अनुवाकः 10 TS 1.6.10

(A10)

(तेनै॒-व ब्रह्म॑- रा॒ष्ट्रमे॒-वास्य॑ य॒ज्ञ्स्य॑-प्राजाप॒त्यꣳ-षट्त्रिꣳ॑शच्च)

अनुवाकः 10 - Complete Audio

TS 1.6.10 - स्वरानुगामी

0:00 0:00
PS1.1 ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह
PS1.2 ध्रु॒वाने॒वैना᳚न् कुरुत उ॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑
PS1.3 भूयास॒-मित्या॒हाप्र॑तिवादिन ए॒वैना᳚न् कुरुते-ऽभि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑
PS1.4 भूयास॒मित्या॑ह॒ य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒
PS1.5 तमुपा᳚स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒
PS1.6 दैव्ये॒नेत्या॑है॒ष वाअ॒ग्नेर्योग॒स्तेनै॒ - [
PS1.7 ]
PS2.1 वैनं॑ ॅयुनक्ति य॒ज्ञ्स्य॒ वै
PS2.2 समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन्.
PS2.3 य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्. यन्मे॑
PS2.4 अग्ने अ॒स्य य॒ज्ञ्स्य॒ रिष्या॒दित्या॑ह
PS2.5 य॒ज्ञ्स्यै॒व तथ्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं
PS2.6 ॅलो॒कमे॑ति य॒ज्ञ्स्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न्
PS2.7 परा॑ भावयत्यग्निहो॒त्र-मे॒ताभि॒र् व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञ्मु॒खं
PS2.8 ॅवा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो
PS2.9 यज्ञ्मु॒ख ए॒व ब्रह्म॑ -
PS2.10 [ ]
PS3.1 कुरुते संॅवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑
PS3.2 सादये॒द्-ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं परि॑ गृह्णाति
PS3.3 दर्.शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र् व्याहृ॑तीभिर्
PS3.4 ह॒वीꣳष्यासा॑दयेद् यज्ञ्मु॒खं ॅवै द॑र्.शपूर्णमा॒सौ
PS3.5 चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञ्मु॒ख
PS3.6 ए॒व ब्रह्म॑ कुरुते संॅवथ्स॒रे
PS3.7 प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं
PS3.8 परि॑गृह्णाति॒ यद्वै य॒ज्ञ्स्य॒ साम्ना᳚
PS3.9 क्रि॒यते॑ रा॒ष्ट्रं - [
PS3.10 ]
PS4.1 ॅय॒ज्ञ्स्या॒-*शीर्ग॑च्छति॒ यदृ॒चा विशं॑ ॅय॒ज्ञ्स्या॒-
PS4.2 *शीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते
PS4.3 सामिधे॒नी-र॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दद्ध्या॒द् ब्रह्मै॒व
PS4.4 प्र॑ति॒पदं॑ कुरुते॒ तथा᳚ ब्राह्म॒णः
PS4.5 साशी᳚र्केण य॒ज्ञेन॑ यजते॒ यं
PS4.6 का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञ्स्या॒*शीर्ग॑च्छे॒दिति॒
PS4.7 तस्यै॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑यां दद्ध्याद्
PS4.8 भ्रातृव्यदेव॒त्या॑ वै पु॑रोनुवा॒क्या᳚ भ्रातृ॑व्यमे॒वास्य॑
PS4.9 य॒ज्ञ्स्या॒-[ ]
PS5.1 ऽऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ्
PS5.2 स॒माव॑त्येनान् य॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता
PS5.3 व्याहृ॑तीः पुरोनुवा॒क्या॑या अर्द्ध॒र्च एकां᳚
PS5.4 दद्ध्याद्-या॒ज्या॑यै पु॒रस्ता॒देकां᳚ ॅया॒ज्या॑या अर्द्ध॒र्च
PS5.5 एकां॒ तथै॑नान्थ् स॒माव॑ती य॒ज्ञ्स्या॒
PS5.6 ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒
PS5.7 सुवृ॑ष्टं॒ ॅवर्.ष॑त्ये॒वं ॅय॒ज्ञो यज॑मानाय
PS5.8 वर्.षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञ्ं
PS5.9 ॅयज॑मानः॒ परि॑ गृह्णाति॒ मनो॑ऽसि
PS5.10 प्राजाप॒त्यं - [ ]
PS6.1 मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒
PS6.2 वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो
PS6.3 मन॑ ए॒व य॒ज्ञ्मा॒त्मन् ध॑त्ते॒
PS6.4 वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे᳚न्द्रि॒येणा-ऽऽवि॒शेत्या॑है॒न्द्री
PS6.5 वै वाग्वाच॑-मे॒वैन्द्री- मा॒त्मन् ध॑त्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.6.10.1 TS 1.6.10.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैना᳚न् कुरुत उ॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒-मित्या॒हाप्र॑तिवादिन ए॒वैना᳚न् कुरुते-ऽभि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒ तमुपा᳚स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वाअ॒ग्नेर्योग॒स्तेनै॒ - [ ]
पदपाठः (Word-by-word)
ध्रु॒वः । अ॒सि॒ । ध्रु॒वः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । ध्रु॒वान् । ए॒व । ए॒ना॒न् । कु॒रु॒ते॒ । उ॒ग्रः । अ॒सि॒ । उ॒ग्रः । अ॒हम् । स॒जा॒तेष्विति॑ स-जा॒तेषु॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । अप्र॑तिवादिन॒ इत्यप्र॑ति - वा॒दि॒नः॒ । ए॒व । ए॒ना॒न् । कु॒रु॒ते॒ । अ॒भि॒भूरित्य॑भि - भूः । अ॒सि॒ । अ॒भि॒भूरित्य॑भि - भूः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । यः । ए॒व । ए॒न॒म् । प्र॒त्यु॒त्पिपी॑त॒ इति॑ प्रति-उ॒त्पिपी॑ते । तम् । उपेति॑ । अ॒स्य॒ते॒ । यु॒नज्मि॑ । त्वा॒ । ब्रह्म॑णा । दैव्ये॑न । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । योगः॑ । तेन॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः)।

