अनुवाकः 10 TS 4.3.10

(A10)

(सं॒ॅव॒थ्स॒रोऽधि॑पति॒- र्वि - पञ्च॑त्रिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 4.3.10 - स्वरानुगामी

0:00 0:00
PS1.1 एक॑याऽस्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्
PS1.2 ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒-रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत
PS1.3 भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीथ् स॒प्तभि॑रस्तुवत
PS1.4 सप्त॒र्॒.षयो॑ऽसृज्यन्त धा॒ता-धि॑पतिरासी-न्न॒वभि॑रस्तुवत पि॒तरो॑-ऽसृज्य॒न्ता-ऽ*दि॑ति॒रधि॑पत्न्यासी-देकाद॒शभि॑-रस्तुवत॒र्तवो॑ऽ सृज्यन्ता-
PS1.5 ऽऽर्त॒वो-ऽधि॑पति-रासीत् त्रयोद॒शभि॑-रस्तुवत॒ मासा॑ असृज्यन्त
PS1.6 संॅवथ्स॒रोऽधि॑पति- [ ]
PS2.1 -रासीत् पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो ऽधि॑पतिरासीथ्-सप्तद॒शभि॑रस्तुवत
PS2.2 प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पति-रासीन्नवद॒शभि॑-रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी
PS2.3 आस्ता॒मेक॑विꣳ शत्याऽस्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णो
PS2.4 ऽधि॑पतिरासी॒त् त्रयो॑विꣳशत्याऽस्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त
PS2.5 पू॒षा ऽधि॑पतिरासी॒त् पञ्च॑विꣳशत्या ऽस्तुवता*ऽऽर॒ण्याः
PS2.6 प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीथ् स॒प्तविꣳ॑शत्याऽस्तुवत॒ द्यावा॑पृथि॒वी
PS2.7 व्यै॑- [ ]
PS3.1 -तां॒ ॅवस॑वो रु॒द्रा आ॑दि॒त्या
PS3.2 अनु॒ व्या॑य॒न् तेषा॒माधि॑पत्यमासी॒-न्नव॑विꣳ शत्याऽस्तुवत॒
PS3.3 वन॒स्पत॑योऽसृज्यन्त॒ सोमो ऽधि॑पतिरासी॒-देक॑त्रिꣳशता ऽस्तुवत
PS3.4 प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒
PS3.5 चाऽऽधि॑पत्यमासी॒त् त्रय॑स्त्रिꣳशता ऽस्तुवत भू॒तान्य॑शाम्यन्
PS3.6 प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.3.10.1 TS 4.3.10.1
एक॑याऽस्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत् ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒-रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीथ् स॒प्तभि॑रस्तुवत सप्त॒र्॒.षयो॑ऽसृज्यन्त धा॒ता-धि॑पतिरासी-न्न॒वभि॑रस्तुवत पि॒तरो॑-ऽसृज्य॒न्ता-ऽ*दि॑ति॒रधि॑पत्न्यासी-देकाद॒शभि॑-रस्तुवत॒र्तवो॑ऽ सृज्यन्ता- ऽऽर्त॒वो-ऽधि॑पति-रासीत् त्रयोद॒शभि॑-रस्तुवत॒ मासा॑ असृज्यन्त संॅवथ्स॒रोऽधि॑पति- [ ]
पदपाठः (Word-by-word)
एक॑या । अ॒स्तु॒व॒त॒ । प्र॒जा इति॑ प्र - जाः । अ॒धी॒य॒न्त॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । अ॒स्तु॒व॒त॒ । ब्रह्म॑ । अ॒सृ॒ज्य॒त॒ । ब्रह्म॑णः । पतिः॑ । अधि॑पति॒रित्यधि॑-प॒तिः॒ । आ॒सी॒त् । प॒ञ्चभि॒रिति॑ प॒ञ्च-भिः॒ । अ॒स्तु॒व॒त॒ । भू॒तानि॑ । अ॒सृ॒ज्य॒न्त॒ । भू॒ताना᳚म् । पतिः॑ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । स॒प्तभि॒रिति॑ स॒प्त - भिः॒ । अ॒स्तु॒व॒त॒ । स॒प्त॒र्॒.षय॒ इति॑ सप्त - ऋ॒षयः॑ । अ॒सृ॒ज्य॒न्त॒ । धा॒ता । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । न॒वभि॒रिति॑ न॒व - भिः॒ । अ॒स्तु॒व॒त॒ । पि॒तरः॑ । अ॒सृ॒ज्य॒न्त॒ । अदि॑तिः । अधि॑प॒त्नीत्यधि॑-प॒त्नी॒ । आ॒सी॒त् । ए॒का॒द॒शभि॒रित्ये॑काद॒श - भिः॒ । अ॒स्तु॒व॒त॒ । ऋ॒तवः॑ । अ॒सृ॒ज्य॒न्त॒ । आ॒र्त॒वः । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । त्र॒यो॒द॒शभि॒रिति॑ त्रयोद॒श - भिः॒ । अ॒स्तु॒व॒त॒ । मासाः᳚ । अ॒सृ॒ज्य॒न्त॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.3.10.2 TS 4.3.10.2
