पञ्चशत् 1 #
अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न् तव॑ स्याꣳ॒॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित् ॥ सह॑सा जा॒तान् प्रणु॑दानः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यꣳ स्या॑म॒ प्रणु॑दा नः स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रिꣳ॒॒शः स्तोमो॒ वर्चो॒ द्रवि॑णꣳ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णं पृथि॒व्याः पुरी॑षम॒स्य- [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । जा॒तान् । प्रेति॑ । नु॒द॒ । नः॒ । स॒पत्नान्॑ । प्रतीति॑ । अजा॑तान् । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । नु॒द॒स्व॒ ॥ अ॒स्मे इति॑ । दी॒दि॒हि॒ । सु॒मना॒ इति॑ सु - मनाः᳚ । अहे॑डन्न् । तव॑ । स्या॒म् । शर्मन्न्॑ । त्रि॒वरू॑थ॒ इति॑ त्रि-वरू॑थः । उ॒द्भिदित्यु॑त् - भित् ॥ सह॑सा । जा॒तान् । प्रेति॑ । नु॒द॒ । नः॒ । स॒पत्नान्॑ । प्रतीति॑ । अजा॑तान् । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । नु॒द॒स्व॒ ॥ अधीति॑ । नः॒ । ब्रू॒हि॒ । सु॒म॒न॒स्यमा॑न॒ इति॑ सु - म॒न॒स्यमा॑नः । व॒यम् । स्या॒म॒ । प्रेति॑ । नु॒द॒ । नः॒ । स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । स्तोमः॑ । वर्चः॑ । द्रवि॑णम् । षो॒ड॒शः । स्तोमः॑ । ओजः॑ । द्रवि॑णम् । पृ॒थि॒व्याः । पुरी॑षम् । अ॒सि॒ ।