नवमे द्वंद्वसंपादनमुक्तं, दशमे हविःसादनं विधीयते। प्रथमं तावद्द्वितीया-नुवाकस्य पूर्वभागोक्तानां मन्त्राणां व्याख्यानम्। तत्र परिध्यनुमन्त्रणमन्त्रा-नुदाहृत्य व्याचष्टे - ध्रुवोऽसीति। सजातेषु ध्रुवो भूयासमित्यनेन न केवलं स्वस्यैव ध्रुवत्वं प्रार्थितं, किंत्वेनाञ्ज्ञातीनपि ध्रुवानेव कर्तुं प्रार्थितम्। स्वस्यानुग्रहत्वेनाशिक्षिता ज्ञातयः प्रतिवादिनो भवन्ति। अत उग्रत्वप्रार्थनेन तन्निवार्यते। ज्ञातिमध्ये यः कोऽप्येनं यजमानं प्रत्युत्पिपीते प्रतिकूलो भूत्वोत्सादयितुमिच्छति तं प्रतिकूलमभिभविता भूयासमित्यनेनोपास्यत उपक्षिपति।

अग्नियोगमन्त्रमादौ व्याचष्टे - युनज्मीति। एष मन्त्रपाठ एवाग्नेर्योगो भवति। त्वामग्निं युनज्मीतिमन्त्रे श्रवणात्।

आसन्नस्य हविषोऽभिमन्त्रणं व्याचष्टे - यज्ञस्य वा इति। यज्ञस्य हि द्वावंशौ समृद्धो व्यृद्धश्च। यथाशास्त्रमनुष्ठितः समृद्धः। अतथाभूतो व्यृद्धः। तत्र समृद्धो देवानां स्वर्गप्राप्तहेतुः। व्यृद्धोऽ-सुराणां तिरस्कारहेतुः। अतोऽस्मिन्मन्त्रे रिष्यात्स्कन्दादिति व्यृद्धमनूद्य तेन हन्मि सपत्नमिति वैरिपराभवः कथ्यते। समृद्धो न स्वर्गं प्राप्नोतीत्यर्थो लभ्यते।

