अनुवाकः 3 TS 4.3.3

(A3)

(विट् - प॑ष्ठ॒वाद् वयो॒ - ऽष्टाविꣳ॑शतिश्च)

अनुवाकः 3 - Complete Audio

TS 4.3.3 - स्वरानुगामी

0:00 0:00
PS1.1 प्राची॑ दि॒शां ॅव॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒
PS1.2 ब्रह्म॒ द्रवि॑णं त्रि॒वृथ् स्तोमः॒
PS1.3 स उ॑ पञ्चद॒शव॑र्तनि॒-स्त्र्यवि॒र्वयः॑ कृ॒तमया॑नां
PS1.4 पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र्दक्षि॒णा
PS1.5 दि॒शां ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚
PS1.6 क्ष॒त्रं द्रवि॑णं पञ्चद॒शः स्तोमः॒
PS1.7 स उ॑ सप्तद॒श व॑र्तनि-र्दि॑त्य॒वाड्-वय॒स्त्रेताऽया॑नां
PS1.8 दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑
PS1.9 प्र॒तीची॑ दि॒शां ॅव॒र्॒.षा ऋ॑तू॒नां
PS1.10 ॅविश्वे॑ दे॒वा दे॒वता॒ विड्-[
PS1.11 ]
PS2.1 द्रवि॑णꣳ सप्तद॒श स्तोमः॒ स
PS2.2 उ॑ वेकविꣳ॒॒ शव॑र्तनि-स्त्रिव॒थ्सो वयो᳚
PS2.3 द्वाप॒रोऽया॑नां पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची
PS2.4 दि॒शाꣳ श॒रद्-ऋ॑तू॒नां मि॒त्रावरु॑णौ दे॒वता॑
PS2.5 पु॒ष्टं द्रवि॑णमेकविꣳ॒॒शः स्तोमः॒ स
PS2.6 उ॑ त्रिण॒वव॑र्तनि-स्तुर्य॒वाड् वय॑ आस्क॒न्दो
PS2.7 ऽया॑नामुत्तराद्-वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्द्ध्वा
PS2.8 दि॒शाꣳ हे॑मन्तशिशि॒रावृ॑तू॒नां बृह॒स्पति॑र्दे॒वता॒ वर्चो॒
PS2.9 द्रवि॑णं त्रिण॒व स्तोमः॒ स
PS2.10 उ॑ त्रयस्त्रिꣳ॒॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ (
PS2.11 ) ऽभि॒भूरया॑नां ॅविष्वग्वा॒तो वातः॑
PS2.12 सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः
PS2.13 परेऽव॑रे॒ ते नः॑ पान्तु॒
PS2.14 ते नो॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-मा॒शिष्य॒स्यां
PS2.15 पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्यां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.3.3.1 TS 4.3.3.1
प्राची॑ दि॒शां ॅव॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृथ् स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒-स्त्र्यवि॒र्वयः॑ कृ॒तमया॑नां पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शां ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚ क्ष॒त्रं द्रवि॑णं पञ्चद॒शः स्तोमः॒ स उ॑ सप्तद॒श व॑र्तनि-र्दि॑त्य॒वाड्-वय॒स्त्रेताऽया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑ प्र॒तीची॑ दि॒शां ॅव॒र्॒.षा ऋ॑तू॒नां ॅविश्वे॑ दे॒वा दे॒वता॒ विड्-[ ]
पदपाठः (Word-by-word)
