अनुवाकः 11 TS 4.3.11

(A11)

(ऊर्ज॒मेका᳚ - प्रतिमु॒ञ्चमा॑ना - भू॒यास॒ - मेकं॒ - पत्न्ये का॒न्न विꣳ॑श॒तिश्च॑)

अनुवाकः 11 - Complete Audio

TS 4.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 इ॒यमे॒व सा या प्र॑थ॒मा
PS1.2 व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा
PS1.3 व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनां
PS1.4 महि॒मानः॑ सचन्ते
PS1.5 छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं
PS1.6 ॅयोनि॒मनु॑ स॒ञ्चर॑न्ती
PS1.7 सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती
PS1.8 के॒तुं कृ॑ण्वा॒ने अ॒जर॒ भूरि॑रेतसा
PS1.9 ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आऽगु॒स्त्रयो॑
PS1.10 घ॒र्मासो॒ अनु॒ ज्योति॒षाऽऽगुः॑
PS1.11 प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका᳚ -[ ]
PS2.1 व्र॒तमेका॑ रक्षति देवयू॒नां
PS2.2 च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञ्स्य॑
PS2.3 प॒क्षावृ॑षयो॒ भव॑न्ती
PS2.4 गा॒य॒त्रीं त्रि॒ष्टुभं॒ ज॑गतीमनु॒ष्टुभं॑ बृ॒हद॒र्कं
PS2.5 ॅयु॑ञ्जा॒नाः सुव॒राऽभ॑रन्नि॒दं
PS2.6 प॒ञ्चभि॑र्द्धा॒ता वि द॑धावि॒दं ॅयत्
PS2.7 तासाꣳ॒॒ स्वसॄ॑रजनय॒त् पञ्च॑पञ्च
PS2.8 तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒
PS2.9 नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः
PS2.10 त्रिꣳ॒॒शथ् स्वसा॑र॒ उप॑यन्ति निष्कृ॒तꣳ
PS2.11 स॑मा॒नं के॒तुं प्र॑तिमु॒ञ्चमा॑नाः
PS3.1 ऋ॒तूꣳस्त॑न्वते क॒वयः॑ प्रजान॒तीर्मद्ध्ये॑छन्दसः॒ परि॑
PS3.2 यन्ति॒ भास्व॑तीः
PS3.3 ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒
PS3.4 रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑
PS3.5 वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒
PS3.6 नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚
PS3.7 ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒
PS3.8 गर्भं॑ महि॒मान॒मिन्द्रं᳚
PS3.9 तेन॒ दस्यू॒न् व्य॑सहन्त दे॒वा ह॒न्ताऽसु॑राणा-मभव॒च्छची॑भिः
PS3.10 अना॑नुजामनु॒जां माम॑कर्त स॒त्यं ॅवद॒न्त्यन्वि॑च्छ ए॒तत्
PS3.11 भू॒यास॑ -[ ]
PS4.1 मस्य सुम॒तौ यथा॑ यू॒यम॒न्या
PS4.2 वो॑ अ॒न्यामति॒ मा प्र
PS4.3 यु॑क्त
PS4.4 अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑
PS4.5 प्रति॒ष्ठामवि॑द॒द्धि गा॒धं
PS4.6 भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या
PS4.7 वो॑ अ॒न्यामति॒ मा प्रयु॑क्त
PS4.8 पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒
PS4.9 गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑
PS4.10 पञ्च॒ दिशः॑ पञ्चद॒शेन॑ क्लृ॒प्ताः
