अनुवाकः 2 TS 1.6.2

(A2)

(रिष्या᳚थ्-सपत्न॒क्षय॑ण्य-न्ना॒दो भू॑यासꣳ॒॒-षट्त्रिꣳ॑शच्च)

अनुवाकः 2 - Complete Audio

TS 1.6.2 - स्वरानुगामी

0:00 0:00
PS1.1 ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒
PS1.2 धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयास-मु॒ग्रश्चेत्ता॑
PS1.3 वसु॒विद॑भि॒-भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्
PS1.4 यु॒॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न
PS1.5 ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः
PS1.6 इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम
PS1.7 बलि॒हृतो॑ व॒यं ते᳚
PS1.8 यन्मे॑ अग्ने अ॒स्य य॒ज्ञ्स्य॒
PS1.9 रिष्या॒ - [ ]
PS2.1 द् यद्वा॒ स्कन्दा॒-दाज्य॑स्यो॒त वि॑ष्णो
PS2.2 तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑
PS2.3 दधामि॒ निर्.ऋ॑त्या उ॒पस्थे᳚
PS2.4 भूर् भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒
PS2.5 यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते
PS2.6 अग्ने॒ देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वा-म॑र्त्यस्य
PS2.7 ते होतर्मू॒र्द्धन्ना जि॑घर्मि रा॒यस्पोषा॑य
PS2.8 सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यं
PS2.9 मन॑सा मा भू॒तेना *वि॑श॒
PS2.10 वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी - [
PS2.11 ]
PS3.1 वा॒चा मे᳚न्द्रि॒येणा *वि॑श वस॒न्तमृ॑तू॒नां
PS3.2 प्री॑णामि॒ स मा᳚ प्री॒तः
PS3.3 प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स
PS3.4 मा᳚ प्री॒तः प्री॑णातु व॒र्॒.षा
PS3.5 ऋ॑तू॒नां प्री॑णामि॒ ता मा᳚
PS3.6 प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒
PS3.7 सा मा᳚ प्री॒ता प्री॑णातु
PS3.8 हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा᳚
PS3.9 प्री॒तौ प्री॑णीता-म॒ग्नीषोम॑यो-र॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान्
PS3.10 भूयासम॒ग्नेर॒हं दे॑वय॒ज्यया᳚ऽन्ना॒दो भू॑यासं॒ -
PS3.11 [ ]
PS4.1 दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय-म॒ग्नीषोम॑यो-र॒हं दे॑वय॒ज्यया॑
PS4.2 वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒ऽहं
PS4.3 दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒ऽहं दे॑वय॒ज्यया॑
PS4.4 जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं
PS4.5 दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठां
PS4.6 ग॑मेयं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.6.2.1 TS 1.6.2.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयास-मु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒-भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद् यु॒॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः ॥ इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते᳚ ॥ यन्मे॑ अग्ने अ॒स्य य॒ज्ञ्स्य॒ रिष्या॒ - [ ]
पदपाठः (Word-by-word)
ध्रु॒वः । अ॒सि॒ । ध्रु॒वः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । धीरः॑ । चेत्ता᳚ । व॒सु॒विदिति॑ वसु - वित् । उ॒ग्रः । अ॒सि॒ । उ॒ग्रः । अ॒हम् । स॒जा॒तेष्विति॑ स-जा॒तेषु॑ । भू॒या॒स॒म् । उ॒ग्रः । चेत्ता᳚ । व॒सु॒विदिति॑ वसु - वित् । अ॒भि॒भूरित्य॑भि - भूः । अ॒सि॒ । अ॒भि॒भूरित्य॑भि - भूः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । अ॒भि॒भूरित्य॑भि - भूः । चेत्ता᳚ । व॒सु॒विदिति॑ वसु-वित् । यु॒नज्मि॑ । त्वा॒ । ब्रह्म॑णा । दैव्ये॑न । ह॒व्याय॑ । अ॒स्मै । वो॒ढ॒वे । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ॥ इन्धा॑नाः । त्वा॒ । सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ । सु॒वीरा॒ इति॑ सु - वीराः᳚ । ज्योक् । जी॒वे॒म॒ । ब॒लि॒हृत॒ इति॑ बलि - हृतः॑ । व॒यम् । ते॒ ॥ यत् । मे॒ । अ॒ग्ने॒ । अ॒स्य । य॒ज्ञ्स्य॑ । रिष्या᳚त् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।

प्रथमानुवाके हविर्ग्रहणानुमन्त्रणमुक्तं, द्वितीयानुवाके हविर्होमानुमन्त्रणं वक्तव्यम्। तत्र हूयमानस्य हविषो बहिःस्कन्दननिवारणाय परिधीयमानानां परिधीनामनुमन्त्रणमनुवाकादावुपवर्ण्यते।

ध्रुवोऽसीति। कल्पः - “परिधीन्परिधीयमानाननुमन्त्रयते ध्रुवोऽसि ध्रु-वोऽह सजातेषु भूवासं धीरश्चेत्ता वसुविदिति मध्यममुग्रोऽस्युग्रोऽह सजातेषु भूयासमुग्रश्चेत्ता वसुविदिति दक्षिणमभिभूरस्यभिभूरह सजातेषु भूयासमभिभूश्चेत्ता वसुविदित्युत्तरम्” इति।