भूर्भुवः सुवरिति व्याहृतिभिरग्निहोत्रहविष उपसादनं विधत्ते – अग्निहोत्रामिति।

तदेतदुपपादयति - यज्ञमुखमिति। आधानानन्तरमेवानुष्ठेयत्वत्प्राधान्येन सर्वयज्ञेष्वग्निहोत्रस्य मुखत्वम्। व्याहृतयश्च त्रैलोक्यात्मनो विराड्रूपस्य परब्रह्मण्यारोपितशरीरस्य वाचकत्वेन ब्रह्मरूपाः। अतः प्रशस्ते यज्ञमुखे प्रशस्तं ब्रह्मरूपं व्याहृतित्रयं कृतवान्भवति।

अग्निहोत्रारम्भदिनगते हविःसादने व्याहृतीर्विधाय कालान्तरगतेऽपि सादने विदधाति - संवत्सर इति। आद्यन्तयोर्दिनयोर्व्याहृतिभिरुपसादनं प्रशंसति - ब्रह्मणैवेति। अग्निहोत्रवत्कर्मान्तरेऽपि व्याहृतिभिरासादनं विधत्ते - दर्शपूर्णमासाविति। यज्ञो ज्योतिष्टोमादिः। ततः पूर्वभावित्वाद्दर्शादेर्मुखत्वम्।

अन्यत्रापि व्याहृतीर्विधत्ते - यद्वै यज्ञस्येति। यज्ञसंबन्धि किंचिदङ्गं साम्ना क्रियते, यथा बहिष्पवमानादि। अन्यत्किंचिदङ्गमृचा क्रियते, यथा याज्यापुरोनुवाक्यादि। तत्र सामसाध्येनाङ्गेन यज्ञफलं तद्राष्ट्रं प्राप्नोति, राष्ट्रे सस्याद्यभिवृद्धिर्भवतीत्यर्थः। ऋक्साध्येनाङ्गेन यत्फलं तद्विशं प्रजां प्राप्नोति, प्रजाया आयुरारोग्यादि वर्धत इत्यर्थः। अथैवं सति ब्राह्मणो यजमानः फलप्रदैर्यजुर्भिर्विरहित्वादनाशीर्केण निष्फलेन यज्ञेनेष्टवान्भवति। अतो यज्ञरूपा व्याहृतीः प्रयुञ्ज्यात्। होत्राऽनुवचनीयाः प्र वो वाजा इत्यादय ऋचः सामिधेन्यः। तदनुवचनात्प्रागेव होता व्याहृतीः पठेत्। तद्देवताब्रह्मरूपं व्याहृतित्रयमेव सामिधेनीनां प्रतिपदं प्रारम्भं कृतवान्भवति। तथा सति यजमानः सफलेन यज्ञेनेष्टवान्भवति।

प्रकारान्तरेण विनियोगं हेयतयोपन्यस्यति - यं कामयेतेति। यं यजमानं प्रति होता द्वेषादेवं कामयेतास्य यज्ञस्य फलं यजमानवौरणं गच्छेदिति तस्य यजमानस्य यागे पुरोनुवाक्यायाः प्राग्व्याहृतीः प्रयुञ्ज्यात्। तदा पुरोनुवाक्याया वैरी देवतेति तत्फलं वैरिगाम्येव भवति।

प्रकारान्तरेण विनियोगमुपादेयतया विधत्ते - यान्कामयेतेति। बहुयजमानकानामहीनसत्राणामङ्गभूतेष्टिषु होता यद्येवं कामयेतैनान्सर्वान्यजमानान्यज्ञस्य फलं सममेव प्राप्नुयादिति तेषां यजमानानां यागे व्याहृतीरेवं दध्यात् – पुरोनुवाक्याया अर्धर्चेऽभिहिते सति प्रथमा व्याहृतिः। याज्यायाः पुरस्ताद्द्वितीया व्याहृतिः। याज्याया अर्धर्चेऽभिहिते सति तृतीया व्याहृतिः। तथा सत्येनान्सर्वान्यजमानान्याज्ञस्य फलं साम्येन प्राप्नोति।

