पञ्चशत् 1 #
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृꣳहतं ॅयु॒वं । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धतां ॥ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ भास्व॑तीꣳ सूरि॒मती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्ष-म॒न्तरि॑क्षं ॅयच्छा॒न्तरि॑क्षं दृꣳहा॒न्तरि॑क्षं॒ मा हिꣳ॑सी॒ र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ - [ ]
पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । अव्य॑थमानाम् । इष्ट॑काम् । दृꣳ॒॒ह॒त॒म् । यु॒वम् ॥ पृ॒ष्ठेन॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ -पृ॒थि॒वी । अ॒न्तरि॑क्षम् । च॒ । वीति॑ । बा॒ध॒ता॒म् ॥ वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । त्वा॒ । सा॒द॒य॒तु॒ । अ॒न्तरि॑क्षस्य । पृ॒ष्ठे । व्यच॑स्वतीम् । प्रथ॑स्वतीम् । भास्व॑तीम् । सू॒रि॒मती॒मिति॑ सूरि - मती᳚म् । एति॑ । या । द्याम् । भासि॑ । एति॑ । पृ॒थि॒वीम् । एति॑ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒न्तरि॑क्षम् । य॒च्छ॒ । अ॒न्तरि॑क्षम् । दृꣳ॒॒ह॒ । अ॒न्तरि॑क्षम् । मा । हिꣳ॒॒सीः॒ । विश्व॑स्मै । प्रा॒णायेति॑ प्रा - अ॒नाय॑ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । व्या॒नायेति॑ वि - अ॒नाय॑ । उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ । प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ । च॒रित्रा॑य । वा॒युः । त्वा॒ । अ॒भीति॑ । पा॒तु॒ । म॒ह्या । स्व॒स्त्या । छ॒र्दिषा᳚ ।