पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमानुवाके हविर्ग्रहणानुमन्त्रणमुक्तं, द्वितीयानुवाके हविर्होमानुमन्त्रणं वक्तव्यम्। तत्र हूयमानस्य हविषो बहिःस्कन्दननिवारणाय परिधीयमानानां परिधीनामनुमन्त्रणमनुवाकादावुपवर्ण्यते।
ध्रुवोऽसीति। कल्पः - “परिधीन्परिधीयमानाननुमन्त्रयते ध्रुवोऽसि ध्रु-वोऽह सजातेषु भूवासं धीरश्चेत्ता वसुविदिति मध्यममुग्रोऽस्युग्रोऽह सजातेषु भूयासमुग्रश्चेत्ता वसुविदिति दक्षिणमभिभूरस्यभिभूरह सजातेषु भूयासमभिभूश्चेत्ता वसुविदित्युत्तरम्” इति।
हे मध्यपरिधे त्वं ध्रुवः स्थिरोऽसि। रक्षोभिरविचाल्यमानत्वात्। अत एवाऽऽम्नायते - “परिधीन्परिदधाति रक्षसामपहत्यै” इति। तस्य ध्रुवस्य तवानुमन्त्रणेनाहमपि सजातेषु ज्ञातिषु ध्रुवः स्थिरो भूयासम्। किंच धीरो धैर्यवान्, चेत्ता रक्षोपहननस्य ज्ञाता, वसुविद्वसुनो लब्धा भूयासम्। हे दक्षिणपरिधे त्वं रक्षांस्यपहन्तुमुग्रोऽसि। तवानुमन्त्रणेनाहमप्युग्रो भूयासम्। ज्ञातयो यथा मह्यमप्रतिवादिनो भवन्ति तथा संपादनमुग्रत्वम्। किंच वैरि-णोऽपहन्तुमप्युग्रो भूयासम्। हे उत्तरपरिधे त्वं रक्षसामभिभविताऽसि। तवानुमन्त्रणेनाहमपि ज्ञातीनां वैरिणां चाभिभविता भूयासम्। एतदीयस्य ब्राह्मणस्य समीपवर्तित्वेनात्यन्तबुद्धिविच्छेदाभावान्नात्र ब्राह्मणमुदाहृत्य व्याकरिष्यते।
युनज्मीति। कल्पः - “अथाग्निं योगेन युनक्ति युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेद इति” इति।
हे जातवेदो दैव्येन देवयोग्येन ब्रह्मणा मन्त्रेण त्वां युनज्मि अस्मिन्कर्मणि युक्तं करोमि। किमर्थम्। इदं हविर्वोढुम्।
इन्धाना इति। कल्पः - “समिधोरभ्याधीयमानयोर्जपति - “इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इति” इति।
हे जातवेदस्त्वामिन्धाना ज्वलयन्तो वयं सुप्रजसः शोभनापत्योपेताः सुवीराः शोभनभृत्योपेता ज्योक्चिरं जीवेम। किं कर्वन्तः। तव बलिं पूजामुपहरन्तः।
यन्मे अग्न इति। कल्पः - “अथान्तर्वेदि हवींष्यासन्नान्यभिमन्त्रयते यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो। तेन हन्मि सपत्नं दुर्भरायुमैनं दधामि नित्या उपस्थ इति” इति।
हेऽग्नेऽस्य मम यज्ञस्य संबन्धि यद्बर्हिरादिकं रिष्यान्नश्येद्रक्षःप्रभृतिभिर्वि-नाशितं, आज्यस्योताऽऽज्यस्यापि संबन्धि यद्वा यदल्पं बिन्दुजातं जौहवादिकं स्कन्दादधः पतेत्, हे विष्णो व्यापक तेन नष्टेन स्कन्नेन च वैरिणं हन्मि। यः सपत्नो मारयितुमशक्य एनं दुर्भरायुं सपत्नं नित्याः पापदेवताया उपस्थ उत्सङ्ग आदधामि स्थापयामि।
भूर्भुव इति। कल्पः - “अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृती(ति)भि-रुपसादयेत्। अथ वै भवति दर्शपूर्णमासावालभमान एताभिर्व्याहृतीभिर्हवी ष्यासादयेत्। अथ वै भवति चातुर्मास्यान्यालभामन एताभिर्व्याहृतीभिर्हवी ष्यासादयेत्” इति।
भूरादयस्त्रयः शब्दा लोकत्रयवाचिनः। एतानि हवींषि लोकत्रयरूपाणीति स्तूयन्ते। इदं व्याहृतित्रयं यद्यपि याजमानकाण्डे पठितं तथाऽपि प्रत्यक्षेण ब्राह्मणवाक्येनाऽऽध्वर्यवक्रियायां विनियुक्तत्वादुत्क्रष्टव्यम्।
उच्छुष्म इति। कल्पः - “इध्ममभ्याधीयमानमनुमन्त्रयत उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते। अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वेति” इति।