तामेतां प्राप्तिं दृष्टान्तेन स्पष्टयति - यथा वै पर्जन्य इति। यथा सर्वतः प्रसृतो मेघः पक्षपातमन्तरेण सर्वेषु देशेष्वेकरूपं सुवृष्टं सस्यनिष्पत्तिक्षमं वर्षं मुञ्चत्येवमयं यथोक्तव्याहृत्युपेतो यज्ञः सर्वयजमानसंघाय सुफलं साधारण्येन प्रयच्छति। तेन च सुवृष्टेन नद्यां पूर्णायां सर्वे जना स्थलया कूलेनोदकं परिगृह्णन्ति, तद्वद्यजमानसंघ आशिषा साधारणफलेन युक्तमिमं यज्ञं परिगृह्णाति।

स्रौवाघारस्रुच्याघारानुमन्त्रणमन्त्रो व्याचष्टे - मनोऽसीति। सर्वव्यवहारसाधनस्य मनसः प्रजापतिना प्रथमसृष्टत्वान्मनसः प्राजापत्यत्वम्। प्रथमसृष्टिश्च होतृब्राह्मणकाण्डे समाम्नायते - “इदं वा अग्ने नैव किंचनाऽऽसीत्। न द्यौरासीत्। न पृथिवी। नान्तरिक्षम्। तदसदेव सन्मनोऽकुरुत स्यामिति” इति। बृहदारण्यकेऽप्याम्नातम् - “तन्मनोऽकु-रुताऽऽत्मन्वी स्यामिति” इति। प्रजापतिर्यज्ञानसृजतेत्युक्तत्वात्प्राजापत्यो यज्ञः। अनेन मन्त्रपाठेन तौ मनोयज्ञौ स्वस्मिन्स्थापयति। इन्द्रेण व्याकृतत्वा - द्वागैन्द्री। तां च मन्त्रपाठेन स्वात्मनि स्थापयति॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः॥१०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ध्रुवोसीत्यादीनां याजमानमन्त्राणां ब्राह्मणम् । तत्र परिधीनामनुमन्त्रणमन्त्राः ध्रुवोसीत्यादयः ॥ एनान् सजातानविनष्टान् करोति । तथा हि सति तेष्वयं ध्रुवतरो भवति । एनानप्रतिवादिनः कुरुते सजातान् । उग्रः उद्गूर्णः यस्याग्रे न कश्रित्प्रतिवदतीति । प्रत्युत्पिपीते सजातेषु मध्ये य एनं प्रातिकूल्येन उपजीवति तमुपास्यते उपक्षिपति । पीङ् पाने, दैवादिकः, व्यत्ययेन शपश्श्लुः । 'उपसर्गादस्यत्यूह्योर्वा वचनम्' इत्यस्यतेरात्मनेपदम् । 'अनुदात्ते च' इत्यभ्यस्तस्याद्युदात्तत्वम्, 'तिङि चोदात्तवति' इति द्वितीयस्य गतेः अनुदात्तत्वम्, । 'गतिर्गतौ' इति प्रथमस्य ॥
2 युनज्मि त्वेत्यग्नियोगः ॥ एष मन्त्रोग्नेर्योगः । अग्निर्युज्यते बद्ध्यतेऽनेनेति करणे घञ् ॥
3 यज्ञस्येत्यादि ॥ यज्ञस्य यत्स्वमृद्धं हविरादीनामन्यूनत्वम्, अन्यूनं वा हविरादि, तत्स्वर्गप्राप्तिहेतु । यत्पुनर्व्यृद्धं स्कन्नादिवैकल्यं तेनासुरान् पराभावयन्देवाः । 'यन्मे अग्रे' इत्यनेनासन्नहविरभिमन्त्रणेन तद्वैकल्यं प्रति पराभवनहेतुः क्रियत इत्यर्थः । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
4 हविरासादिन्यो व्याहृतयः ॥ विविधमाह्रियन्ते अनीयन्त इति व्याहृतयः । लोकत्रयात्मिकाः, विविधफलाहरणहेतुभूता वा । अनन्तरगतेः 'तादौ च' इति प्रकृतिस्वरत्वम् । एताभिरग्निहोत्रहविरुपसादयेत् । यज्ञमुखं वा अग्निहोत्रं, प्राधान्यात् । ब्रह्मैता इति, लोकत्रयात्मकत्वात् । पर्यागते पर्यावृत्ते । पूर्व्पदप्रकृतिस्वरत्वम् । उभयतः, सार्वविभक्तिकस्तसिल् ॥
5 दर्शपूर्णमासावित्यादि ॥ गतं प्रथमप्रयोग इदम् ॥
