अनुवाकः 8 TS 4.3.8

(A8)

(आ॒शुः - स॒प्तत्रिꣳ॑शत्)

अनुवाकः 8 - Complete Audio

TS 4.3.8 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒शुस्त्रि॒वृद्-भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः
PS1.2 प्रतू᳚र्तिरष्टाद॒श स्तपो॑ नवद॒शो॑ ऽभिव॒र्तः
PS1.3 स॑विꣳ॒॒शो ध॒रुण॑ एकविꣳ॒॒शो वर्चो᳚
PS1.4 द्वाविꣳ॒॒शः सं॒भर॑णस्त्रयोविꣳ॒॒शो योनि॑श्चतुर्विꣳ॒॒शो गर्भाः᳚
PS1.5 पञ्चविꣳ॒॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रिꣳ॒॒शः प्र॑ति॒ष्ठा
PS1.6 त्र॑यस्त्रिꣳ॒॒शो ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिꣳ॒॒शो
PS1.7 नाकः॑ षट्त्रिꣳ॒॒शो वि॑व॒र्तो᳚ऽष्टाचत्वारिꣳ॒॒शो ध॒र्त्रश्च॑तुष्टो॒मः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.3.8.1 TS 4.3.8.1
आ॒शुस्त्रि॒वृद्-भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः प्रतू᳚र्तिरष्टाद॒श स्तपो॑ नवद॒शो॑ ऽभिव॒र्तः स॑विꣳ॒॒शो ध॒रुण॑ एकविꣳ॒॒शो वर्चो᳚ द्वाविꣳ॒॒शः सं॒भर॑णस्त्रयोविꣳ॒॒शो योनि॑श्चतुर्विꣳ॒॒शो गर्भाः᳚ पञ्चविꣳ॒॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रिꣳ॒॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रिꣳ॒॒शो ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिꣳ॒॒शो नाकः॑ षट्त्रिꣳ॒॒शो वि॑व॒र्तो᳚ऽष्टाचत्वारिꣳ॒॒शो ध॒र्त्रश्च॑तुष्टो॒मः ॥
पदपाठः (Word-by-word)
आ॒शुः । त्रि॒वृदिति॑ त्रि-वृत् । भा॒न्तः । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । व्यो॑मेति॒ वि - ओ॒म॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्रतू᳚र्ति॒रिति॒ प्र-तू॒र्तिः॒ । अ॒ष्टा॒द॒श इत्य॑ष्टा-द॒शः । तपः॑ । न॒व॒द॒श इति॑ नव-द॒शः । अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । स॒विꣳ॒॒श इति॑ स - विꣳ॒॒शः । ध॒रुणः॑ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । वर्चः॑ । द्वा॒विꣳ॒॒शः । स॒भंर॑ण॒ इति॑ सं - भर॑णः । त्र॒यो॒विꣳ॒॒श इति॑ त्रयः - विꣳ॒॒शः । योनिः॑ । च॒तु॒र्विꣳ॒॒श इति॑ चतुः - विꣳ॒॒शः । गर्भाः᳚ । प॒ञ्च॒विꣳ॒॒श इति॑ पञ्च - विꣳ॒॒शः । ओजः॑ । त्रि॒ण॒व इति॑ त्रि - न॒वः । क्रतुः॑ । ए॒क॒त्रिꣳ॒॒श इत्ये॑क - त्रिꣳ॒॒शः । प्र॒ति॒ष्ठेति॑ प्रति - स्था । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । ब्र॒द्ध्नस्य॑ । वि॒ष्टप᳚म् । च॒तु॒स्त्रिꣳ॒॒श इति॑ चतुः - त्रिꣳ॒॒शः । नाकः॑ । ष॒ट्त्रिꣳ॒॒श इति॑ षट् - त्रिꣳ॒॒शः । वि॒व॒र्त इति॑ वि - व॒र्तः । अ॒ष्टा॒च॒त्वा॒रिꣳ॒॒श इत्य॑ष्टा-च॒त्वा॒रिꣳ॒॒शः । ध॒र्त्रः । च॒तु॒ष्टो॒म इति॑ चतुः-स्तो॒मः ॥
पदसंख्या: 37