प्राची᳚ । दि॒शाम् । व॒स॒न्तः । ऋ॒तू॒नाम् । अ॒ग्निः । दे॒वता᳚ । ब्रह्म॑ । द्रवि॑णम् । त्रि॒वृदिति॑ त्रि - वृत् । स्तोमः॑ । सः । उ॒ । प॒ञ्च॒द॒शव॑र्तनि॒रिति॑ पञ्चद॒श - व॒र्त॒निः॒ । त्र्यवि॒रिति॑ त्रि - अविः॑ । वयः॑ । कृ॒तम् । अया॑नाम् । पु॒रो॒वा॒त इति॑ पुरः - वा॒तः । वातः॑ । सान॑गः । ऋषिः॑ । द॒क्षि॒णा । दि॒शाम् । ग्री॒ष्मः । ऋ॒तू॒नाम् । इन्द्रः॑ । दे॒वता᳚ । क्ष॒त्रम् । द्रवि॑णम् । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । स्तोमः॑ । सः । उ॒ । स॒प्त॒द॒शव॑र्तनि॒रिति॑ सप्तद॒श - व॒र्त॒निः॒ । दि॒त्य॒वाडिति॑ दित्य - वाट् । वयः॑ । त्रेता᳚ । अया॑नाम् । द॒क्षि॒णा॒द्वा॒त इति॑ दक्षिणात् - वा॒तः । वातः॑ । स॒ना॒तन॒ इति॑ सना - तनः॑ । ऋषिः॑ । प्र॒तीची᳚ । दि॒शाम् । व॒र्॒.षाः । ऋ॒तू॒नाम् । विश्वे᳚ । दे॒वाः । दे॒वता᳚ । विट् ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.3.3.2 TS 4.3.3.2
द्रवि॑णꣳ सप्तद॒श स्तोमः॒ स उ॑ वेकविꣳ॒॒ शव॑र्तनि-स्त्रिव॒थ्सो वयो᳚ द्वाप॒रोऽया॑नां पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाꣳ श॒रद्-ऋ॑तू॒नां मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णमेकविꣳ॒॒शः स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनि-स्तुर्य॒वाड् वय॑ आस्क॒न्दो ऽया॑नामुत्तराद्-वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्द्ध्वा दि॒शाꣳ हे॑मन्तशिशि॒रावृ॑तू॒नां बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णं त्रिण॒व स्तोमः॒ स उ॑ त्रयस्त्रिꣳ॒॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ ( ) ऽभि॒भूरया॑नां ॅविष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्यां ॥
पदपाठः (Word-by-word)
द्रवि॑णम् । स॒प्त॒द॒श इति॑ सप्त-द॒शः । स्तोमः॑ । सः । उ॒ । ए॒क॒विꣳ॒॒शव॑र्तनि॒रित्ये॑कविꣳ॒॒श - व॒र्त॒निः॒ । त्रि॒व॒थ्स इति॑ त्रि-व॒थ्सः । वयः॑ । द्वा॒प॒रः । अया॑नाम् । प॒श्चा॒द्वा॒त इति॑ पश्चात्-वा॒तः । वातः॑ । अ॒ह॒भूनः॑ । ऋषिः॑ । उदी॑ची । दि॒शाम् । श॒रत् । ऋ॒तू॒नाम् । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । दे॒वता᳚ । पु॒ष्टम् । द्रवि॑णम् । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । स्तोमः॑ । सः । उ॒ । त्रि॒ण॒वव॑र्तनि॒रिति॑ त्रिण॒व - व॒र्त॒निः॒ । तु॒र्य॒वाडिति॑ तुर्य - वाट् । वयः॑ । आ॒स्क॒न्द इत्या᳚ - स्क॒न्दः । अया॑नाम् । उ॒त्त॒रा॒द्वा॒त इत्यु॑त्तरात् - वा॒तः । वातः॑ । प्र॒त्नः । ऋषिः॑ । ऊ॒द्‌र्ध्वा । दि॒शाम् । हे॒म॒न्त॒शि॒शि॒राविति॑ हेमन्त - शि॒शि॒रौ । ऋ॒तू॒नाम् । बृह॒स्पतिः॑ । दे॒वता᳚ । वर्चः॑ । द्रवि॑णम् । त्रि॒ण॒व इति त्रि॑ - न॒वः । स्तोमः॑ । सः । उ॒ । त्र॒य॒स्त्रिꣳ॒॒शव॑र्तनि॒रिति॑ त्रयस्त्रिꣳ॒॒श - व॒र्त॒निः॒ । प॒ष्ठ॒वादिति॑ पष्ठ - वात् । वयः॑ ( ) । अ॒भि॒भूरित्य॑भि - भूः । अया॑नाम् । वि॒ष्व॒ग्वा॒त इति॑ विष्वक् - वा॒तः । वातः॑ । सु॒प॒र्ण इति॑ सु - प॒र्णः । ऋषिः॑ । पि॒तरः॑ । पि॒ता॒म॒हाः । परे᳚ । अव॑रे । ते । नः॒ । पा॒न्तु॒ । ते । नः॒ । अ॒व॒न्तु॒ । अ॒स्मिन्न् । ब्रह्मन्न्॑ । अ॒स्मिन्न् । क्ष॒त्रे । अ॒स्याम् । आ॒शिषीत्या᳚ - शिषि॑ । अ॒स्याम् । पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् । अ॒स्मिन्न् । कर्मन्न्॑ । अ॒स्याम् । दे॒वहू᳚त्या॒मिति॑ दे॒व-हू॒त्या॒म् ॥
पदसंख्या: 78