्रारम्भः। मन्त्रत्रयं प्रतिष्ठा। अन्त्य उदयनम्। देवतोद्दशेन द्रव्यात्यागरूपस्य यागशरीरगतस्येतैरेव मन्त्रैर्निष्पन्नत्वादवशिष्टानि प्राच्यान्युदीच्यानि शरीरगतवस्त्रालंकारस्थानीयानि।

प्रकारान्तरेण महिमानं वक्तुं प्रस्तौति - यो वा इति। सूनृता समीचीना वाक्। सम्यक्त्वं च तस्याः सत्यप्रियरूपत्वम्।

अत एव स्मार्यते —

“सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्।

प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः” इति।

सा च कामधेनुवत्परितोषहेतुत्वाद्गोत्वेनात्र विवक्षिता। तस्याश्च दोहनप्रकारं यो यजमानो वेद सोऽवश्यमेनां दुग्धे।

काऽसावत्र सूनृता को वा तद्देहनप्रकार इत्याशङ्क्य तदुभयं दर्शयन्मन्त्र-महिमानं वक्ति - यज्ञो वा इति। लोके हि धोक्ष्यमाणाया गोराभिमुख्याय किमपि भक्ष्यं दातुं सांकेतिकेन नाम्ना तामाह्वयन्ति। अत एव प्रवर्ग्यब्राह्मणे धर्मदुह आह्वान-मेवनाम्नायते — “इड एह्यदित एहि सरस्वत्येहीत्याह। एतानि वा अस्यै देवनामानि। देवनामैरेवैनामाह्वयति। असावेह्यसावेह्यसावेहीत्याह। एतानि वा अस्यै मनुष्यनामानि। मनुष्यनामैरेवैनामाह्वयति” इति। तद्वदत्राप्याश्रावयेति मन्त्रपाठेनैवैनां सुनृतामाह्वयति। अस्तु श्रौषडिति पाठेनोपावास्राग्वत्समुपावसृजति। यजेति पाठेनोदनैषीद्दोहनपात्रमुन्नयति। ये यजामह इति पाठेनोपासदद्दोग्धा प्रत्यासीदति। वौषडिति पाठेन दोग्धि। अत्र रूपकत्वेन परिकल्पनामन्त्राणां तत्तदर्थवाचकत्वं नापेक्षितम्।

सामर्थ्यान्तरकल्पनया पुनर्महिमानं वक्ति - देवा वा इति। सत्रमासीनानां देवानां केनापि वैकल्येन वृष्ट्यभावाद्दिशोऽ-दस्यन्नानादिग्गतानि सस्यानि शोषणेनोपक्षीणानि। तत्परिहाराय देवा आर्द्रां वृष्टिहेतुभूतामेतां पङ्क्तिं मन्त्रपञ्चकमपश्यन्। स्पष्टमन्यत्।

पुनरपि प्रकारान्तरेण मन्त्रमहिमानं दर्शयितुं प्रस्तौति - प्रजापतिमिति। त्वशब्दः सर्वनामगणे पठित एकशब्दपर्यायः। अत एव संप्रदायविद उत त्वः पश्यन्न ददर्श वाचमित्यृचमेवं व्याचक्षते – अप्येकः पश्यन्न पश्यतीति। सप्तदशाक्षररूपमेनं प्रजापतिमेको यजमानो वक्ष्यमाणमहिमोपेतं वेद। स च प्रजापतिर्ज्ञातारं तमेकं यजमानं वेद जानात्यनुगृह्णाति। यमनुगृह्णाति सोऽन्येभ्यो यजमानेभ्यः पुण्यादुत्कृष्टो भवति।

तन्महिमानं दर्शयति - एष वा इति। एषोऽक्षररूपः प्रजारतिश्छन्दस्यः, छन्दःसु वेदेषु सारत्वेन निष्पन्नः। अत एव तृतीयकाण्डे समाम्नायते — “एतद्वै छन्दसां वीर्यमा श्रावयास्तु श्रौषड्यज ये यजामहे वषट्कारः” इति। य एवं प्रजापतिं छन्दःसारं वेद स उत्कृष्टो भवति। त्वोवेद त्वंवेदेत्यत्रोभयत्रैकपद्यं सांप्रदायिकम्।