हे मध्यपरिधे त्वं ध्रुवः स्थिरोऽसि। रक्षोभिरविचाल्यमानत्वात्। अत एवाऽऽम्नायते - “परिधीन्परिदधाति रक्षसामपहत्यै” इति। तस्य ध्रुवस्य तवानुमन्त्रणेनाहमपि सजातेषु ज्ञातिषु ध्रुवः स्थिरो भूयासम्। किंच धीरो धैर्यवान्, चेत्ता रक्षोपहननस्य ज्ञाता, वसुविद्वसुनो लब्धा भूयासम्। हे दक्षिणपरिधे त्वं रक्षांस्यपहन्तुमुग्रोऽसि। तवानुमन्त्रणेनाहमप्युग्रो भूयासम्। ज्ञातयो यथा मह्यमप्रतिवादिनो भवन्ति तथा संपादनमुग्रत्वम्। किंच वैरि-णोऽपहन्तुमप्युग्रो भूयासम्। हे उत्तरपरिधे त्वं रक्षसामभिभविताऽसि। तवानुमन्त्रणेनाहमपि ज्ञातीनां वैरिणां चाभिभविता भूयासम्। एतदीयस्य ब्राह्मणस्य समीपवर्तित्वेनात्यन्तबुद्धिविच्छेदाभावान्नात्र ब्राह्मणमुदाहृत्य व्याकरिष्यते।

युनज्मीति। कल्पः - “अथाग्निं योगेन युनक्ति युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेद इति” इति।

हे जातवेदो दैव्येन देवयोग्येन ब्रह्मणा मन्त्रेण त्वां युनज्मि अस्मिन्कर्मणि युक्तं करोमि। किमर्थम्। इदं हविर्वोढुम्।

इन्धाना इति। कल्पः - “समिधोरभ्याधीयमानयोर्जपति - “इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इति” इति।

हे जातवेदस्त्वामिन्धाना ज्वलयन्तो वयं सुप्रजसः शोभनापत्योपेताः सुवीराः शोभनभृत्योपेता ज्योक्चिरं जीवेम। किं कर्वन्तः। तव बलिं पूजामुपहरन्तः।

यन्मे अग्न इति। कल्पः - “अथान्तर्वेदि हवींष्यासन्नान्यभिमन्त्रयते यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो। तेन हन्मि सपत्नं दुर्भरायुमैनं दधामि नित्या उपस्थ इति” इति।

हेऽग्नेऽस्य मम यज्ञस्य संबन्धि यद्बर्हिरादिकं रिष्यान्नश्येद्रक्षःप्रभृतिभिर्वि-नाशितं, आज्यस्योताऽऽज्यस्यापि संबन्धि यद्वा यदल्पं बिन्दुजातं जौहवादिकं स्कन्दादधः पतेत्, हे विष्णो व्यापक तेन नष्टेन स्कन्नेन च वैरिणं हन्मि। यः सपत्नो मारयितुमशक्य एनं दुर्भरायुं सपत्नं नित्याः पापदेवताया उपस्थ उत्सङ्ग आदधामि स्थापयामि।

भूर्भुव इति। कल्पः - “अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृती(ति)भि-रुपसादयेत्। अथ वै भवति दर्शपूर्णमासावालभमान एताभिर्व्याहृतीभिर्हवी ष्यासादयेत्। अथ वै भवति चातुर्मास्यान्यालभामन एताभिर्व्याहृतीभिर्हवी ष्यासादयेत्” इति।

भूरादयस्त्रयः शब्दा लोकत्रयवाचिनः। एतानि हवींषि लोकत्रयरूपाणीति स्तूयन्ते। इदं व्याहृतित्रयं यद्यपि याजमानकाण्डे पठितं तथाऽपि प्रत्यक्षेण ब्राह्मणवाक्येनाऽऽध्वर्यवक्रियायां विनियुक्तत्वादुत्क्रष्टव्यम्।

उच्छुष्म इति। कल्पः - “इध्ममभ्याधीयमानमनुमन्त्रयत उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते। अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वेति” इति।

हेऽग्ने यजमानायोच्छुष्म एधि उद्भूतबलो भव, यजमानकार्येष्वाविष्कृतबलो भव। अभिदासत उपक्षयते शत्रवे निशुष्म एधि न्यग्भूतबलो भव। उक्तक्रमेण यजमानमनुग्रहीतुं शत्रुं च विग्रहीतुं चतुर्भिः संबोधनैरग्निं प्रोत्साहयति। हेऽग्नेऽ-ङ्गनादिगुणयुक्त देवेद्ध देवैर्दीप्त मन्विद्ध मनुना दीप्त। एतच्च पदद्वयं निविद्ब्रा-ह्मणेन व्याख्यातम् - “देवेद्ध इत्याह देवा ह्येतमैन्धत मन्विद्ध इत्याह मनुर्ह्ये-तमुत्तरो देवेभ्य ऐन्ध” इति। मन्द्रजिह्व मन्द्रा हर्षहेतुर्जिह्वा यस्येति विग्रहः।