PS4.11 स॑मा॒नमू᳚र्द्ध्नीर॒भि लो॒कमेकं᳚
PS5.1 ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑
PS5.2 महि॒मानं॑ बिभर्ति
PS5.3 सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑
PS5.4 सवि॒तैकां॒ नि य॑च्छति
PS5.5 या प्र॑थ॒मा व्यौच्छ॒थ् सा धे॒नुर॑भवद्य॒मे
PS5.6 सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तराꣳ॒॒ समां᳚
PS5.7 शु॒क्रर्.ष॑भा॒ नभ॑सा॒ ज्योति॒षा ऽऽ*गा᳚द्-वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः
PS5.8 स॒मा॒नमर्थꣳ॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर
PS5.9 उष॒ आऽगाः᳚
PS5.10 ऋ॒तू॒नां पत्नी᳚ ( )
PS5.11 प्रथ॒मेयमाऽगा॒दह्नां᳚ ने॒त्री ज॑नि॒त्री प्र॒जानां᳚
PS5.12 एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒
PS5.13 त्वं ज॑रयसि॒ सर्व॑म॒न्यत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.3.11.1 TS 4.3.11.1
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनां महि॒मानः॑ सचन्ते ॥ छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं ॅयोनि॒मनु॑ स॒ञ्चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जर॒ भूरि॑रेतसा ॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आऽगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षाऽऽगुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका᳚ -[ ]
पदपाठः (Word-by-word)
इ॒यम् । ए॒व । सा । या । प्र॒थ॒मा । व्यौच्छ॒दिति॑ वि - औच्छ॑त् । अ॒न्तः । अ॒स्याम् । च॒र॒ति॒ । प्रवि॒ष्टेति॒ प्र - वि॒ष्टा॒ ॥ व॒धूः । ज॒जा॒न॒ । न॒व॒गदिति॑ नव - गत् । जनि॑त्री । त्रयः॑ । ए॒ना॒म् । म॒हि॒मानः॑ । स॒च॒न्ते॒ ॥ छन्द॑स्वती॒ इति॑ । उ॒षसा᳚ । पेपि॑शाने॒ इति॑ । स॒मा॒नम् । योनि᳚म् । अन्विति॑ । स॒ञ्चर॑न्ती॒ इति॑ सं - चर॑न्ती ॥ सूर्य॑पत्नी॒ इति॒ सूर्य॑ - प॒त्नी॒ । वीति॑ । च॒र॒तः॒ । प्र॒जा॒न॒ती इति॑ प्र-जा॒न॒ती । के॒तुम् । कृ॒ण्वा॒ने इति॑ । अ॒जरे॒ इति॑ । भूरि॑रे॒तसेति॒ भूरि॑ - रे॒त॒सा॒ ॥ ऋ॒तस्य॑ । पन्था᳚म् । अन्विति॑ । ति॒स्रः । एति॑ । अ॒गुः॒ । त्रयः॑ । घ॒र्मासः॑ । अन्विति॑ । ज्योति॑षा । एति॑ । अ॒गुः॒ ॥ प्र॒जामिति॑ प्र - जाम् । एका᳚ । रक्ष॑ति । ऊर्ज᳚म् । एका᳚ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.3.11.2 TS 4.3.11.2
व्र॒तमेका॑ रक्षति देवयू॒नां ॥ च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञ्स्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्रीं त्रि॒ष्टुभं॒ ज॑गतीमनु॒ष्टुभं॑ बृ॒हद॒र्कं ॅयु॑ञ्जा॒नाः सुव॒राऽभ॑रन्नि॒दं ॥ प॒ञ्चभि॑र्द्धा॒ता वि द॑धावि॒दं ॅयत् तासाꣳ॒॒ स्वसॄ॑रजनय॒त् पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥ त्रिꣳ॒॒शथ् स्वसा॑र॒ उप॑यन्ति निष्कृ॒तꣳ स॑मा॒नं के॒तुं प्र॑तिमु॒ञ्चमा॑नाः ।