द्वितीयानुवाकोक्तानां प्रयाजानुमन्त्रणमन्त्राणां रूपकल्पनया तात्पर्यं व्याचष्टे – वसन्तमिति। ऋतुदेवतास्तत्कल्पनया प्रीयन्ते। प्रीताश्चास्मै यजमानाय यथापूर्वं कल्पन्तेऽविपर्यासेन प्रवर्तन्ते स्वस्वकालोचितपुष्पोद्भवसंतापवृष्ट्या-दिलक्षणयुक्ता भवन्ति। वेदितुरपि तदेव फलम्।

आज्यभागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। चक्षुषी वा एते यज्ञस्य यदाज्याभागावित्यस्मिन्ननुवाके यज्ञचक्षुष्ट्वमाज्यभागयोः सम्यक्प्रतिपादितम्। अतस्तदीयदेवताभ्यां यज्ञस्य चक्षुष्मत्त्वं यजमानस्य तत्पलं चोच्यते।

आग्नेययागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नेरहमिति। अन्नादो बह्वाशी न त्वन्यदेववदल्पाशी।

उपांशुयाजानुमन्त्रणमन्त्रं व्याचष्टे - दब्धिरसीति। एतयोपांशुयाजरूपया दब्धया वैरिघातिन्या हेत्यादभ्नुवन्हिं- सितवन्तः।

पौर्णमासीगतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। वृत्रनामकोऽसुरोऽग्नीषोमौ देवौ दन्तैः संदष्टवान्। तौ निःसारयितुमिन्द्रः शीतज्वरसंतापौ वृत्रे प्रयुज्य जञ्जभ्यमानाद्वृत्रात्तौ निःसार्य वृत्रं हतवानिति द्वितायकाण्डे स्पष्टी भविष्याति। स्तृणुते हिनस्ति। अमावास्यागतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्राग्नियोरिति।