अमर्त्यस्येति। कल्पः - “प्रवरं प्रव्रियमाणमनुमन्त्रयते – अमर्त्यस्य ते होतर्मूर्धन्ना जिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति” इति।

हे होतर्देवानामाह्वातर्मरणरहितस्य तव मूर्धनि घृतादिकं क्षारयामि। किमर्थम्। यजमानस्य धनपुष्टिशोभनापत्यशोभनवीर्यार्थम्।

मनोऽसीति। कल्पः - “स्रौवमाघारमाघार्यमाणमनुमन्त्रयते मनोऽसि प्राजापत्यं मनसा मा भूतेनाऽऽविशेति” इति।

हे स्रौवाघार त्वं मनोऽसि प्रजापतिसंबन्धि चासि। मनसा प्रजापतिं ध्यायताऽध्वर्युणा निष्पाद्यमानत्वात्। अत्र भूतशब्दः प्रजापतिसृष्टं यज्ञमाचष्टे। प्राजापत्यो यज्ञ इति ब्राह्मणेन व्याख्यास्यमानत्वात्। तेन भूतेन प्रजापतिसृष्टेन यज्ञेन तत्साधनेन मनसा च सह हे स्रौवाघार मामाविश।

वागस्येति। कल्पः - “स्रुच्यमाघारमाघार्यमाणमनुन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽविशेति” इति।

हे स्रुच्याघार त्वं वागसि। वाचा मन्त्रमुच्चारयताऽध्वर्युणा निष्पाद्यमान-त्वात्। कीदृशी वाक्। ऐन्द्रीन्द्रेण व्याकृतत्वात्। तच्चेन्द्रवायवग्रहब्राह्मणे समाम्नातम् - “तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्” इति। सा च वाक्सपत्नक्षयणी वैरिघातिनी। स्रुच्याघारमन्त्ररूपाया वाचः सपत्नघातित्वं तद्ब्राह्मणेन सूचितम् - “अहुतो यज्ञो यज्ञपतेरित्याहानार्त्यै” इति। तादृश्या वाचेन्द्रसृष्टेन चक्षुरादीन्द्रियेण च सह हे स्रुच्याघार मामाविश।

वसन्तमिति। कल्पः - “प्रयाजानामिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामिति” इति।

ऋतुवाचकैर्वसन्तादिशब्दैः समिद्यागादिपञ्चप्रयाजाभिमानिदेवता विवक्ष्यन्ते। तांश्च वसन्तादीनहं तोषयामि। ते च तुष्टा मां तोषयन्तु।

अग्नीषोमयोरिति। कल्पः - “आज्यभागाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमिति” इति।

उत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेति श्रवणादग्नीषोमावाज्यभागयोर्देवौ तयोः संबन्धिनी देवयज्या समन्त्रकाज्यभागाहुतिस्तयाऽध्वर्युनिष्पादितया यजमानोऽहं चक्षुष्मांश्चक्षुर्युक्तो भूयासम्। युक्तं चैतत्। “चक्षुषी वा एते यज्ञस्य यदाज्यभागौ” इति ब्राह्मणे चक्षुष्ट्वेन निरूपितत्वात्।

अग्नेरहमिति। कल्पः - “अग्निमिष्टमनुमन्त्रयते - अग्नेरहं देवयज्यायाऽन्नादो भूयासमिति” इति।

दर्शपूर्णमासयोराद्यस्य प्रधानयागस्याग्निदर्वेता। स चान्नभक्षकः। “अग्निर्वै-देवानामन्नादः” इति श्रुतेः। अतस्तद्यागेन यजमानस्यान्नादत्वमुचितम्।

दब्धिरसीति। कल्पः - “उपांशुयाजमिष्टमनुमन्त्रयते दब्धिरस्यदब्धो भूयासममुं दभेयमिति” इति।

अमुमित्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायतीति। उपांशुयाजस्य प्रजाप-तिर्विष्णुरग्नीषोमौ वा विकल्पेन देवताः। हे उपांशुयाजदेव त्वं दब्धिरसि अस्माभिर्द्वेष्यस्य त्वं हिंसकोऽसि। त्वत्प्रसादादहं वैरिभिरहिंसितो भूयासम्। अमुं वैरिणं दभेयं मारयेयम्।

अग्नीषोमयोरिति। कल्पः - “अग्नीषोमाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमिति” इति।

पौर्णमास्यां तृतीययागस्याग्नीषोमौ देवता(ते)। तयोश्च वृत्रहत्यानिमित्तं त्वष्टा हतपुत्र इत्यनुवाके प्रपञ्चितम्। अतस्तद्यागेन यजमानस्य वैरिहन्तृत्वं युक्तम्।

इन्द्राग्नियोरिति। कल्पः - “इन्द्राग्नी इष्टावनुमन्त्रयते - इन्द्राग्नियोरहं देव-यज्ययेन्द्रियाव्यन्नादो भूयासमिति” इति।

अमावास्यायामसोमयाजिनः सांनाय्याभावे द्वितीयपुरोडाशस्येन्द्राग्नी देवता(ते)। तत्रेन्द्रानुग्रहाद्यजमानस्येन्द्रियोपेतत्वमग्न्यनुग्रहाच्चान्नादत्वम्।