6 यद्वा इत्यादि ॥ यज्ञस्य या अशीः साम्ना क्रियते सा सामस्थाशीः आशंसनीयं फलं राष्ट्रं गच्छति यत्रायं वसति तद्राष्ट्रवासिनां तत्केवलं स्थात् । अथ यदृचा क्रियते सा यज्ञस्यशीः विशं गच्छति सर्वान्मनुष्यान् । जातावेकवचनम् । अथेदानीमयं ब्राह्मणो वराकोऽनाशीर्केणाफलेन यज्ञेन यजते, किमेतद्युज्यते ? यद्वा - तिष्ठन्त्वन्ये; ब्राह्मणः किमनाशीर्केण यजेत यः प्रयोजनमन्तरेणाहितं निमेषमात्रमपि न करोतीति प्रतिपादनार्थं ब्राह्मणग्रहणम् । यजुषां प्रायेण करण(क)मन्त्रत्वान्न तत्र कदाचिदाशीरिति ऋक्सामयोरेव ग्रहणम् । नास्त्याशीरस्येति बहुव्रीहौ कप् । अयस्मयादित्वेन पदत्वाद्रुत्वम्, भत्वाद्विसर्जनीयाभावः, 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सामिधेनीरित्यादि । समिधामाधानमन्त्रास्सामिधेन्यः 'प्र वो वाजाः' इत्याद्याः । 'समिधामाधाने षेण्यण्', 'हलस्तद्धितस्य' इति यलोपः । प्रतिपदं प्रारम्भं कुरुते । प्रथमतः पद्यत इति प्रतिपत् । सम्पदादित्वात्क्विप् ॥
7 यं कामयेतेत्यादि ॥ पुरस्तादवदानकालेनूच्यत इति पुरोनुवाक्या । गतमन्यत् ॥
8 यानित्यादि ॥ समावती समा सर्वेषां तुल्या न कदाचिदपि भ्रातृव्यस्य । यद्वा - समा अविषमा सदा यजमानगामिनी । समादावतुप् । ऋचोर्धमर्धर्चः । 'अर्धं नपुंसकम्' इतिसमासः, 'ऋक्पूरब्धूः' इत्यादिना अप्रत्ययस्समासान्तः । इज्यतेनयेति याज्या । 'यज याच' इति कुत्वाभावः । यथेति । स्थलया कूलेन उदकं परिगृह्णन्ति निरुद्धन्ति । एवमाशिषा यज्ञं यजमानः परिगृह्णाति फलप्रदानैकव्यापारयन्त्रितमिव करोति, यथा न कदाचिदपि फलमददानस्तिष्ठति, दत्ते चेदं न याचते यजमानः, याचितेयाचिते ददाति यज्ञ इति ॥
9 मनोसीति ॥ स्रौवाघाराभिमन्त्रणम् । प्राजापत्याविशेषान्मन इति यज्ञ उच्यते ॥
10 वागसीति ॥ स्रुच्याघाराभिमन्त्रणम् । गतम् ॥
इति षष्ठे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.6.10.2 TS 1.6.10.2
वैनं॑ ॅयुनक्ति य॒ज्ञ्स्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन्. य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्. यन्मे॑ अग्ने अ॒स्य य॒ज्ञ्स्य॒ रिष्या॒दित्या॑ह य॒ज्ञ्स्यै॒व तथ्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति य॒ज्ञ्स्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्निहो॒त्र-मे॒ताभि॒र् व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञ्मु॒खं ॅवा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञ्मु॒ख ए॒व ब्रह्म॑ - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । यु॒न॒क्ति॒ । य॒ज्ञ्स्य॑ । वै । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । असु॑रान् । परेति॑ । अ॒भा॒व॒य॒न्न् । यत् । मे॒ । अ॒ग्ने॒ । अ॒स्य । य॒ज्ञ्स्य॑ । रिष्या᳚त् । इति॑ । आ॒ह॒ । य॒ज्ञ्स्य॑ । ए॒व । तत् । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । यज॑मानः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । भ्रातृ॑व्यान् । परेति॑ । भा॒व॒य॒ति॒ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । ए॒ताभिः॑ । व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । उपेति॑ । सा॒द॒ये॒त् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - म॒खम् । वै । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । ब्रह्म॑ । ए॒ताः । व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । ए॒व । ब्रह्म॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.6.10.3 TS 1.6.10.3
