पञ्चशत् 1 #
अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न् प्रणु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारिꣳ॒॒शः स्तोम॒ इति॑ दक्षिण॒तो ब्र॑ह्मवर्च॒सं ॅवै च॑तुश्चत्वारिꣳ॒॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द् दक्षि॒णोऽर्द्धो᳚ ब्रह्मवर्च॒सित॑रः षोड॒शः स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑ - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । जा॒तान् । प्रेति॑ । नु॒द॒ । नः॒ । स॒पत्नान्॑ । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । जा॒तान् । ए॒व । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । सह॑सा । जा॒तान् । इति॑ । प॒श्चात् । ज॒नि॒ष्यमा॑णान् । ए॒व । प्रतीति॑ । नु॒द॒ते॒ । च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । स्तोमः॑ । इति॑ । द॒क्षि॒ण॒तः । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । वै । च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । ए॒व । द॒क्षि॒ण॒तः । ध॒त्ते॒ । तस्मा᳚त् । दक्षि॑णः । अद्र्धः॑ । ब्र॒ह्म॒व॒र्च॒सित॑र॒ इति॑ ब्रह्मवर्च॒सि - त॒रः॒ । षो॒ड॒शः । स्तोमः॑ । इति॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ओजः॑ । वै । षो॒ड॒शः । ओजः॑ । ए॒व । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ध॒त्ते॒ । तस्मा᳚त् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्ने जातानित्यादिरसपत्नानां विधिः । पञ्चम्यां चितौ असपत्नत्वं आत्मनः आत्मीयानां च याभिः क्रियते ताः असपत्नाः पञ्च । जातान्नाशयति, जनिष्यमाणान् प्रणुदते प्रतीपमुत्पत्त्या नुदते उत्पत्तिनिरोधं करोति ॥
2 ब्रह्मवर्चसहेतुः चत्वारिंशः । गतमन्यत् ॥
3 वज्रो वा इत्यादि ॥ चतुश्चत्वारिशष्षोडशश्च वज्रतुल्यौ सपत्नानां नाशने । एते इति दक्षिणोत्तरे उच्येते । जातांश्चेति । पूर्वपश्चिमाभ्यां जातान् जनिष्यमाणांश्च भ्रातृव्यान् प्रणुद्य निपीड्य एताभ्यां दक्षिणोत्तराभ्यां वज्रमनुप्रहरति स्तृत्यै मरणाय । स्तृणोतिः ह्रस्वान्तस्सौवादिकः ॥
4 पुरीषवतीमिति ॥ 'पृथिव्याः पुरीषमस्यप्सो नाम' इति पुरुषवतीं पुरुषशब्दवतीं पुरीषसंहितां वा कृत्वा उपदधाति । पुरीषंहि मध्यमात्मन अग्निशरीरस्य मध्यः । तस्मात्सात्मानमग्निं चिनुते आत्मानं च चिनुत इत्यर्थः । एवं वेदिता अमुष्मिन् लोके सात्मा भवति फलवान् व्याप्तवान् भवति ॥
5 एता वा इत्यादि । गतम् ॥
6 पशुर्वा इत्यादि ॥ पशुर्धिकः [शुवर्धकः] निषेकादिक्रमेणोत्पाद्यत्वात् वा पशुः । तस्मात्पश्वात्मन्यास्मन् उत्तमायां चित्यां पञ्चम्यां चितौ विराज उपदधाति 'एवश्छन्दः' इत्याद्या चत्वारिंशतं दश दश दिक्षु मध्ये विराजः चत्वारिंशदक्ष्रत्वात् । उत्तमत्वमासां विराजनहेतुत्वात् वा, विराजोऽन्नस्य हेतुत्वाद्वा । उत्तमशब्द उञ्छादिरन्तोदात्तः । विराजमेवेति । प्रभूतमन्नम् । उत्तमामिति । ब्राह्मणादिभ्योपि उद्गततमां उज्ज्वलतमां 'भुङ्क्ष्व' इत्यादिकां वाचं वदति पशुमान्यः कश्चिदपि । यद्वा - पशुमान् ब्राह्मणः उत्तमां 'ओं श्रावय' इत्यादिकां वाचं वदति । 'ह्रस्वनुङ्भ्याम्' इति मतुप उदत्तत्वम् ॥
7 सवीर्यत्वायेति ॥ विराट्सङ्ख्यापूरणात् विराट्सवीर्यत्वं, ऊनत्वे हि निर्वीर्यत्वं स्यात् ॥
8 अक्ष्णयेत्यादि ॥ गतम् ॥
9 यानिवा इत्यादि ॥ स्वर्गमनस्य योग्यतावन्ति स्वर्ग्याणि । 'गोद्व्यचः' इति यत् । यानि सर्वाणि छन्दांसि तैर्देवास्स्वर्गं गताः । तेन छन्दसां स्वर्गगमनहेतुना ऋषयोऽश्राम्यन् प्रणिधानेन यत्नं कृतवन्तः तदवस्थानं ज्ञातुम् । ततस्तत् ज्ञात्वा तल्लाभाय तपोऽतप्यन्त । ततस्तानि तेन तपसा दृष्टवन्तः । ततस्तानि दृष्ट्वा तेभ्य एता इष्टका विराट्संज्ञा निरमिमत उत्पादितवन्तः । एमन्नादित्वादेव पररूपत्वम् ॥
10 ता इत्यादि ॥ गतम् ॥
11 यज्ञेन वा इत्यादि ॥ स्तोमभागानां विधिः । स्तोमानां त्रिवृदादीनां भागास्तेजोंशाः बृहस्पतितेजस्सहितमेव चिनुते ॥
12 प्रतिष्ठामिति ॥ प्रतितिष्ठति स्तोम आभिरिति प्रतिष्ठाः स्तोम भागाः ॥
13 सवीर्यत्वायेति ॥ शक्तिमत्त्वात् सप्तत्वस्य शाक्वरत्वात् । प्रतिष्ठित्या इति । मध्ये उत्तम्भनभावे प्रतिष्ठितं स्यात् ॥
इति पञ्चमे तृतीये पञ्चमोनुवाकः ॥