प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.8.2 TS 2.4.8.2
वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुतः समुद्र॒तो यू॒यं ॅवृ॒ष्टिं ॅव॑र्.षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ ॅया॒तामनु॒ रथा॑ अवृथ्सत ॥ सृ॒जा वृ॒ष्टिं दि॒व आऽद्भिः स॑मु॒द्रं पृ॑ण ॥ अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियं᳚ ॥ उन्न॑म्भय पृथि॒वीं भि॒न्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ विसृ॑जा॒ दृतिं᳚ ॥ ये दे॒वा ( ) दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्ष भागा॒ ये पृ॑थि॒वि भा॑गाः । त इ॒मं ॅय॒ज्ञ्म॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ॥
पदपाठः (Word-by-word)
वृ॒ष्टयः॑ ॥ उदिति॑ । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्॒.ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ॥ न । वः॒ । द॒स्राः॒ । उपेति॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ᳚म् । या॒ताम् । अन्विति॑ । रथाः᳚ । अ॒वृ॒थ्स॒त॒ ॥ सृ॒ज । वृ॒ष्टिम् । दि॒वः । एति॑ । अ॒द्भिरित्य॑त् - भिः । स॒मु॒द्रम् । पृ॒ण॒ ॥ अ॒ब्जा इत्य॑प् - जाः । अ॒सि॒ । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । बल᳚म् । अ॒सि॒ । स॒मु॒द्रिय᳚म् ॥ उदिति॑ । न॒भं॒य॒ । पृ॒थि॒वीम् । भि॒न्धि । इ॒दम् । दि॒व्यम् । नभः॑ ॥ उ॒द्नः । दि॒व्यस्य॑ । नः॒ । दे॒हि॒ । ईशा॑नः । वीति॑ । सृ॒ज॒ । दृति᳚म् ॥ ये । दे॒वाः ( ) । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ । ये । अ॒न्तरि॑क्षभागा॒ इत्य॒न्तरि॑क्ष - भा॒गाः॒ । ये । पृ॒थि॒विभा॑गा॒ इति॑ पृथि॒वि - भा॒गाः॒ ॥ ते । इ॒मम् । य॒ज्ञ्म् । अ॒व॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । एति॑ । वि॒श॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । अनु॑ । वीति॑ । वि॒श॒न्तु॒ ॥
पदसंख्या: 70