-रासीत् पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो ऽधि॑पतिरासीथ्-सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पति-रासीन्नवद॒शभि॑-रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विꣳ शत्याऽस्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णो ऽधि॑पतिरासी॒त् त्रयो॑विꣳशत्याऽस्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षा ऽधि॑पतिरासी॒त् पञ्च॑विꣳशत्या ऽस्तुवता*ऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीथ् स॒प्तविꣳ॑शत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑- [ ]
पदपाठः (Word-by-word)
आ॒सी॒त् । प॒ञ्च॒द॒शभि॒रिति॑ पञ्चद॒श -भिः॒ । अ॒स्तु॒व॒त॒ । क्ष॒त्रम् । अ॒सृ॒ज्य॒त॒ । इन्द्रः॑ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । स॒प्त॒द॒शभि॒रिति॑ सप्तद॒श-भिः॒ । अ॒स्तु॒व॒त॒ । प॒शवः॑ । अ॒सृ॒ज्य॒न्त॒ । बृह॒स्पतिः॑ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । न॒व॒द॒शभि॒रिति॑ नवद॒श -भिः॒ । अ॒स्तु॒व॒त॒ । शू॒द्रा॒र्याविति॑ शूद्र - अ॒र्यौ । अ॒सृ॒ज्ये॒ता॒म् । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । अधि॑पत्नी॒ इत्यधि॑- प॒त्नी॒ । आ॒स्ता॒म् । एक॑विꣳश॒त्येत्येक॑ - विꣳ॒॒श॒त्या॒ । अ॒स्तु॒व॒त । एक॑शफा॒ इत्येक॑ - श॒फाः॒ । प॒शवः॑ । अ॒सृ॒ज्य॒न्त॒ । वरु॑णः । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । त्रयो॑विꣳश॒त्येति॒ त्रयः॑-विꣳ॒॒श॒त्या॒ । अ॒स्तु॒व॒त॒ । क्षु॒द्राः । प॒शवः॑ । अ॒सृ॒ज्य॒न्त॒ । पू॒षा । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । पञ्च॑विꣳश॒त्येति॒ पञ्च॑ - विꣳ॒॒श॒त्या॒ । अ॒स्तु॒व॒त॒ । आ॒र॒ण्याः । प॒शवः॑ । अ॒सृ॒ज्य॒न्त॒ । वा॒युः । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । स॒प्तविꣳ॑श॒त्येति॑ स॒प्त - विꣳ॒॒श॒त्या॒ । अ॒स्तु॒व॒त॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । वीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.3.10.3 TS 4.3.10.3
-तां॒ ॅवस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न् तेषा॒माधि॑पत्यमासी॒-न्नव॑विꣳ शत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमो ऽधि॑पतिरासी॒-देक॑त्रिꣳशता ऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाऽऽधि॑पत्यमासी॒त् त्रय॑स्त्रिꣳशता ऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥
पदपाठः (Word-by-word)
ए॒ता॒म् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । अनु॑ । वीति॑ । आ॒य॒न्न् । तेषा᳚म् । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । आ॒सी॒त् । नव॑विꣳश॒त्येति॒ नव॑ - विꣳ॒॒श॒त्या॒ । अ॒स्तु॒व॒त॒ । वन॒स्पत॑यः । अ॒सृ॒ज्य॒न्त॒ । सोमः॑ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् । एक॑त्रिꣳश॒तेत्ये॑क-त्रिꣳ॒॒श॒ता॒ । अ॒स्तु॒व॒त॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज्य॒न्त॒ । यावा॑नाम् । च॒ । अया॑वानाम् । च॒ । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । आ॒सी॒त् । त्रय॑स्त्रिꣳश॒तेति॒ त्रयः॑-त्रिꣳ॒॒श॒ता॒ । अ॒स्तु॒व॒त॒ । भू॒तानि॑ । अ॒शा॒म्य॒न्न् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प॒र॒मे॒ष्ठी । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । आ॒सी॒त् ॥
पदसंख्या: 35