पदपाठः (Word-by-word)
व्र॒तम् । एका᳚ । र॒क्ष॒ति॒ । दे॒व॒यू॒नामिति॑ देव - यू॒नाम् ॥ च॒तु॒ष्टो॒म इति॑ चतुः-स्तो॒मः । अ॒भ॒व॒त् । या । तु॒रीया᳚ । य॒ज्ञ्स्य॑ । प॒क्षौ । ऋ॒ष॒यः॒ । भव॑न्ती ॥ गा॒य॒त्रीम् । त्रि॒ष्टुभ᳚म् । जग॑तीम् । अ॒नु॒ष्टुभ॒मित्य॑नु-स्तुभ᳚म् । बृ॒हत् । अ॒र्कम् । यु॒ञ्जा॒नाः । सुवः॑ । एति॑ । अ॒भ॒र॒न्न् । इ॒दम् ॥ प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । धा॒ता । वीति॑ । द॒धौ॒ । इ॒दम् । यत् । तासा᳚म् । स्वसॄः᳚ । अ॒ज॒न॒य॒त् । पञ्च॑प॒ञ्चेति॒ पञ्च॑ - प॒ञ्च॒ ॥ तासा᳚म् । उ॒ । य॒न्ति॒ । प्र॒य॒वेणेति॑ प्र - य॒वेन॑ । पञ्च॑ । नाना᳚ । रू॒पाणि॑ । क्रत॑वः । वसा॑नाः ॥ त्रिꣳ॒॒शत् । स्वसा॑रः । उपेति॑ । य॒न्ति॒ । नि॒ष्कृ॒तमिति॑ निः - कृ॒तम् । स॒मा॒नम् । के॒तुम् । प्र॒ति॒मु॒ञ्चमा॑ना॒ इति॑ प्रति - मु॒ञ्चमा॑नाः ॥
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.3.11.3 TS 4.3.11.3
ऋ॒तूꣳस्त॑न्वते क॒वयः॑ प्रजान॒तीर्मद्ध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः ॥ ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚ ॥ ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्रं᳚ । तेन॒ दस्यू॒न् व्य॑सहन्त दे॒वा ह॒न्ताऽसु॑राणा-मभव॒च्छची॑भिः ॥ अना॑नुजामनु॒जां माम॑कर्त स॒त्यं ॅवद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यास॑ -[ ]
पदपाठः (Word-by-word)
ऋ॒तून् । त॒न्व॒ते॒ । क॒वयः॑ । प्र॒जा॒न॒तीरिति॑ प्र - जा॒न॒तीः । मद्ध्ये॑छन्दस॒ इति॒ मद्ध्ये᳚ - छ॒न्द॒सः॒ । परीति॑ । य॒न्ति॒ । भास्व॑तीः ॥ ज्योति॑ष्मती । प्रतीति॑ । मु॒ञ्च॒ते॒ । नभः॑ । रात्री᳚ । दे॒वी । सूर्य॑स्य । व्र॒तानि॑ ॥ वीति॑ । प॒श्य॒न्ति॒ । प॒शवः॑ । जाय॑मानाः । नाना॑रूपा॒ इति॒ नाना᳚ - रू॒पाः॒ । मा॒तुः । अ॒स्याः । उ॒पस्थ॒ इत्यु॒प - स्थे॒ ॥ ए॒का॒ष्ट॒केत्ये॑क- अ॒ष्ट॒का । तप॑सा । तप्य॑माना । ज॒जान॑ । गर्भ᳚म् । म॒हि॒मान᳚म् । इन्द्र᳚म् ॥ तेन॑ । दस्यून्॑ । वीति॑ । अ॒स॒ह॒न्त॒ । दे॒वाः । ह॒न्ता । असु॑राणाम् । अ॒भ॒व॒त् । शची॑भि॒रिति॒ शचि॑ - भिः॒ ॥ अना॑नुजा॒मित्यना॑नु - जा॒म् । अ॒नु॒जामित्य॑नु-जाम् । माम् । अ॒क॒र्त॒ । स॒त्यम् । वद॑न्ती । अन्विति॑ । इ॒च्छे॒ । ए॒तत् ॥ भू॒यास᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.3.11.4 TS 4.3.11.4
मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धं । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्रयु॑क्त ॥ पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॑ क्लृ॒प्ताः स॑मा॒नमू᳚र्द्ध्नीर॒भि लो॒कमेकं᳚ ॥