सांनाय्यानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्रस्येति।

गतश्रियां राजन्यादीनां सांनाय्यनुमन्त्रणमन्त्रं व्याचष्टे - महेन्द्रस्येति।

स्विष्टकृदनुमन्त्रणमन्त्रं व्याचष्टे - अग्नेः स्विष्टकृत इति।

अथ मीमांसा।

दशमाध्यायस्याष्टमे पादे चिन्तितम् -

नाऽऽर्षेयं न च होतारं नानूयाजेष्वितीदृशः।

विकल्पः पर्युदासो वा स्यादाद्यो वचनद्वायात्॥

अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः।

नेत्यनूयाजधातुस्थस्तदर्थं पर्युदस्यति॥

महापितृयज्ञे चोदकप्राप्तं वरणं प्रत्येवं श्रूयते — “नाऽऽर्षेयं वृणीते। न होतारम्” इति। तथाऽनारभ्यवादे श्रूयते — “आ श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः” इति। तथोक्तम् — “नानूयाजेषु येयजामहं करोति” इति। तत्र वरणस्य विधिप्रतिषेधौ चोदकप्रत्यक्षवचनाभ्यां प्रतीयेते। ये यजामह इति मन्त्रस्य तु द्वाभ्यां प्रत्यक्षवचनाभ्यां विधिप्रतिषेधप्रतीतिः। तत्र विधायकप्रतिषेधकयोर्द्वयोः प्रमाणयोरवैयर्थ्याय विकल्प इति प्राप्ते ब्रूमः — अष्टदोषग्रस्तत्वाद्विकल्पो न न्याय्यः। ननु परस्परविरुद्धयोर्विधिनिषेधयोः समुच्चयस्याप्यसंभवात्का गतिरत्रेति चेदुच्यते– निषेधत्वेन प्रतीयमानमिदं नेत्यनेन शब्देनोपेतं वाक्यं विधिवाक्यस्य शेषो भविष्यति। तथा हि - यदि नेत्ययं शब्दः करोतिना संबध्येत तदा येयजामहं न करोतीत्येवं प्रतिषेधः स्यात्। यदि च वृणीत इत्येवाऽऽख्यातप्रत्ययेन संबध्येत तदा वरणं न कर्तव्यमिति निषिध्येत न चैवं संबध्यते, किं त्वानूयाजपदेन वृञ्धातुना च संबध्यते। तथा सत्यनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यः। वरणव्यतिरिक्तमङ्गजातमनुष्ठेयमित्यनूयाजवरणपर्युदासेन विधेरेव विशेषितत्वे सति प्रतिषेधवाक्यस्य कस्यचिदभावान्न विकल्पः शङ्कितुमपि शक्यः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके एकादशोऽनुवाकः॥११॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यो वा इत्यादि ॥ सप्तदशाक्षरसमूहात्मा प्रजापतिः सप्तदशः । समूहे छान्दसो डः । परिमाणो वा 'तस्य पूरणे' इति डट् । अवयवधर्मेण समुदायो व्यपदिश्यते, सप्तदशसु प्रथमादीनामपि सप्तदशत्वात् । यज्ञमन्वायत्तमनुप्रविष्टम् ॥
2 आ श्रावयेत्यादि ॥ तुभ्यमिदं दीयत इति देवताविशेषमाभिमुख्येन आ श्रावयेति चतुरक्षरमध्वर्योः । अस्तु श्रौषट् एवमेतत्कर्तव्यमिति चतुरक्षरमग्नीधः । यज इमां देवतां यष्टुं याज्यां ब्रूहीति द्व्यक्षरं अध्वर्योरेव । ये यजामहे य एव वयंस्मः त एव यजामहे कस्त्वां यष्टुमर्हतीति यागसङ्कल्पाय पञ्चाक्षरं हेतुः । वषट्क्रियते हविर्दीयतेनेनेति वषट्कारो वौषट्शब्दो द्व्यक्षरो होतुरेव । एष वा इत्यादि । गतम् ॥
3 यो वै यज्ञस्येत्यादि ॥ प्रायणं प्रारम्भः प्रवेशनम् । प्रतिष्ठा स्थितिः । उदयनं संस्था समाप्तिः । एतत्त्रयात्मिकमाश्रावयादिकम् । तस्मादत्रैव समस्तो यागस्समाप्तः, एतच्छेषतया सर्वमन्यत्क्रियत इति । अरिष्टः हिसारहितः ॥