इन्द्रस्याहमिति। कल्पः - “इन्द्रमिष्टमनुमन्त्रयते - इन्द्रस्याहं देवयज्ययेन्द्रि-यावी भूयासमिति” इति।

सांनाय्यस्येन्द्रो देवता तत्प्रसादादिन्द्रियावित्वम्।

महेन्द्रस्येति। कल्पः - “महेन्द्रमिष्टमनुमन्त्रयते महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयमिति” इति।

केषांचित्सांनाय्यस्य महेन्द्रो देवता। तथा चाऽऽम्नायते - “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यस्तेषां महेन्द्रो देवता” इति। तत्रेन्द्रशब्दार्थप्रयुक्त्या यजमानस्य जेतृत्वप्राप्तिः। महच्छब्दार्थप्रयुक्त्या यजमानस्य विद्यैश्वर्यादिगु-णैर्महत्त्वप्राप्तिः।

अग्नेः स्विष्टकृतं इति। कल्पः - “स्विष्टकृतमिष्टमनुमन्त्रयते - अग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति” इति।

कश्चिदग्निः केनचिन्निमित्तेन रुद्रनामधेयमलभन। स च कदाचिद्देवैराहुत्या तोषितः पूर्वमिष्टानां यागानां वैगुण्यं परिहृत्य स्विष्टत्वं कृतवान्। तथा च ब्राह्मणमाम्नायते - “देवा वै यज्ञाद्रुद्रमन्तरायन्स यज्ञमविध्यत्तं देवा अभि समगच्छन्त कल्पतां न इदमिति तेऽब्रुवन्स्विष्टं वै न इदं भविष्यति यदिम राधयिष्याम इति तत्स्विष्टकृत्त्वम्” इति। “यदग्नये स्विष्टकृतेऽवद्यति भागघेयेनैव तद्रुद्र समर्धयति” इति च। स्विष्टकृच्छब्दस्य निर्वचनं सौत्रामण्यां मैत्रावरुणप्रैषमन्त्रे विस्पष्टमाम्नायते “देवो अग्निः स्विष्टकृद्देवमिन्द्रमवर्धयत्। स्विष्टं कुर्वन्स्विष्टकृत्। स्विष्टमद्य करोतु नः” इति। तत्राग्निशब्दार्थप्रयुक्तं यजमानस्यऽऽयुष्मत्त्वम्। अत एव मन्त्रान्तरमेवमाम्नायते - “अग्निरायुष्मान्स वनस्पतिभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि” इति। स्विष्टकृच्छब्दार्थप्रयुक्त्या यज्ञप्रतिष्ठाप्राप्तिः। यदाऽयमग्निः स्विष्टं करोति तदा यजमानः सगुणेन संपूर्णेन यज्ञेन प्रतिष्ठां फलप्राप्तिलक्षणां लभते।

अत्र विनियोगसंग्रहः —

“ध्रुवोऽसीति त्रिभिर्मन्त्रैः परिधित्रयमन्त्रणम्।

युनाग्नियोग इन्धानाः समिधोरनुमन्त्रणम्॥१॥

यन्मे हविर्मन्त्रयेत भूस्त्रिभिः सादयेद्धविः।

उच्छुष्मो मन्त्रयेतोध्मममर्त्य प्रवृतिं तथा॥२॥

स्रौवाघारं मनोऽसीति स्रुच्याघारं तु वागिति।

वसन्तपञ्चभिर्मन्त्रैः प्रयाजान्पञ्च मन्त्रयेत्॥३॥

अग्नीषोमेत्याज्यभागावग्नेरित्यग्नियागकम्।

दब्धिरुपांशुयाजस्य स्पष्टमग्नीति पञ्चकम्।

अनुवाके द्वितीयेऽस्मिन्मन्त्राः षड्विंशतिर्गताः॥४॥” इति

अथ मीमांसा।

पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्-

“स्याद्वासन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्।

शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि” इति।

दर्शपूर्णमासयोर्याजमानकाण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः - “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि” इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः। अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणमन्त्रेषु निय-तक्रमदर्शनेनात्रापि क्रमनियमस्य बुद्धिस्थत्वादिति चेन्मैवम्। अत्र नियामकाभावात्। न तादवत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेम-न्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखापठितानां व्यत्ययेन पाठदर्शनात्। नात्र यवागूपाकवदर्थो नियामकः। वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानु-न्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यात्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागैकविषयस्य विशेषसामर्थ्यस्यादर्शनात्। तस्मादत्र नास्ति नियतः क्रमः।