हेऽग्ने यजमानायोच्छुष्म एधि उद्भूतबलो भव, यजमानकार्येष्वाविष्कृतबलो भव। अभिदासत उपक्षयते शत्रवे निशुष्म एधि न्यग्भूतबलो भव। उक्तक्रमेण यजमानमनुग्रहीतुं शत्रुं च विग्रहीतुं चतुर्भिः संबोधनैरग्निं प्रोत्साहयति। हेऽग्नेऽ-ङ्गनादिगुणयुक्त देवेद्ध देवैर्दीप्त मन्विद्ध मनुना दीप्त। एतच्च पदद्वयं निविद्ब्रा-ह्मणेन व्याख्यातम् - “देवेद्ध इत्याह देवा ह्येतमैन्धत मन्विद्ध इत्याह मनुर्ह्ये-तमुत्तरो देवेभ्य ऐन्ध” इति। मन्द्रजिह्व मन्द्रा हर्षहेतुर्जिह्वा यस्येति विग्रहः।
अमर्त्यस्येति। कल्पः - “प्रवरं प्रव्रियमाणमनुमन्त्रयते – अमर्त्यस्य ते होतर्मूर्धन्ना जिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति” इति।
हे होतर्देवानामाह्वातर्मरणरहितस्य तव मूर्धनि घृतादिकं क्षारयामि। किमर्थम्। यजमानस्य धनपुष्टिशोभनापत्यशोभनवीर्यार्थम्।
मनोऽसीति। कल्पः - “स्रौवमाघारमाघार्यमाणमनुमन्त्रयते मनोऽसि प्राजापत्यं मनसा मा भूतेनाऽऽविशेति” इति।
हे स्रौवाघार त्वं मनोऽसि प्रजापतिसंबन्धि चासि। मनसा प्रजापतिं ध्यायताऽध्वर्युणा निष्पाद्यमानत्वात्। अत्र भूतशब्दः प्रजापतिसृष्टं यज्ञमाचष्टे। प्राजापत्यो यज्ञ इति ब्राह्मणेन व्याख्यास्यमानत्वात्। तेन भूतेन प्रजापतिसृष्टेन यज्ञेन तत्साधनेन मनसा च सह हे स्रौवाघार मामाविश।
वागस्येति। कल्पः - “स्रुच्यमाघारमाघार्यमाणमनुन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽविशेति” इति।
हे स्रुच्याघार त्वं वागसि। वाचा मन्त्रमुच्चारयताऽध्वर्युणा निष्पाद्यमान-त्वात्। कीदृशी वाक्। ऐन्द्रीन्द्रेण व्याकृतत्वात्। तच्चेन्द्रवायवग्रहब्राह्मणे समाम्नातम् - “तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्” इति। सा च वाक्सपत्नक्षयणी वैरिघातिनी। स्रुच्याघारमन्त्ररूपाया वाचः सपत्नघातित्वं तद्ब्राह्मणेन सूचितम् - “अहुतो यज्ञो यज्ञपतेरित्याहानार्त्यै” इति। तादृश्या वाचेन्द्रसृष्टेन चक्षुरादीन्द्रियेण च सह हे स्रुच्याघार मामाविश।
वसन्तमिति। कल्पः - “प्रयाजानामिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामिति” इति।
ऋतुवाचकैर्वसन्तादिशब्दैः समिद्यागादिपञ्चप्रयाजाभिमानिदेवता विवक्ष्यन्ते। तांश्च वसन्तादीनहं तोषयामि। ते च तुष्टा मां तोषयन्तु।
अग्नीषोमयोरिति। कल्पः - “आज्यभागाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमिति” इति।
उत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेति श्रवणादग्नीषोमावाज्यभागयोर्देवौ तयोः संबन्धिनी देवयज्या समन्त्रकाज्यभागाहुतिस्तयाऽध्वर्युनिष्पादितया यजमानोऽहं चक्षुष्मांश्चक्षुर्युक्तो भूयासम्। युक्तं चैतत्। “चक्षुषी वा एते यज्ञस्य यदाज्यभागौ” इति ब्राह्मणे चक्षुष्ट्वेन निरूपितत्वात्।
अग्नेरहमिति। कल्पः - “अग्निमिष्टमनुमन्त्रयते - अग्नेरहं देवयज्यायाऽन्नादो भूयासमिति” इति।
दर्शपूर्णमासयोराद्यस्य प्रधानयागस्याग्निदर्वेता। स चान्नभक्षकः। “अग्निर्वै-देवानामन्नादः” इति श्रुतेः। अतस्तद्यागेन यजमानस्यान्नादत्वमुचितम्।
दब्धिरसीति। कल्पः - “उपांशुयाजमिष्टमनुमन्त्रयते दब्धिरस्यदब्धो भूयासममुं दभेयमिति” इति।