4 यो वै सूनृताया इत्यादि ॥ प्रियसत्यात्मिका वाक्सूनृता । तत्तुल्यत्वात्तत्साधनत्वाद्वा अभेदेन यज्ञ उच्यते । 'यज्ञो वै सूनृता' इति गोत्वेन रूप्यते । एनां सूनृतां यज्ञं दुहे दुग्धे अभिमतं स्वर्गादिकम् । 'लोपस्त आत्मनेपदेषु' इति तलोपः । एवैनामह्वत् एनामाह्वयत् दोग्धुम् । छान्दसो लुङ्, 'लिपिसिचिह्वश्च' इत्यङ् । उपावास्राक् उपसृजति वत्सम् । सृजतेर्लुङि । 'बहुलं छन्दसि' इतीडभावः, 'सृजिदृशोः' इत्यमागमः, 'वदव्रज' इति वृद्धिः । उदनैषीत् उन्नयति पात्रम् । उपासदत् उपसीदति दोग्धा । ऌदित्वादङ् ।आश्रावयाद्युक्तिरभिमतसिध्यै सूनृताह्वानादिकृत् ॥
5 देवा वा इत्यादि ॥ सत्रासनं क्रतुविशेषः एकादशरात्रादिः, तमकुर्वत । आस्थानकर्मा वा इदानीमयमास्तिः । दिशः प्रागाद्या अदस्यन् उपक्षीणविभवा अभूवन् । दसु उपक्षये । आर्द्रामार्द्रयित्रीम् आ समन्ताद्रात्रीं लोकानां वर्षहेतुं अक्षरपङ्किमपश्यन् । गतमन्यत् ॥
6 प्रजापतिमित्यादि ॥ प्रजापतिं कश्चिद्वेद ज्ञातवान् । प्रजापतिरपि कं चिद्वेद । `त्वसमसीमनेमेत्यनुच्चानि' इति त्वशब्दस्यानुदात्तत्वात्तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । तत्र 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । यमित्यादि । एतं प्रचरन्तं प्रजापतिर्वेदेति । छन्दस्य इति । 'अक्षरसमूहे छन्दस उपसङ्ख्यानम्' इति यत् । आश्रावयादीनां छन्दसां वीर्यत्वात् यथोक्तम् - 'य एवं छन्दसां वीर्यम्' इत्यादि । तत्रैषां छन्दसां वीर्यत्वमुक्तम्, अत्र तु तत्समूहस्य प्रजापतित्वमिति विवेकः । एवंविदनुष्ठाता पुण्यो भवति, न चेत्पापकृत् । यत्किञ्चित्पापकृदपीति केचित् ॥
7 वसन्तमित्यादयः प्रयाजानुमन्त्रणमन्त्राः ॥ पञ्चत्वान्वयाल्लोकस्थितिहेतुत्वाच्च प्रयाजा ऋतवः । प्रथममिज्यन्त इति प्रयाजाः । 'प्रयाजानुयाजौ यज्ञाङ्गे' इति कुत्वाभावः, थाथादिना उत्तरपदान्तोदात्तत्वम् । कल्पन्ते अविपर्यासेन प्रवर्तन्ते ॥
8 अग्नीषोमयोरित्याज्यभागानुमन्त्रणम् ॥ 'ईदग्नेः' इतीत्वम्, 'अग्नेस्तुत्स्तोमसोमाः' इति षत्वम्, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
9 अग्नेरहमित्याग्नेयस्य पुरोडाशस्यानुमन्त्रणम् - अग्निर्वा इत्यादि ॥ देवानाम्मध्येग्निरन्नादः अन्नस्यात्ता, हविषां भोक्तृत्वात् । अणपवादः, पचाद्यच् । अन्नाद्यं अन्नस्यादनमन्नाद्यं अन्नादनसामर्थ्यम् । छान्दसो भावे क्यच् [प्] । यद्वा - अन्नात्मकमदनीयमन्नाद्यम् । 'गदमदचरयमश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वाद्यत् ॥
10 दब्धिरसीत्युपांशुयाजस्यानुमन्त्रणम् - एतया वा इत्यादि ॥ दब्ध्या दम्भनेन शत्रूणां दम्भनहेतुना । उपांशुयाजेन देवा असुरानदभ्नुवन् हिंसितवन्तः ॥
11 अग्नीषोमयोरित्यग्नीषोमीयस्यानुमन्त्रणम् ॥ स्तृणुते नाशयति ॥
12 इन्द्राग्नियोरहमित्यैन्द्राग्नस्यानुमन्त्रणम् - इन्द्रियाव्येवेत्यादि ॥