पदपाठः (Word-by-word)
अ॒स्य॒ । सु॒म॒ताविति॑ सु - म॒तौ । यथा᳚ । यू॒यम् । अ॒न्या । वः॒ । अ॒न्याम् । अतीति॑ । मा । प्रेति॑ । यु॒क्त॒ ॥ अभू᳚त् । मम॑ । सु॒म॒ताविति॑ सु - म॒तौ । वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । आष्ट॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । अवि॑दत् । हि । गा॒धम् ॥ भू॒यास᳚म् । अ॒स्य॒ । सु॒म॒ताविति॑ सु - म॒तौ । यथा᳚ । यू॒यम् । अ॒न्या । वः॒ । अ॒न्याम् । अतीति॑ । मा । प्रेति॑ । यु॒क्त॒ ॥ पञ्च॑ । व्यु॑ष्टी॒रिति॒ वि - उ॒ष्टीः॒ । अन्विति॑ । पञ्च॑ । दोहाः᳚ । गाम् । पञ्च॑नाम्नी॒मिति॒ पञ्च॑ - ना॒म्नी॒म् । ऋ॒तवः॑ । अन्विति॑ । पञ्च॑ ॥ पञ्च॑ । दिशः॑ । प॒ञ्च॒द॒शेनेति॑ पञ्च - द॒शेन॑ । क्लृ॒प्ताः । स॒मा॒नमू᳚द्‌र्ध्नी॒रिति॑ समा॒न - मू॒द्‌र्ध्नीः॒ । अ॒भीति॑ । लो॒कम् । एक᳚म् ॥
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.3.11.5 TS 4.3.11.5
ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मानं॑ बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैकां॒ नि य॑च्छति ॥ या प्र॑थ॒मा व्यौच्छ॒थ् सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तराꣳ॒॒ समां᳚ ॥ शु॒क्रर्.ष॑भा॒ नभ॑सा॒ ज्योति॒षा ऽऽ*गा᳚द्-वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थꣳ॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आऽगाः᳚ ॥ ऋ॒तू॒नां पत्नी᳚ ( ) प्रथ॒मेयमाऽगा॒दह्नां᳚ ने॒त्री ज॑नि॒त्री प्र॒जानां᳚ । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒ त्वं ज॑रयसि॒ सर्व॑म॒न्यत् ॥
पदपाठः (Word-by-word)
ऋ॒तस्य॑ । गर्भः॑ । प्र॒थ॒मा । व्यू॒षुषीति॑ वि - ऊ॒षुषी᳚ । अ॒पाम् । एका᳚ । म॒हि॒मान᳚म् । बि॒भ॒र्ति॒ ॥ सूर्य॑स्य । एका᳚ । चर॑ति । नि॒ष्कृ॒तेष्विति॑ निः-कृ॒तेषु॑ । घ॒र्मस्य॑ । एका᳚ । स॒वि॒ता । एका᳚म् । नीति॑ । य॒च्छ॒ति॒ ॥ या । प्र॒थ॒मा । व्यौच्छ॒दिति॑ वि - औच्छ॑त् । सा । धे॒नुः । अ॒भ॒व॒त् । य॒मे ॥ सा । नः॒ । पय॑स्वती । धु॒क्ष्व॒ । उत्त॑रामुत्तरा॒मित्युत्त॑रां-उ॒त्त॒रा॒म् । समा᳚म् ॥ शु॒क्रर्.ष॒भेति॑ शु॒क्र - ऋ॒ष॒भा॒ । नभ॑सा । ज्योति॑षा । एति॑ । अ॒गा॒त् । वि॒श्वरू॒पेति॑ वि॒श्व - रू॒पा॒ । श॒ब॒लीः । अ॒ग्निके॑तु॒रित्य॒ग्नि - के॒तुः॒ ॥ स॒मा॒नम् । अर्थ᳚म् । स्व॒प॒स्यमा॒नेति॑ सु-अ॒प॒स्यमा॑ना । बिभ्र॑ती । ज॒राम् । अ॒ज॒रे॒ । उ॒षः॒ । एति॑ । अ॒गाः॒ ॥ ऋ॒तू॒नाम् । पत्नी᳚ ( ) । प्र॒थ॒मा । इ॒यम् । एति॑ । अ॒गा॒त् । अह्ना᳚म् । ने॒त्री । ज॒नि॒त्री । प्र॒जाना॒मिति॑ प्र - जाना᳚म् ॥ एका᳚ । स॒ती । ब॒हु॒धेति॑ बहु - धा । उ॒षः॒ । वीति॑ । उ॒च्छ॒सि॒ । अजी᳚र्णा । त्वम् । ज॒र॒य॒सि॒ । सर्व᳚म् । अ॒न्यत् ॥
पदसंख्या: 69