तृतीयाध्यायस्य तृतीयपादे चिन्तितम्-

“उपांशुयजतेर्नाङ्गं दब्धिमन्त्रोऽङ्गताऽथवा।

साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता॥

मन्त्राणां कर्मणां चात्र क्रमेणाऽऽम्नानमीक्ष्यते।

प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता॥

क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः।

यथासंख्यं संनिधिश्च यथासंख्यामुदाहृतम्।

शृन्धध्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम्।

पशुधर्मोऽर्थसादेश्यादग्नीषोमीयगो भवेत्” इति॥

दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते - दब्धिरस्यदब्धो भूयासममुं दभेयम्” इति। अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते। ब्राह्मणे विनियोग आम्नायार्थविवरणस्यैवाऽऽम्नातत्वात्। “एतया वै दब्ध्या देवा असुरानदभ्नुवन्तयैव भ्रातृव्यं दभ्नोति” इति ब्राह्मणम्। दब्धिर्घातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेव। ततो मानाभावादयं मन्त्रो नोपांशुया-जाङ्गमिति प्राप्ते ब्रूमः — आध्वर्यवकाण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽऽम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽऽम्नाताः — “अग्नेरहं देवयज्ययाऽन्नादो भूयासं दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्” इति। तत्र यथा वाक्याद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणं तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाज्यस्य मध्यवर्ती मन्त्रोऽङ्गम्। समानदेशत्वं क्रम इति क्रमस्य स्वरूपम्। तच्च द्विविधं पाठकृतमर्थकृत च। पाठकृतमपि द्विविधं यथासंख्यं संनिधिश्चेति। तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। शुन्धध्वं दैव्याय कर्मण इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु मातरिश्वन इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे शुन्धध्वमिति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यात्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः॥२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -3परिधीन् परिधीयमानाननुमन्त्रयते - ध्रुवोसीति यजुर्भिः ॥ तत्र मध्यमं - ध्रुवोसि स्थिरोसि मध्यमत्वाद्वा परिधित्वे विभावाच्च' । अहमपि सजातेषु धुवो भूयासम् । समानजन्मानस्सजाताः । 'समानस्य छन्दसि' इति सभावः, 'वा जाते' इत्युत्तरपदान्तोदात्तत्वम् । धीरश्चेत्ता वसुविच्च भूयासमित्येव । धीरो धृष्टः सर्वसमर्थः । चेत्ता चेतिता ज्ञाता । छान्दस इडभावः । रधादिर्वा द्रष्टव्यः । वसुवित् धनानां लब्धा । दक्षिणम् - उग्रः उद्गूर्णोसि, उपरिष्टात्स्थितत्वात्, रुद्राणां सम्बधित्वाद्वा । अधृष्य इति केचित् । अहमपि सजातेषूग्रो भूयासं, यथा ते ममाप्रतिवादिनो विधेया भवन्ति । उग्रश्चेत्ता वस्वुविद्भूयासम्, य उग्रश्चेत्ता वसुविच्च भवति स उग्रो भूयासम्, न केवलमुग्र एव । उत्तरम् - अभिभूरसि उत्तरकालभावित्वान्नान्येन परिहास्यो भव, अभिभूरेवासि नातः परं किञ्चित्परिधीयत इति । अहमपि सजातेष्वभिभविता भूयासं शत्रूणां तेषामेव वा । किञ्च - योभिभूश्चेत्ता वसुविच्च भवति स एव भूयासं न केवलमभिभवितृत्वमात्रेण ॥
4 अग्नि योगेन युनक्ति - युनज्मीति द्विपदया त्रिष्टुभा ॥ हे जातवेदः जातानां वेदितः ब्रह्मणा मन्त्रेण दैव्येन देवयोग्येन । 'देवाद्यञञौ' । त्वां युनज्मि अस्मिन् कर्मणि युक्तं करोमि । प्रयोननमाह - अस्मै हव्याय वोढवे, इदं हविर्वोढुम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम्, 'तुमर्थे सेसेन्' इति तवेन्प्रत्ययः, 'अन्तश्च तवै युगपत्' इत्याद्यन्तयोर्युगपदुदात्तत्वम्, अस्याप्युपलक्षणत्वात् । 'ऊडिदम्' इतीदमश्चतुर्थ्या उदात्तत्वम् ॥
