पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः)।
नवमे द्वंद्वसंपादनमुक्तं, दशमे हविःसादनं विधीयते। प्रथमं तावद्द्वितीया-नुवाकस्य पूर्वभागोक्तानां मन्त्राणां व्याख्यानम्। तत्र परिध्यनुमन्त्रणमन्त्रा-नुदाहृत्य व्याचष्टे - ध्रुवोऽसीति। सजातेषु ध्रुवो भूयासमित्यनेन न केवलं स्वस्यैव ध्रुवत्वं प्रार्थितं, किंत्वेनाञ्ज्ञातीनपि ध्रुवानेव कर्तुं प्रार्थितम्। स्वस्यानुग्रहत्वेनाशिक्षिता ज्ञातयः प्रतिवादिनो भवन्ति। अत उग्रत्वप्रार्थनेन तन्निवार्यते। ज्ञातिमध्ये यः कोऽप्येनं यजमानं प्रत्युत्पिपीते प्रतिकूलो भूत्वोत्सादयितुमिच्छति तं प्रतिकूलमभिभविता भूयासमित्यनेनोपास्यत उपक्षिपति।
अग्नियोगमन्त्रमादौ व्याचष्टे - युनज्मीति। एष मन्त्रपाठ एवाग्नेर्योगो भवति। त्वामग्निं युनज्मीतिमन्त्रे श्रवणात्।
आसन्नस्य हविषोऽभिमन्त्रणं व्याचष्टे - यज्ञस्य वा इति। यज्ञस्य हि द्वावंशौ समृद्धो व्यृद्धश्च। यथाशास्त्रमनुष्ठितः समृद्धः। अतथाभूतो व्यृद्धः। तत्र समृद्धो देवानां स्वर्गप्राप्तहेतुः। व्यृद्धोऽ-सुराणां तिरस्कारहेतुः। अतोऽस्मिन्मन्त्रे रिष्यात्स्कन्दादिति व्यृद्धमनूद्य तेन हन्मि सपत्नमिति वैरिपराभवः कथ्यते। समृद्धो न स्वर्गं प्राप्नोतीत्यर्थो लभ्यते।
भूर्भुवः सुवरिति व्याहृतिभिरग्निहोत्रहविष उपसादनं विधत्ते – अग्निहोत्रामिति।
तदेतदुपपादयति - यज्ञमुखमिति। आधानानन्तरमेवानुष्ठेयत्वत्प्राधान्येन सर्वयज्ञेष्वग्निहोत्रस्य मुखत्वम्। व्याहृतयश्च त्रैलोक्यात्मनो विराड्रूपस्य परब्रह्मण्यारोपितशरीरस्य वाचकत्वेन ब्रह्मरूपाः। अतः प्रशस्ते यज्ञमुखे प्रशस्तं ब्रह्मरूपं व्याहृतित्रयं कृतवान्भवति।
अग्निहोत्रारम्भदिनगते हविःसादने व्याहृतीर्विधाय कालान्तरगतेऽपि सादने विदधाति - संवत्सर इति। आद्यन्तयोर्दिनयोर्व्याहृतिभिरुपसादनं प्रशंसति - ब्रह्मणैवेति। अग्निहोत्रवत्कर्मान्तरेऽपि व्याहृतिभिरासादनं विधत्ते - दर्शपूर्णमासाविति। यज्ञो ज्योतिष्टोमादिः। ततः पूर्वभावित्वाद्दर्शादेर्मुखत्वम्।
