अनुवाकः 2 TS 4.3.2

(A2)

(त्वया॒ मनो॑-ज॒मद॑ग्नि॒र्॒.ऋषिः॑ प्र॒जाप॑तिगृहीतया-त्रिꣳ॒॒शच्च॑)

अनुवाकः 2 - Complete Audio

TS 4.3.2 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो
PS1.2 भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री
PS1.3 वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्रादु॑पाꣳ॒॒
PS1.4 शुरु॑पाꣳ॒॒ शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रꣳ
PS1.5 र॑थन्त॒राद्-वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒
PS1.6 त्वया᳚ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यो॒ऽयं
PS1.7 द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑
PS1.8 वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑
PS1.9 ऐ॒डमै॒डा-द॑न्तर्या॒मो᳚ ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद्-बृ॒हद्-बृ॑ह॒तो
PS1.10 भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒
PS1.11 त्वया॒ मनो॑ - [
PS1.12 ]
PS2.1 गृह्णामि प्र॒जाभ्यो॒ऽयं प॒श्चाद्-वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं
PS2.2 ॅव॒र्॒.षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्॒.षी
PS2.3 जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्राथ् स॑प्तद॒शः
PS2.4 स॑प्तद॒शाद्-वै॑रू॒पं ॅवै॑रू॒पाद्-वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑ति
PS2.5 गृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑
PS2.6 इ॒दमु॑त्त॒राथ् सुव॒स्तस्य॒ श्रोत्रꣳ॑ सौ॒वꣳ
PS2.7 श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्-छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒रꣳ स्वा॒रान्म॒न्थी म॒न्थिन॑
PS2.8 एकविꣳ॒॒श ए॑कविꣳ॒॒शाद् वै॑रा॒जं ॅवै॑रा॒जाज्ज॒मद॑ग्नि॒र्॒.
PS2.9 ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ -
PS2.10 [ ]
PS3.1 त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑
PS3.2 इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो
PS3.3 वा᳚च्याय॒नः प॒ङ्क्तिर्.है॑म॒न्ती प॒क्त्यैं नि॒धन॑वन्नि॒धन॑वत
PS3.4 आग्रय॒ण आ᳚ग्रय॒णात् त्रि॑णवत्रयस्त्रिꣳ॒॒शौ त्रि॑णवत्रयस्त्रिꣳ॒॒शाभ्याꣳ॑
PS3.5 शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्यां᳚ ॅवि॒श्वक॒र्मर्.षिः॑ प्र॒जाप॑ति
PS3.6 गृहीतया॒ त्वया॒ वाचं॑ गृह्णामि
PS3.7 प्र॒जाभ्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.3.2.1 TS 4.3.2.1
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्रादु॑पाꣳ॒॒ शुरु॑पाꣳ॒॒ शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रꣳ र॑थन्त॒राद्-वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया᳚ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यो॒ऽयं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डा-द॑न्तर्या॒मो᳚ ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद्-बृ॒हद्-बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ मनो॑ - [ ]
पदपाठः (Word-by-word)
अ॒यम् । पु॒रः । भुवः॑ । तस्य॑ । प्रा॒ण इति॑ प्र - अ॒नः । भौ॒वा॒य॒नः । व॒स॒न्तः । प्रा॒णा॒य॒नः । गा॒य॒त्री । वा॒स॒न्ती । गा॒य॒त्रि॒यै । गा॒य॒त्रम् । गा॒य॒त्रात् । उ॒पाꣳ॒॒शुरित्यु॑प - अꣳ॒॒शुः । उ॒पाꣳ॒॒शोरित्यु॑प-अꣳ॒॒शोः । त्रि॒वृदिति॑ त्रि - वृत् । त्रि॒वृत॒ इति॑ त्रि - वृतः॑ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । र॒थ॒न्त॒रादिति॑ रथं - त॒रात् । वसि॑ष्ठः । ऋषिः॑ । प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ । त्वया᳚ । प्रा॒णमिति॑ प्र - अ॒नम् । गृ॒ह्णा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अ॒यम् । द॒क्षि॒णा । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । तस्य॑ । मनः॑ । वै॒श्व॒क॒र्म॒णमिति॑ वैश्व - क॒र्म॒णम् । ग्री॒ष्मः । मा॒न॒सः । त्रि॒ष्टुक् । ग्रै॒ष्मी । त्रि॒ष्टुभः॑ । ऐ॒डम् । ऐ॒डात् । अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मः । अ॒न्त॒र्या॒मादित्य॑न्तः - या॒मात् । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । प॒ञ्च॒द॒शादिति॑ पञ्च-द॒शात् । बृ॒हत् । बृ॒ह॒तः । भ॒रद्वा॑जः । ऋषिः॑ । प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ । त्वया᳚ । मनः॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.3.2.2 TS 4.3.2.2