5 समिधोरभ्यधीयमानयोर्जपति - इन्वानास्त्वेति । इयमपि पूर्ववद्द्विपदा त्रिष्टुप् ॥ हे अग्ने त्वामिन्धानाः ज्वलयन्तः परिचरन्तो वयम् । 'विभाषा वेण्विन्धानयोः' इत्याद्युदात्तत्वम् । सुप्रजसश्शोभनापत्याः । पूर्ववदसिच् । सुवीराः शोभनसर्ववीरपुरुषाः । ज्योक् चिरं जीवेम त्वत्प्रसादात् । यस्माद्वयं ते तव बलिहृतोऽविच्छिन्नं बलिमुपहरामः, तस्माज्जीवेम चिरम् । यद्वा - बलिहृतस्तव भविष्याम इत्येवमर्थं चिरं जीवेम । बलिर्हविर्दानम् ॥
6 हवींष्यासन्नान्यभिमन्त्रयते - यन्मे अग्न इति त्रिष्टुभा ॥ हे अग्ने अस्य मम यज्ञस्य यद्बर्हिरादिकं रिष्यान्नश्येत् रक्षःप्रभृतिभिर्विनाशितं स्यात् । लेट्याडागमः । 'प्रकृत्यान्तःपादम्' इति मे इत्यस्य प्रकृतिभावः । किञ्च - आज्यस्योत आज्यस्यापिच सम्बन्धि जौहवादिकं तदेकदेशभूतं यद्रिष्यात् यद्वा स्कन्दात् । पूर्ववदाडागमः । हे विष्णो व्यापक तेन हन्मि मारयामि सपत्नं शत्रुम् । अथ यो मारयितुं न शक्यते एनं दुर्मरायुं मारयितु मशक्यं निरृत्याः पापदेवतायाः उपस्थे उत्सङ्गे आदधामि स्थापयामि । दुर्मरमात्मन इच्छतीति क्यजन्तात् । 'क्याच्छन्दसि' इत्युप्रत्ययः । निर्गता ऋतेः निरृतिः निर्दया । 'ऋतिस्सौत्रो धातुः घृणायां वर्तते' इत्युक्तेः । निरृतिरिति प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् गतिसमासे । 'तादौ च' इति ॥
7 -9हवींष्यासादयति - भूर्भुवस्सुवरिति व्याहृतिभिः ॥ 'ब्रह्मैता व्याहृतयः' इति ब्राह्मणम् । एतानि रूपाणि लोकत्रयात्मकानि, लोकत्रयस्थितिहेतुत्वात्; लोकत्रयात्मकव्याहृतित्रयरूपेण हवींषि स्तूयन्ते ॥
10 इध्ममभ्याधीयमानमनुमन्त्रयते - उच्छुष्म इति पिपीलिकामध्यया त्रिपदया यजुरन्तयानुष्टुभा । तत्र द्वादशाक्षरौ प्रथमतृतीयौ पादौ, मध्यमोष्टाक्षरः, अमर्त्यस्य त इत्यादि यजुः ॥ हे अग्ने यजमानाय उच्छुष्म उद्भूतबल एधि भव, यजमानकार्येष्वाविष्कृतबलो भव । अभिदासते उपक्षयते शत्रवे निशुष्मः न्यग्भूतबलो भव । दसु उपक्षये व्यत्ययेन शप्, 'धातोरकारस्य छान्दसो दीर्घः । यद्वा - दासृ दाने अभिपूर्व उपक्षयकर्मा द्रष्टव्यः । हे अग्ने अङ्गनादिगुण देवेद्ध देवैरिद्ध दीप्त मन्विद्ध मनुष्यैरिद्ध । उभयत्रापि 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । मन्द्रजिह्वा मदनी मदयित्री तर्पणि जिह्वा यस्य । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, 'मन्दिवाशि' इत्यादिना रक्प्रत्ययः, 'अमान्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वाच्चतुर्णामप्यामन्त्रितानामाद्युदात्तत्वमेव । होतः देवानामाह्वातः । अमर्त्यस्यामर्त्यात्मनस्ते तव मूर्धन् मूर्ध्नि । 'सुपां सुलुक्' इति ङेर्लुक् । आजिघर्मिं आभिमुख्येन क्षारयामि आदधामि । घृ क्षरणदीप्त्योः जौहोत्यादिक्कः, 'बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । रायो धनस्य पोषाय पुष्ट्यै । पूर्ववत्षष्ठ्यास्सत्वस्वरौ । सुप्रजास्त्वाय शोभनापत्यत्वाय । पूर्ववदसिच् । सुवीर्याय शोभनवीर्यत्वाय ॥
11 स्रौवमाघारमभिमन्त्रयते - मनोसीति यजुषा ॥ मनोसि मनसानिर्वर्तितत्वात्त्वम्मन एवासि । प्राजापत्यं प्रनापतिदेवत्यम् । यद्वा - प्रजापतेरिदं प्राजापत्यं, अतस्तदेवासि; 'तेन निर्वर्तित्त्वात्तत्त्वम् । तेन मनसा भूतेन च । जातावेकवचनम् । तेन प्रजापतिना सृष्टैर्देहारम्भकैर्भूतजातैश्च सह मामाविश मया सह सुखं निर्वर्तय । 'देवा वै सामिधेनीः' इत्यादि षष्ठद्वितीयकाण्डीयं ब्राह्मणम् ॥
12 स्रुच्यं - वागसीति यजुषा ॥ वागसि वाचा निर्वृत्तत्वात् वागेवासि त्वम् । ऐन्द्रीन्द्रदेवत्या । यद्वा - इन्द्रस्येयमैन्द्री वाक्, सैवासि । सपत्नक्षयणी शत्रूणां क्षयकरी । तत्त्वया वाचेन्द्रियेण च । जातावेकवचनम् । तेनैवेन्द्रेण सृष्टैरिन्द्रियैश्चक्षुरादिभिश्च सह सुखं मामाविश । 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादौ निपात्यते । 'सावेकाचः' इति वाचस्तृतीयोदात्ता ॥