अन्यत्रापि व्याहृतीर्विधत्ते - यद्वै यज्ञस्येति। यज्ञसंबन्धि किंचिदङ्गं साम्ना क्रियते, यथा बहिष्पवमानादि। अन्यत्किंचिदङ्गमृचा क्रियते, यथा याज्यापुरोनुवाक्यादि। तत्र सामसाध्येनाङ्गेन यज्ञफलं तद्राष्ट्रं प्राप्नोति, राष्ट्रे सस्याद्यभिवृद्धिर्भवतीत्यर्थः। ऋक्साध्येनाङ्गेन यत्फलं तद्विशं प्रजां प्राप्नोति, प्रजाया आयुरारोग्यादि वर्धत इत्यर्थः। अथैवं सति ब्राह्मणो यजमानः फलप्रदैर्यजुर्भिर्विरहित्वादनाशीर्केण निष्फलेन यज्ञेनेष्टवान्भवति। अतो यज्ञरूपा व्याहृतीः प्रयुञ्ज्यात्। होत्राऽनुवचनीयाः प्र वो वाजा इत्यादय ऋचः सामिधेन्यः। तदनुवचनात्प्रागेव होता व्याहृतीः पठेत्। तद्देवताब्रह्मरूपं व्याहृतित्रयमेव सामिधेनीनां प्रतिपदं प्रारम्भं कृतवान्भवति। तथा सति यजमानः सफलेन यज्ञेनेष्टवान्भवति।
प्रकारान्तरेण विनियोगं हेयतयोपन्यस्यति - यं कामयेतेति। यं यजमानं प्रति होता द्वेषादेवं कामयेतास्य यज्ञस्य फलं यजमानवौरणं गच्छेदिति तस्य यजमानस्य यागे पुरोनुवाक्यायाः प्राग्व्याहृतीः प्रयुञ्ज्यात्। तदा पुरोनुवाक्याया वैरी देवतेति तत्फलं वैरिगाम्येव भवति।
प्रकारान्तरेण विनियोगमुपादेयतया विधत्ते - यान्कामयेतेति। बहुयजमानकानामहीनसत्राणामङ्गभूतेष्टिषु होता यद्येवं कामयेतैनान्सर्वान्यजमानान्यज्ञस्य फलं सममेव प्राप्नुयादिति तेषां यजमानानां यागे व्याहृतीरेवं दध्यात् – पुरोनुवाक्याया अर्धर्चेऽभिहिते सति प्रथमा व्याहृतिः। याज्यायाः पुरस्ताद्द्वितीया व्याहृतिः। याज्याया अर्धर्चेऽभिहिते सति तृतीया व्याहृतिः। तथा सत्येनान्सर्वान्यजमानान्याज्ञस्य फलं साम्येन प्राप्नोति।
तामेतां प्राप्तिं दृष्टान्तेन स्पष्टयति - यथा वै पर्जन्य इति। यथा सर्वतः प्रसृतो मेघः पक्षपातमन्तरेण सर्वेषु देशेष्वेकरूपं सुवृष्टं सस्यनिष्पत्तिक्षमं वर्षं मुञ्चत्येवमयं यथोक्तव्याहृत्युपेतो यज्ञः सर्वयजमानसंघाय सुफलं साधारण्येन प्रयच्छति। तेन च सुवृष्टेन नद्यां पूर्णायां सर्वे जना स्थलया कूलेनोदकं परिगृह्णन्ति, तद्वद्यजमानसंघ आशिषा साधारणफलेन युक्तमिमं यज्ञं परिगृह्णाति।
स्रौवाघारस्रुच्याघारानुमन्त्रणमन्त्रो व्याचष्टे - मनोऽसीति। सर्वव्यवहारसाधनस्य मनसः प्रजापतिना प्रथमसृष्टत्वान्मनसः प्राजापत्यत्वम्। प्रथमसृष्टिश्च होतृब्राह्मणकाण्डे समाम्नायते - “इदं वा अग्ने नैव किंचनाऽऽसीत्। न द्यौरासीत्। न पृथिवी। नान्तरिक्षम्। तदसदेव सन्मनोऽकुरुत स्यामिति” इति। बृहदारण्यकेऽप्याम्नातम् - “तन्मनोऽकु-रुताऽऽत्मन्वी स्यामिति” इति। प्रजापतिर्यज्ञानसृजतेत्युक्तत्वात्प्राजापत्यो यज्ञः। अनेन मन्त्रपाठेन तौ मनोयज्ञौ स्वस्मिन्स्थापयति। इन्द्रेण व्याकृतत्वा - द्वागैन्द्री। तां च मन्त्रपाठेन स्वात्मनि स्थापयति॥