पञ्चशत् 1 #
अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृथ् स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रꣳ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑ नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्रꣳ॑ स्पृ॒तꣳ स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याऽऽधि॑पत्यं दि॒वो वृ॒ष्टिर्वाताः᳚ स्पृ॒ता ए॑कविꣳ॒॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोजः॑ स्पृ॒तं त्रि॑ण॒वः स्तोमो॒ वसू॑नां भा॒गो॑ऽसि- [ ]
पदपाठः (Word-by-word)
अ॒ग्नेः । भा॒गः । अ॒सि॒ । दी॒क्षायाः᳚ । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । ब्रह्म॑ । स्पृ॒तम् । त्रि॒वृदिति॑ त्रि - वृत् । स्तोमः॑ । इन्द्र॑स्य । भा॒गः । अ॒सि॒ । विष्णोः᳚ । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । क्ष॒त्रम् । स्पृ॒तम् । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । स्तोमः॑ । नृ॒चक्ष॑सा॒मिति॑ नृ - चक्ष॑साम् । भा॒गः । अ॒सि॒ । धा॒तुः । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । ज॒नित्र᳚म् । स्पृ॒तम् । स॒प्त॒द॒श इति॑ सप्त - द॒शः । स्तोमः॑ । मि॒त्रस्य॑ । भा॒गः । अ॒सि॒ । वरु॑णस्य । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । दि॒वः । वृ॒ष्टिः । वाताः᳚ । स्पृ॒ताः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । स्तोमः॑ । अदि॑त्यै । भा॒गः । अ॒सि॒ । पू॒ष्णः । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । ओजः॑ । स्पृ॒तम् । त्रि॒ण॒व इति॑ त्रि - न॒वः । स्तोमः॑ । वसू॑नाम् । भा॒गः । अ॒सि॒ ।