इन्द्रेणेन्द्रियावी, अग्निनान्नादश्च भवति । 'बहुलं छन्दसि' इति विनिः, 'अन्येभ्योपि दृश्यते' इति दीर्घत्वम् ॥

13 इन्द्रस्येत्यैन्द्रस्य सान्नाय्यस्यानुमन्त्रणम् ॥
14 महेन्द्रस्येति माहेन्द्रस्य ॥ जेमा जेतृत्वं सर्वोत्कृष्टत्वम् । 'तुश्छन्दसि' इति जेतृशब्दादिमनिच्, छान्दस इकारलोपः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । जनयितृत्वं वा । जनेश्छान्दसो जाभावः । 'अन्येभ्योपि दृश्यन्ते' इति वा व्यत्ययेन भावे जयतेर्मनिन्प्रत्ययः, छान्दसमन्तोदात्तत्वम् । महिमानं महत्त्वम् । मह पूजायाम् । सर्वेषां पूजार्हत्वम् । पूवर्वन्मनिन्प्रत्ययस्स्वरश्च ॥
15 अग्नेस्स्विष्टकृत इति स्विष्टकृतोनुमन्त्रणम् ॥ आयुष्मान्दीर्घायुः । आयुर्दीर्घमात्मनि स्थापयति । प्रतियज्ञेन तिष्ठतीति । यज्ञेन या प्रतिष्ठा यजमानस्य भवति, 'प्रति तिष्ठति प्रजया पशुभिर्यजमानः' इति तामपि प्रतिष्ठां गच्छतीति । यद्वा - प्रतिष्ठेति परमात्मोच्यते । यज्ञेन यजनेन तं प्रतितिष्ठति प्राप्नोतीति ॥
इति षष्ठे एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 1.6.11.2 TS 1.6.11.2
मु॒दय॑नं॒ ॅवेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सꣳ॒॒स्थां ग॑च्छ॒त्याश्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञ्स्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ ॅय ए॒वं ॅवेद॒ प्रति॑ष्ठिते॒नाऽरि॑ष्टेन य॒ज्ञेन॑ सꣳ॒॒स्थां ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒ ॅवेद॑ दु॒ह ए॒वैनां᳚ ॅय॒ज्ञो वै सू॒नृता ऽऽ श्रा॑व॒येत्यैवैना॑-मह्व॒दस्तु॒ - [ ]
पदपाठः (Word-by-word)
उ॒दय॑न॒मित्यु॑त् - अय॑नम् । वेद॑ । प्रति॑ष्ठिते॒नेति॒ प्रति॑ - स्थि॒ते॒न॒ । अरि॑ष्टेन । य॒ज्ञेन॑ । सꣳ॒॒स्थामिति॑ सं - स्थाम् । ग॒च्छ॒ति॒ । एति॑ । श्रा॒व॒य॒ । अस्तु॑ । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ए॒तत् । वै । य॒ज्ञ्स्य॑ । प्राय॑ण॒मिति॑ प्र - अय॑नम् । ए॒षा । प्र॒ति॒ष्ठेति॑ प्रति - स्था । ए॒तत् । उ॒दय॑न॒मित्यु॑त् - अय॑नम् । यः । ए॒वम् । वेद॑ । प्रति॑ष्ठिते॒नेति॒ प्रति॑-स्थि॒ते॒न॒ । अरि॑ष्टेन । य॒ज्ञेन॑ । सꣳ॒॒स्थामिति॑ सं - स्थाम् । ग॒च्छ॒ति॒ । यः । वै । सू॒नृता॑यै । दोह᳚म् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् । य॒ज्ञ्ः । वै । सू॒नृता᳚ । एति॑ । श्रा॒व॒य॒ । इति॑ । एति॑ । ए॒व । ए॒ना॒म् । अ॒ह्व॒त् । अस्तु॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.6.11.3 TS 1.6.11.3
श्रौष॒डित्यु॒पावा᳚स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑ऽसदद् वषट्का॒रेण॑ दोग्द्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं ॅवेद॑ दु॒ह ए॒वैनां᳚ दे॒वा वै स॒त्रमा॑सत॒ तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒त-म॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒भ्रꣳ सम॑प्लावय॒न्॒. यजेति॑ वि॒द्युत॑ - [ ]
पदपाठः (Word-by-word)
श्रौष॑ट् । इति॑ । उ॒पावा᳚स्रा॒गित्यु॑प-अवा᳚स्राक् । यज॑ । इति॑ । उदिति॑ । अ॒नै॒षी॒त् । ये । यजा॑महे । इति॑ । उपेति॑ । अ॒स॒द॒त् । व॒ष॒ट्का॒रेणेति॑ वषट्-का॒रेण॑ । दो॒ग्धि॒ । ए॒षः । वै । सू॒नृता॑यै । दोहः॑ । यः । ए॒वम् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् । दे॒वाः । वै । स॒त्रम् । आ॒स॒त॒ । तेषा᳚म् । दिशः॑ । अ॒द॒स्य॒न्न् । ते । ए॒ताम् । आ॒र्द्राम् । प॒ङ्क्तिम् । अ॒प॒श्य॒न्न् । एति॑ । श्रा॒व॒य॒ । इति॑ । पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् । अ॒ज॒न॒य॒न्न् । अस्तु॑ । श्रौष॑ट् । इति॑ । अ॒भ्रम् । समिति॑ । अ॒प्ला॒व॒य॒न्न् । यज॑ । इति॑ । वि॒द्युत॒मिति॑ वि - द्युत᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.6.11.4 TS 1.6.11.4
मजनय॒न्॒. ये यजा॑मह॒ इति॒ प्राव॑र्.षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं ॅवेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते प्र॒जाप॑तिं त्वो॒वेद॑ प्र॒जाप॑ति स्त्वंॅवेद॒ यं प्र॒जाप॑ति॒र् वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒याऽस्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं ॅवेद॒ पुण्यो॑ भवति वस॒न्त - [ ]
पदपाठः (Word-by-word)