गृह्णामि प्र॒जाभ्यो॒ऽयं प॒श्चाद्-वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं ॅव॒र्॒.षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्॒.षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्राथ् स॑प्तद॒शः स॑प्तद॒शाद्-वै॑रू॒पं ॅवै॑रू॒पाद्-वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒राथ् सुव॒स्तस्य॒ श्रोत्रꣳ॑ सौ॒वꣳ श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्-छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒रꣳ स्वा॒रान्म॒न्थी म॒न्थिन॑ एकविꣳ॒॒श ए॑कविꣳ॒॒शाद् वै॑रा॒जं ॅवै॑रा॒जाज्ज॒मद॑ग्नि॒र्॒. ऋषिः॑ प्र॒जाप॑ति गृहीतया॒ - [ ]
पदपाठः (Word-by-word)
गृ॒ह्णा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अ॒यम् । प॒श्चात् । वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ । तस्य॑ । चक्षुः॑ । वै॒श्व॒व्य॒च॒समिति॑ वैश्व - व्य॒च॒सम् । व॒र्॒.षाणि॑ । चा॒क्षु॒षाणि॑ । जग॑ती । वा॒र्॒.षी । जग॑त्याः । ऋक्ष॑मम् । ऋक्ष॑मात् । शु॒क्रः । शु॒क्रात् । स॒प्त॒द॒श इति॑ सप्त - द॒शः । स॒प्त॒द॒शादिति॑ सप्त-द॒शात् । वै॒रू॒पम् । वै॒रू॒पात् । वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ । ऋषिः॑ । प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ । त्वया᳚ । चक्षुः॑ । गृ॒ह्णा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । इ॒दम् । उ॒त्त॒रादित्यु॑त् - त॒रात् । सुवः॑ । तस्य॑ । श्रोत्र᳚म् । सौ॒वम् । श॒रत् । श्रौ॒त्री । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । शा॒र॒दी । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । स्वा॒रम् । स्वा॒रात् । म॒न्थी । म॒न्थिनः॑ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒क॒विꣳ॒॒शादित्ये॑क - विꣳ॒॒शात् । वै॒रा॒जम् । वै॒रा॒जात् । ज॒मद॑ग्निः । ऋषिः॑ । प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.3.2.3 TS 4.3.2.3
त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वा᳚च्याय॒नः प॒ङ्क्तिर्.है॑म॒न्ती प॒क्त्यैं नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ᳚ग्रय॒णात् त्रि॑णवत्रयस्त्रिꣳ॒॒शौ त्रि॑णवत्रयस्त्रिꣳ॒॒शाभ्याꣳ॑ शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्यां᳚ ॅवि॒श्वक॒र्मर्.षिः॑ प्र॒जाप॑ति गृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ॥
पदपाठः (Word-by-word)
त्वया᳚ । श्रोत्र᳚म् । गृ॒ह्णा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ । इ॒यम् । उ॒परि॑ । म॒तिः । तस्यै᳚ । वाक् । मा॒ती । हे॒म॒न्तः । वा॒च्या॒य॒नः । प॒ङ्क्तिः । है॒म॒न्ती । प॒ङ्क्त्यै । नि॒धन॑व॒दिति॑ नि॒धन॑ - व॒त् । नि॒धन॑वत॒ इति॑ नि॒धन॑ - व॒तः॒ । आ॒ग्र॒य॒णः । आ॒ग्र॒य॒णात् । त्रि॒ण॒व॒त्र॒य॒स्त्रिꣳ॒॒शाविति॑ त्रिणव - त्र॒य॒स्त्रिꣳ॒॒शौ । त्रि॒ण॒व॒त्र॒य॒स्त्रिꣳ॒॒शाभ्या॒मिति॑ त्रिणव - त्र॒य॒स्त्रिꣳ॒॒शाभ्या᳚म् । शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर - रै॒व॒ते । शा॒क्व॒र॒रै॒व॒ताभ्या॒मिति॑ शाक्वर - रै॒व॒ताभ्या᳚म् । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । ऋषिः॑ । प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ । त्वया᳚ । वाच᳚म् । गृ॒ह्णा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ॥
पदसंख्या: 30