अमुमित्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायतीति। उपांशुयाजस्य प्रजाप-तिर्विष्णुरग्नीषोमौ वा विकल्पेन देवताः। हे उपांशुयाजदेव त्वं दब्धिरसि अस्माभिर्द्वेष्यस्य त्वं हिंसकोऽसि। त्वत्प्रसादादहं वैरिभिरहिंसितो भूयासम्। अमुं वैरिणं दभेयं मारयेयम्।
अग्नीषोमयोरिति। कल्पः - “अग्नीषोमाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमिति” इति।
पौर्णमास्यां तृतीययागस्याग्नीषोमौ देवता(ते)। तयोश्च वृत्रहत्यानिमित्तं त्वष्टा हतपुत्र इत्यनुवाके प्रपञ्चितम्। अतस्तद्यागेन यजमानस्य वैरिहन्तृत्वं युक्तम्।
इन्द्राग्नियोरिति। कल्पः - “इन्द्राग्नी इष्टावनुमन्त्रयते - इन्द्राग्नियोरहं देव-यज्ययेन्द्रियाव्यन्नादो भूयासमिति” इति।
अमावास्यायामसोमयाजिनः सांनाय्याभावे द्वितीयपुरोडाशस्येन्द्राग्नी देवता(ते)। तत्रेन्द्रानुग्रहाद्यजमानस्येन्द्रियोपेतत्वमग्न्यनुग्रहाच्चान्नादत्वम्।
इन्द्रस्याहमिति। कल्पः - “इन्द्रमिष्टमनुमन्त्रयते - इन्द्रस्याहं देवयज्ययेन्द्रि-यावी भूयासमिति” इति।
सांनाय्यस्येन्द्रो देवता तत्प्रसादादिन्द्रियावित्वम्।
महेन्द्रस्येति। कल्पः - “महेन्द्रमिष्टमनुमन्त्रयते महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयमिति” इति।
केषांचित्सांनाय्यस्य महेन्द्रो देवता। तथा चाऽऽम्नायते - “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यस्तेषां महेन्द्रो देवता” इति। तत्रेन्द्रशब्दार्थप्रयुक्त्या यजमानस्य जेतृत्वप्राप्तिः। महच्छब्दार्थप्रयुक्त्या यजमानस्य विद्यैश्वर्यादिगु-णैर्महत्त्वप्राप्तिः।
अग्नेः स्विष्टकृतं इति। कल्पः - “स्विष्टकृतमिष्टमनुमन्त्रयते - अग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति” इति।
कश्चिदग्निः केनचिन्निमित्तेन रुद्रनामधेयमलभन। स च कदाचिद्देवैराहुत्या तोषितः पूर्वमिष्टानां यागानां वैगुण्यं परिहृत्य स्विष्टत्वं कृतवान्। तथा च ब्राह्मणमाम्नायते - “देवा वै यज्ञाद्रुद्रमन्तरायन्स यज्ञमविध्यत्तं देवा अभि समगच्छन्त कल्पतां न इदमिति तेऽब्रुवन्स्विष्टं वै न इदं भविष्यति यदिम राधयिष्याम इति तत्स्विष्टकृत्त्वम्” इति। “यदग्नये स्विष्टकृतेऽवद्यति भागघेयेनैव तद्रुद्र समर्धयति” इति च। स्विष्टकृच्छब्दस्य निर्वचनं सौत्रामण्यां मैत्रावरुणप्रैषमन्त्रे विस्पष्टमाम्नायते “देवो अग्निः स्विष्टकृद्देवमिन्द्रमवर्धयत्। स्विष्टं कुर्वन्स्विष्टकृत्। स्विष्टमद्य करोतु नः” इति। तत्राग्निशब्दार्थप्रयुक्तं यजमानस्यऽऽयुष्मत्त्वम्। अत एव मन्त्रान्तरमेवमाम्नायते - “अग्निरायुष्मान्स वनस्पतिभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि” इति। स्विष्टकृच्छब्दार्थप्रयुक्त्या यज्ञप्रतिष्ठाप्राप्तिः। यदाऽयमग्निः स्विष्टं करोति तदा यजमानः सगुणेन संपूर्णेन यज्ञेन प्रतिष्ठां फलप्राप्तिलक्षणां लभते।
अत्र विनियोगसंग्रहः —
“ध्रुवोऽसीति त्रिभिर्मन्त्रैः परिधित्रयमन्त्रणम्।
युनाग्नियोग इन्धानाः समिधोरनुमन्त्रणम्॥१॥
यन्मे हविर्मन्त्रयेत भूस्त्रिभिः सादयेद्धविः।
उच्छुष्मो मन्त्रयेतोध्मममर्त्य प्रवृतिं तथा॥२॥
स्रौवाघारं मनोऽसीति स्रुच्याघारं तु वागिति।
वसन्तपञ्चभिर्मन्त्रैः प्रयाजान्पञ्च मन्त्रयेत्॥३॥
अग्नीषोमेत्याज्यभागावग्नेरित्यग्नियागकम्।
दब्धिरुपांशुयाजस्य स्पष्टमग्नीति पञ्चकम्।
