पञ्चशत् 1 #
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया᳚ । समि॑द्धः शु॒क्र आहु॑तः ॥ त्वꣳ सो॑मासि॒ सत्प॑ति॒स्त्वꣳ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ भ॒द्रा ते॑ अग्ने स्वनीक स॒दृंग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत् ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ॥ भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
पदपाठः (Word-by-word)
अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्ययेति॑ वि - प॒न्यया᳚ ॥ समि॑द्ध॒ इति॑ सम् - इ॒द्धः॒ । शु॒क्रः । आहु॑त॒ इत्या - हु॒तः॒ ॥ त्वम् । सो॒म॒ । अ॒सि॒ । सत्प॑ति॒रिति॒ सत् - प॒तिः॒ । त्वम् । राजा᳚ । उ॒त । वृ॒त्र॒हेति॑ वृत्र - हा ॥ त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥ भ॒द्रा । ते॒ । अ॒ग्ने॒ । स्व॒नी॒केति॑ सु - अ॒नी॒क॒ । स॒न्दृगेति॑ सं - दृक् । घो॒रस्य॑ । स॒तः । विषु॑णस्य । चारुः॑ ॥ न । यत् । ते॒ । शो॒चिः । तम॑सा । वर॑न्त । न । ध्व॒स्मानः॑ । त॒नुवि॑ । रेपः॑ । एति॑ । धुः॒ ॥ भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न्न् । अनी॑कम् । उ॒पा॒के । एति॑ । रो॒च॒ते॒ । सूर्य॑स्य ॥