अ॒ज॒नय॒न्न् । ये । यजा॑महे । इति॑ । प्रेति॑ । अ॒व॒र्॒.ष॒य॒न्न् । अ॒भीति॑ । अ॒स्त॒न॒य॒न्न् । व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । ततः॑ । वै । तेभ्यः॑ । दिशः॑ । प्रेति॑ । अ॒प्या॒य॒न्त॒ । यः । ए॒वम् । वेद॑ । प्रेति॑ । अ॒स्मै॒ । दिशः॑ । प्या॒य॒न्ते॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । त्वो॒वेदेति॑ त्वः - वेद॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । त्वं॒ॅवे॒देति॑ त्वं - वे॒द॒ । यम् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वेद॑ । सः । पुण्यः॑ । भ॒व॒ति॒ । ए॒षः । वै । छ॒न्द॒स्यः॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । एति॑ । श्रा॒व॒य॒ । अस्तु॑ । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । यः । ए॒वम् । वेद॑ । पुण्यः॑ । भ॒व॒ति॒ । व॒स॒न्तम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.6.11.5 TS 1.6.11.5
मृ॑तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ ते᳚ऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं ॅवेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒मित्या॑-हा॒ग्नीषोमा᳚भ्यां॒ वै य॒ज्ञ्श्चक्षु॑ष्मा॒न् ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ ऽग्नेर॒हं दे॑वय॒ज्यया᳚ऽन्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्ते नै॒ वा - [ ]
पदपाठः (Word-by-word)
ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । इति॑ । आ॒ह॒ । ऋ॒तवः॑ । वै । प्र॒या॒जा इति॑ प्र - या॒जाः । ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । ते । अ॒स्मै॒ । प्री॒ताः । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । क॒ल्प॒न्ते॒ । कल्प॑न्ते । अ॒स्मै॒ । ऋ॒तवः॑ । यः । ए॒वम् । वेद॑ । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया᳚ । चक्षु॑ष्मान् । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । वै । य॒ज्ञ्ः । चक्षु॑ष्मान् । ताभ्या᳚म् । ए॒व । चक्षुः॑ । आ॒त्मन्न् । ध॒त्ते॒ । अ॒ग्नेः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । अ॒न्ना॒द इत्य॑न्न - अ॒दः । तेन॑ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.6.11.6 TS 1.6.11.6
ऽन्नाद्य॑-मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय॒मित्या॑है॒तया॒ वै दब्द्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न्तयै॒व भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ऽग्नीषोमा᳚भ्यां॒ ॅवा इन्द्रो॑ वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यꣳ स्तृणुत इन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्या॒ - [ ]
पदपाठः (Word-by-word)
अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । आ॒त्मन्न् । ध॒त्ते॒ । दब्धिः॑ । अ॒सि॒ । अद॑ब्धः । भू॒या॒स॒म् । अ॒मुम् । द॒भे॒य॒म् । इति॑ । आ॒ह॒ । ए॒तया᳚ । वै । दब्ध्या᳚ । दे॒वाः । असु॑रान् । अ॒द॒भ्नु॒व॒॒न्न् । तया᳚ । ए॒व । भ्रातृ॑व्यम् । द॒भ्नो॒ति॒ । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । वृ॒त्र॒हेति॑ वृत्र - हा । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । वै । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । ताभ्या᳚म् । ए॒व । भ्रातृ॑व्यम् । स्तृ॒णु॒ते॒ । इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । इ॒न्द्रि॒या॒वी । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । इ॒न्द्रि॒या॒वी । ए॒व । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ । इन्द्र॑स्य ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 1.6.11.7 TS 1.6.11.7
ऽहं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒ऽहं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒-हायु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ -तिष्ठति ॥( प्र॒ति॒ष्ठा-म॑ह्व॒दस्तु॑-वि॒द्युतं॑-ॅवस॒न्तं-
पदपाठः (Word-by-word)
अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया᳚ । इ॒न्द्रि॒या॒वी । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । जे॒मान᳚म् । म॒हि॒मान᳚म् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ । जे॒मान᳚म् । ए॒व । म॒हि॒मान᳚म् । ग॒च्छ॒ति॒ । अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति- स्थाम् । ग॒मे॒य॒म् । इति॑ । आ॒ह॒ । आयुः॑ । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । प्रतीति॑ । य॒ज्ञेन॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 38