पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेऽनूयाजादिशेषहोमानुमन्त्रणमुक्तम्। पञ्चमे त्वाप्यायनादिमन्त्रा उच्यन्ते।
आ प्यायतामिति। कल्पः - ‘ध्रुवामाप्यायमानामनुमन्त्रयते - आ प्याययतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः। सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्निति’ इति। यज्ञंयज्ञं प्रति तां तामाहुतिं प्रति देवयद्भ्यो देवान्होतुमिच्छद्भ्य ऋत्विग्भ्यः। पर्याप्तेन घृतेनेयं ध्रुवाऽऽप्यायतां पुनः पुनः पूर्यताम्। ऊधःशब्देन पयःपूर्णस्त-नसंघोऽभिधीयते। सूर्याशब्देनोषा आदित्यपत्नी विवक्ष्यते। तत्पत्नीत्वं च नक्ष-त्रेष्टावाम्नायते – ‘उषा वा अकामयत। प्रियाऽऽदित्यस्य सुभगा स्यामिति’ (ब्रा॰ का॰ ३ प्र॰ १ अ॰ ६) इति। इवशब्दोऽत्राध्याहर्तव्यः। यथा सूर्याया गोरूपधारिण्या ऊधः पयःपूर्णं तथा ध्रुवा घृतेनाऽऽप्यायताम्। किंच, अदित्या वेदिरूपायाः पृथिव्या उपस्थ उत्सङ्गे वर्तमाना सेयं ध्रुवोरूधारा महाधारा पुनः पुनः सिच्यमानाभिराज्यधारामिरुपेताऽत एव पृथिवी विस्तीर्णा सत्यस्मिन्सर्व-स्मिन्यज्ञे सम्यगाप्यायताम्।
प्रजापतेरिति। कल्पः - ‘अथ यजमानभागं प्राश्नाति प्रजापतेर्विभान्नाम लोकस्तस्मिस्त्वा दधामि सह यजमानेनेति’ इति।
यद्यपि स्वर्गादिलोकाः सर्वे प्रजापतिना सृष्टत्वात्तत्संबन्धिनस्तथाऽप्यक-र्मभूमित्वेन यजमानान्प्रति विशेषेण न भान्तीति नास्ति एतेषां विभाञ्शब्द-वाच्यः। विभान्नामके प्रजापतिसंबन्धिनि तस्मिन्भूलोके हविर्भागभक्षकेण यजमानेन मया सह त्वां स्थापयामि। सदसीति। कल्पः - ‘पूर्णपात्रे यजमानं वाचयति सादसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इति’ इति।
पूर्णपात्र आनीयमानेऽध्वर्युणेति शेषः। हे पूर्णपात्र त्वं सदसि संयवनादिकार्यकारितया शोभनमसि। अतो मम फलप्रदानेन सद्भूयाः शोभनं भूयाः। सर्वमसि व्युत्सेकेन वक्ष्यमाणेन प्राच्यादिसर्वदिग्व्याप्तमसि। अतो ममापेक्षितं सर्वं कार्यं कर्तुं क्षमं भूयाः। अद्भिः पूर्णमसि। अतो मम प्रयोजनं संपूर्णं कर्तुमुद्युक्तं भूयाः। अक्षितमसि पूर्णत्वादेव क्षयरहितमसि। अतो मम कार्यकरणे मा क्षेष्ठाः क्षयं मा प्राप्नुहि।
प्राच्यां दिशीति। कल्पः - ‘दिशो व्यूहति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामिति’ इति।
ऋत्विग्देवाद्यभिमानिनः सर्वे प्राणिनो यागं द्रष्टुं प्राच्यादिदिक्षु निवसन्ति। अत एव ब्राह्मणमाम्नायते – ‘सर्वाणि वै भूतानि व्रक्षमुपयन्तमनूपयन्ति’ इति। मासगृहादीनामचेतनत्वेऽपि तदभिमानिनः पुरुषा इह विवक्षिताः। अन्तर्धानादिशक्तियोगादेतेषामदर्शनमविरुद्धम्। त एते देवादयस्तस्यां तस्यां दिशि मार्जयन्तां शोधयन्ताम्।
विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।
तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।
द्वितीयादिमन्त्रपाठस्तु - विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि। यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति। शत्रुत्वं हिंसकत्वं, तदिच्छन्तो वैरिणः शत्रूयतः(न्तः)। चतुर्थप्रक्रमस्तान्हन्ति।
अत्र विनियोगसंग्रहः —
“आप्या ध्रुवाप्यायनं स्यात्प्रजा स्वाम्यंशभक्षणम्।
सदसीति प्रणीतानां धाराया अभिमन्त्रणम्॥१॥
प्राच्यां तु पञ्चभिः सिञ्चेत्क्रमेद्विष्णोश्चतुष्टयात्।
अनुवाके पञ्चमेऽस्मिन्मन्त्र द्वादश वर्णिताः॥२॥ इति।