13 प्रयाजाननुमन्त्रयते - वसन्तमृतूनां प्रीणामीति यजुर्भिः क्रमेण च । तत्र समिधः - वसन्तमिति ॥ वसन्ति प्रजास्सुखिता अस्मिन्निति वसन्तः । औणादिको झच्प्रत्ययः । ऋतूनाम्मध्ये वसन्तमृतूनां प्रीणामि तर्पयामि । निर्धारणस्वभावान्निर्धार्यमाण ऋतुरेव भवति; यथा - ब्राह्मणानां स्थविरमानयेति स्थविरो ब्राह्मण एवानीयते नान्यः । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । प्रीञ् तर्पणे क्रैयादिकस्सकर्मकः । तर्पयामीत्यर्थः । स च वसन्तः प्रीतः तया तर्पितो मां प्रीणातु तर्पयतु प्रजादिभिरभिमतैः । 'ऋतवो वै प्रजाकामाः' इत्यादि ब्राह्मणम्, 'समिधो यजति' इटायाद्यनुवाकश्च ।
14 तनूनपातं - ग्रीष्ममिति ॥ गीर्यन्तेस्मिन्नापो रविकिरणैरिति ग्रीष्मः । गिरतेर्मप्रत्ययष्षुगागम ईकारश्च निपात्यते ॥
15 इडां - वर्षा इति ॥ वर्षत्यासु पर्जन्य इति वर्षाः । एकस्मिन्नपि ऋतौ लिङ्गं बहुवचनं च स्वाभाविकम् ॥
16 बर्हिषः - शरदमिति ॥ शीर्यन्ते पच्यन्ते ओषधयोस्यामिति शरत् । । 'शॄदॄभसोदिः' इत्यदिप्रत्ययः । अत्रापि स्वाभाविकं स्त्रीत्वम् ॥
17 स्वाहाकारस्य - हेमन्तशिशिराविति ॥ शैत्यसामान्येन द्वयोस्समस्तयोरुपादानम्, प्रयाजानां पञ्चत्वात् । 'पञ्च वा ऋतवः' इत्यादिवचनं चोपपद्यते । हन्ति हिमेन जन्तूनिति हेमन्तः । 'हन्तेर्मुट् हि च' इति झच्प्रत्ययः । श्यति तनूकरोति हिमपीडया सङ्कोचयति भूतानीति शिशिरः । श्यतेः किरच्प्रत्ययः, द्विर्वचनमभ्यासस्येत्वं च निपात्यते ॥
18 आज्यभागावनुमन्त्रयते - अग्नीषोमयोरिति ॥ अग्निश्च सोमश्चाग्नीषोमौ । 'ईदग्नेस्सोमवरुणयोः' इतीत्वम्, 'अग्नेस्तुत्स्तोमसोमाः' इति षत्वम्, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । 'छन्दसि निष्टर्क्य' इत्यत्र देवयज्याशब्दो निपातितः । देवार्हो यागो देवयज्या । अग्नीषोमयोर्देवयज्यया अनेन देवार्हेण यागेन अहं चक्षुष्मान्भूयासम् । यथा यज्ञोग्नीषोमाभ्यां चक्षुष्मानेवमहमपि ताभ्यां चक्षुष्मान्भूयासमिति भावः ॥
19 आग्नेयस्य - अग्नेरिति ॥ अन्नादोन्नानामत्ता भूयासम्, देवानामग्नेरन्नादत्वात् ॥
20 उपांशुयाजस्य - दब्धिरिति ॥ दब्धिर्दभनं मरणं दम्भिता वा त्वमसि असुराणाम्, अहमपि त्वयादब्धो भूयासं शत्रूणामु[शत्रुभिरु]पहिंसितो मा भूवम् । अपि त्वमुं शत्रुं पाप्मानं दभेयं मारयेयम् । 'लिङ्याशिष्यङ्' । अमुमिति शत्रुनाम निर्दिशेत् ॥
21 अग्नीषोमीयस्य - अग्नीषोमयोरिति ॥ वृत्रस्य पाप्मनो हन्ता वृत्रहा । 'ब्रह्मभ्रूणवृत्रेषु' इति क्विप् भविष्यत्यपि धातुसम्बन्धे भवति । अग्नीषोमाभ्यामिन्द्रो वृत्रमहन्, तद्वदहमप्याभ्यां भ्रातृव्यस्य हन्ता भूयासमिति ॥
22 ऐन्द्राग्नस्य - इन्द्राग्नियोरिति ॥ 'नोत्तरपदेनुदात्तादौ' इति देवताद्वन्द्वलक्षणे पदद्वयप्रकृतिस्वरत्वे प्रतिषिद्धे समासान्तोदात्तत्वे च कृते । 'उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । इन्द्रियावी अन्नादश्च भूयासं, इन्द्रेणेन्द्रियावी अग्निनान्नादः । इन्द्रियशब्दान्मत्वर्थीयो विनिः, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् ॥
23 ऐन्द्रस्य सान्नायस्य - इन्द्रस्येति ॥ इन्द्रियावान्, इन्द्रो हीन्द्रियस्य दाता भवति, इन्द्रेण हि दत्तमिन्द्रियमिति ॥
24 माहेन्द्रस्य - महेन्द्रस्येति ॥ 'सन्महत्' इति समासः । जेमानं महिमानं च गमेयम् । जेमा जेतृत्वम् । 'तुश्छन्दसि' इतीमनिच्, ' छान्दस इकारलोपः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । जनयितृत्वं वा । जाभावः । महत्त्वं महिमा ॥
25 स्विष्टकृतः - अग्नेस्स्विष्टकृत इति ॥ स्विष्टं करोर्तीति स्विष्टकृत्, तस्य देवयज्ययाहमायुष्मान्भूत्वा यज्ञेन प्रतिष्ठां गमेयम् । यज्ञेन या प्रतिष्ठा भवति 'यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । ... प्रति तिष्ठति प्रजया पशुभिर्यजमानः' इति तामपि प्रतिष्ठां गमेयम् । 'लिङ्याशिष्यङ्' ॥
इति षष्ठे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 1.6.2.2 TS 1.6.2.2