कुरुते संॅवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑ सादये॒द्-ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं परि॑ गृह्णाति दर्.शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र् व्याहृ॑तीभिर् ह॒वीꣳष्यासा॑दयेद् यज्ञ्मु॒खं ॅवै द॑र्.शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञ्मु॒ख ए॒व ब्रह्म॑ कुरुते संॅवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं परि॑गृह्णाति॒ यद्वै य॒ज्ञ्स्य॒ साम्ना᳚ क्रि॒यते॑ रा॒ष्ट्रं - [ ]
पदपाठः (Word-by-word)
कु॒रु॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प॒र्याग॑त॒ इति॑ परि - आग॑ते । ए॒ताभिः॑ । ए॒व । उपेति॑ । सा॒द॒ये॒त् । ब्रह्म॑णा । ए॒व । उ॒भ॒यतः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । परीति॑ । गृ॒ह्णा॒ति॒ । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः । ए॒ताभिः॑ । व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । ह॒वीꣳषि॑ । एति॑ । सा॒द॒ये॒त् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । वै । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । ब्रह्म॑ । ए॒ताः । व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । ए॒व । ब्रह्म॑ । कु॒रु॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प॒र्याग॑त॒ इति॑ परि - आग॑ते । ए॒ताभिः॑ । ए॒व । एति॑ । सा॒द॒ये॒त् । ब्रह्म॑णा । ए॒व । उ॒भ॒यतः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । परीति॑ । गृ॒ह्णा॒ति॒ । यत् । वै । य॒ज्ञ्स्य॑ । साम्ना᳚ । क्रि॒यते᳚ । रा॒ष्ट्रम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.6.10.4 TS 1.6.10.4
ॅय॒ज्ञ्स्या॒-*शीर्ग॑च्छति॒ यदृ॒चा विशं॑ ॅय॒ज्ञ्स्या॒- *शीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नी-र॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दद्ध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा᳚ ब्राह्म॒णः साशी᳚र्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञ्स्या॒*शीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑यां दद्ध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोनुवा॒क्या᳚ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञ्स्या॒-[ ]
पदपाठः (Word-by-word)