अनुवाके द्वितीयेऽस्मिन्मन्त्राः षड्विंशतिर्गताः॥४॥” इति
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्-
“स्याद्वासन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्।
शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि” इति।
दर्शपूर्णमासयोर्याजमानकाण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः - “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि” इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः। अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणमन्त्रेषु निय-तक्रमदर्शनेनात्रापि क्रमनियमस्य बुद्धिस्थत्वादिति चेन्मैवम्। अत्र नियामकाभावात्। न तादवत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेम-न्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखापठितानां व्यत्ययेन पाठदर्शनात्। नात्र यवागूपाकवदर्थो नियामकः। वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानु-न्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यात्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागैकविषयस्य विशेषसामर्थ्यस्यादर्शनात्। तस्मादत्र नास्ति नियतः क्रमः।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम्-
“उपांशुयजतेर्नाङ्गं दब्धिमन्त्रोऽङ्गताऽथवा।
साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता॥
मन्त्राणां कर्मणां चात्र क्रमेणाऽऽम्नानमीक्ष्यते।
प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता॥
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः।
यथासंख्यं संनिधिश्च यथासंख्यामुदाहृतम्।
शृन्धध्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम्।
पशुधर्मोऽर्थसादेश्यादग्नीषोमीयगो भवेत्” इति॥
दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते - दब्धिरस्यदब्धो भूयासममुं दभेयम्” इति। अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते। ब्राह्मणे विनियोग आम्नायार्थविवरणस्यैवाऽऽम्नातत्वात्। “एतया वै दब्ध्या देवा असुरानदभ्नुवन्तयैव भ्रातृव्यं दभ्नोति” इति ब्राह्मणम्। दब्धिर्घातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेव। ततो मानाभावादयं मन्त्रो नोपांशुया-जाङ्गमिति प्राप्ते ब्रूमः — आध्वर्यवकाण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽऽम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽऽम्नाताः — “अग्नेरहं देवयज्ययाऽन्नादो भूयासं दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्” इति। तत्र यथा वाक्याद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणं तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाज्यस्य मध्यवर्ती मन्त्रोऽङ्गम्। समानदेशत्वं क्रम इति क्रमस्य स्वरूपम्। तच्च द्विविधं पाठकृतमर्थकृत च। पाठकृतमपि द्विविधं यथासंख्यं संनिधिश्चेति। तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। शुन्धध्वं दैव्याय कर्मण इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु मातरिश्वन इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे शुन्धध्वमिति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यात्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्॥