द् यद्वा॒ स्कन्दा॒-दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑ दधामि॒ निर्.ऋ॑त्या उ॒पस्थे᳚ । भूर् भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वा-म॑र्त्यस्य ते होतर्मू॒र्द्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यं मन॑सा मा भू॒तेना *वि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी - [ ]
पदपाठः (Word-by-word)
यत् । वा॒ । स्कन्दा᳚त् । आज्य॑स्य । उ॒त । वि॒ष्णो॒ इति॑ ॥ तेन॑ । ह॒न्मि॒ । स॒पत्न᳚म् । दु॒र्म॒रा॒युमिति॑ दुः - म॒रा॒युम् । एति॑ । ए॒न॒म् । द॒धा॒मि॒ । निर्.ऋ॑त्या॒ इति॒ निः-ऋ॒त्याः॒ । उ॒पस्थ॒ इत्यु॒प - स्थे॒ ॥ भूः । भुवः॑ । सुवः॑ । उच्छु॑ष्म॒ इत्युत् - शु॒ष्मः॒ । अ॒ग्ने॒ । यज॑मानाय । ए॒धि॒ । निशु॑ष्म॒ इति॒ नि-शु॒ष्मः॒ । अ॒भि॒दास॑त॒ इत्य॑भि - दास॑ते ॥ अग्ने᳚ । देवे॒द्धेति॒ देव॑ - इ॒द्ध॒ । मन्वि॒द्धेति॒ मनु॑ - इ॒द्ध॒ । मन्द्र॑जि॒ह्वेति॒ मन्द्र॑-जि॒ह्व॒ । अम॑र्त्यस्य । ते॒ । हो॒तः॒ । मू॒र्द्धन्न् । एति॑ । जि॒घ॒र्मि॒ । रा॒यः । पोषा॑य । सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । सु॒वीर्या॒येति॑ सु - वीर्या॑य । मनः॑ । अ॒सि॒ । प्रा॒जा॒प॒त्यमिति॑ प्राजा-प॒त्यम् । मन॑सा । मा॒ । भू॒तेन॑ । एति॑ । वि॒श॒ । वाक् । अ॒सि॒ । ऐ॒न्द्री । स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.6.2.3 TS 1.6.2.3
वा॒चा मे᳚न्द्रि॒येणा *वि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु व॒र्॒.षा ऋ॑तू॒नां प्री॑णामि॒ ता मा᳚ प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा᳚ प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा᳚ प्री॒तौ प्री॑णीता-म॒ग्नीषोम॑यो-र॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम॒ग्नेर॒हं दे॑वय॒ज्यया᳚ऽन्ना॒दो भू॑यासं॒ - [ ]
पदपाठः (Word-by-word)
वा॒चा । मा॒ । इ॒न्द्रि॒येण॑ । एति॑ । वि॒श॒ । व॒स॒न्तम् । ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । सः । मा॒ । प्री॒तः । प्री॒णा॒तु॒ । ग्री॒ष्मम् । ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । सः । मा॒ । प्री॒तः । प्री॒णा॒तु॒ । व॒र्॒.षा ः । ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । ताः । मा॒ । प्री॒ताः । प्री॒ण॒न्तु॒ । श॒रद᳚म् । ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । सा । मा॒ । प्री॒ता । प्री॒णा॒तु॒ । हे॒म॒न्त॒शि॒शि॒राविति॑ हेमन्त - शि॒शि॒रौ । ऋ॒तू॒नाम् । प्री॒णा॒मि॒ । तौ । मा॒ । प्री॒तौ । प्री॒णी॒ता॒म् । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव- य॒ज्यया᳚ । चक्षु॑ष्मान् । भू॒या॒स॒म् । अ॒ग्नेः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भू॒या॒स॒म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.6.2.4 TS 1.6.2.4
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय-म॒ग्नीषोम॑यो-र॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒ऽहं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒ऽहं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयं ॥
पदपाठः (Word-by-word)
दब्धिः॑ । अ॒सि॒ । अद॑ब्धः । भू॒या॒स॒म् । अ॒मुम् । द॒भे॒य॒म् । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव- य॒ज्यया᳚ । वृ॒त्र॒हेति॑ वृत्र - हा । भू॒या॒स॒म् । इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । इ॒न्द्रि॒या॒वी । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भू॒या॒स॒म् । इन्द्र॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । इ॒न्द्रि॒या॒वी । भू॒या॒स॒म् । म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । जे॒मान᳚म् । म॒हि॒मान᳚म् । ग॒मे॒य॒म् । अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒मे॒य॒म् ॥
पदसंख्या: 36