य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यत् । ऋ॒चा । विश᳚म् । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । अथ॑ । ब्रा॒ह्म॒णः । अ॒ना॒शीर्के॑ण । य॒ज्ञेन॑ । य॒ज॒ते॒ । सा॒मि॒धे॒नीरिति॑ साम् - इ॒धे॒नीः । अ॒नु॒व॒क्ष्यन्नित्य॑नु - व॒क्ष्यन्न् । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रस्ता᳚त् । द॒द्ध्या॒त् । ब्रह्म॑ । ए॒व । प्र॒ति॒पद॒मिति॑ प्रति-पद᳚म् । कु॒रु॒ते॒ । तथा᳚ । ब्रा॒ह्म॒णः । साशी᳚र्के॒णेति॒ स -आ॒शी॒र्के॒ण॒ । य॒ज्ञेन॑ । य॒ज॒ते॒ । यम् । का॒मये॑त । यज॑मानम् । भ्रातृ॑व्यम् । अ॒स्य॒ । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छे॒त् । इति॑ । तस्य॑ । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रो॒नु॒वा॒क्या॑या॒मिति॑ पुरः - अ॒नु॒वा॒क्या॑याम् । द॒द्ध्या॒त् । भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । वै । पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ । भ्रातृ॑व्यम् । ए॒व । अ॒स्य॒ । य॒ज्ञ्स्य॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.6.10.5 TS 1.6.10.5
ऽऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ् स॒माव॑त्येनान् य॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑या अर्द्ध॒र्च एकां᳚ दद्ध्याद्-या॒ज्या॑यै पु॒रस्ता॒देकां᳚ ॅया॒ज्या॑या अर्द्ध॒र्च एकां॒ तथै॑नान्थ् स॒माव॑ती य॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ ॅवर्.ष॑त्ये॒वं ॅय॒ज्ञो यज॑मानाय वर्.षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञ्ं ॅयज॑मानः॒ परि॑ गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं - [ ]
पदपाठः (Word-by-word)
आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यान् । का॒मये॑त । यज॑मानान् । स॒माव॑ती । ए॒ना॒न् । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छे॒त् । इति॑ । तेषा᳚म् । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः-अ॒नु॒वा॒क्या॑याः । अ॒द्‌र्ध॒र्च इत्य॒॑द्‌र्ध-ऋ॒चे । एका᳚म् । द॒द्ध्या॒त् । या॒ज्या॑यै । पु॒रस्ता᳚त् । एका᳚म् । या॒ज्या॑याः । अ॒द्‌र्ध॒र्च इत्य॑द्‌र्ध - ऋ॒चे । एका᳚म् । तथा᳚ । ए॒ना॒न् । स॒माव॑ती । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यथा᳚ । वै । प॒र्जन्यः॑ । सुवृ॑ष्ट॒मिति॒ सु - वृ॒ष्ट॒म् । वर्.ष॑ति । ए॒वम् । य॒ज्ञ्ः । यज॑मानाय । व॒र्॒.ष॒ति॒ । स्थल॑या । उ॒द॒कम् । प॒रि॒गृ॒ह्णन्तीति॑ परि - गृ॒ह्णन्ति॑ । आ॒शिषेत्या᳚ - शिषा᳚ । य॒ज्ञ्म् । यज॑मानः । परीति॑ । गृ॒ह्णा॒ति॒ । मनः॑ । अ॒सि॒ । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.6.10.6 TS 1.6.10.6
मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञ्मा॒त्मन् ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे᳚न्द्रि॒येणा-ऽऽवि॒शेत्या॑है॒न्द्री वै वाग्वाच॑-मे॒वैन्द्री- मा॒त्मन् ध॑त्ते ॥
पदपाठः (Word-by-word)
मन॑सा । मा॒ । भू॒तेन॑ । एति॑ । वि॒श॒ । इति॑ । आ॒ह॒ । मनः॑ । वै । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । य॒ज्ञ्ः । मनः॑ । ए॒व । य॒ज्ञ्म् । आ॒त्मन्न् । ध॒त्ते॒ । वाक् । अ॒सि॒ । ऐ॒न्द्री । स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी । वा॒चा । मा॒ । इ॒न्द्रि॒येण॑ । एति॑ । वि॒श॒ । इति॑ । आ॒ह॒ । ऐ॒न्द्री । वै । वाक् । वाच᳚म् । ए॒व । ऐ॒न्द्रीम् । आ॒त्मन्न् । ध॒त्ते॒ ॥
पदसंख्या: 36