पञ्चशत् 1 #
उ॒थ्स॒न्न॒ य॒ज्ञो वा ए॒ष यद॒ग्निः किं ॅवाऽहै॒तस्य॑ क्रि॒यते॒ किं ॅवा॒ न यद्वै य॒ज्ञ्स्य॑ क्रि॒यमा॑णस्या-न्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा᳚श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञ्स्तस्मै॑ भेष॒जं क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै॒ - [ ]
पदपाठः (Word-by-word)
उ॒थ्स॒न्न॒य॒ज्ञ् इत्यु॑थ्सन्न - य॒ज्ञ्ः । वै । ए॒षः । यत् । अ॒ग्निः । किम् । वा॒ । अह॑ । ए॒तस्य॑ । क्रि॒यते᳚ । किम् । वा॒ । न । यत् । वै । य॒ज्ञ्स्य॑ । क्रि॒यमा॑णस्य । अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ । पूय॑ति । वै । अ॒स्य॒ । तत् । आ॒श्वि॒नीः । उपेति॑ । द॒धा॒ति॒ । अ॒श्विनौ᳚ । वै । दे॒वाना᳚म् । भि॒षजौ᳚ । ताभ्या᳚म् । ए॒व । अ॒स्मै॒ । भे॒ष॒जम् । क॒रो॒ति॒ । पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । यावान्॑ । ए॒व । य॒ज्ञ्ः । तस्मै᳚ । भे॒ष॒जम् । क॒रो॒ति॒ । ऋ॒त॒व्याः᳚ । उपेति॑ । द॒धा॒ति॒ । ऋ॒तू॒नाम् । क्लृप्त्यै᳚ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
पञ्चमकाण्डे
तृतीयः प्रश्नः ॥
1 उक्ता प्रथमा चितिः । इदानीं द्वितीयस्यां चितौ आश्विनीर्विधातुमाह - उत्सन्नयज्ञ इत्यादि ॥ अतः परमग्निकाण्डमेव । उत्सन्नयज्ञः । शाकपार्थिवादिः । अग्नौ भूयिष्ठं कर्मोत्सन्नं भवति कार्त्स्न्येन कर्तुमशक्यत्वात् । तस्मात् एतस्य किं कर्तव्यं क्रियते किं वाऽकर्तव्यमेव क्रियते इति को ज्ञातुं अर्हति । अहेति पक्षे । यच्च यज्ञस्य क्रियमाणस्य कार्त्स्न्येन निवर्तयितुं प्रारब्धस्य सम्बन्धिनः अन्तर्यन्ति नाशयन्ति । प्रमादादननुष्ठानमेव नाशः ।'अन्तरपरिग्रहे' इति गतित्वात् 'तिङि चोदात्तवति' इत्यन्तश्शब्दस्य अनुदात्तत्वम् । 'यद्वृत्तान्नित्यम्' इति आख्यातं न निहन्यते । तदाऽस्य अङ्गं पूयति विशीर्यते दुष्टं पच्यते भिषजा चिकित्सितव्यं भवति । पूयी विशरणे । आश्विनीरिति । 'ध्रुवक्षितिः' इत्याद्याः । अश्विमानुपधान आसामिति 'अश्विमानण्' इत्यण्प्रत्ययः । अश्विनावित्यादि । गतम् ॥
2 पञ्चेति ॥ एकैका दिक्षु एका मध्ये । पाङ्क्तत्वमुक्तम् । ऋतव्या इति । ऋतुमता मन्त्रेणोपधेयाः । पूर्ववत् यत् । 'सजूर् ऋतुभिस्सजूर्विधाभित्स्सजूर्वसुभिः' इत्याद्याः । कॢप्त्यै अविपर्यरतधर्मतायै । पञ्चेति । एकैका दिक्षु एकां मध्ये । पञ्च वा इति । हेमन्तशिशिरयोरेकत्वात् ॥
3 समानप्रभृतय इति ॥ एकप्रारम्भा एकसमाप्तय इत्यर्थः । तस्मान्मध्ये (दोषं) एकं पदं व्यावर्तते तासां, यथा - सजूरादिकं वसुभी रुद्रैरादित्यैः विश्वैर्देवैरिति । सर्वमन्यत्समानं, यथा - सजूर् ऋतुभिस्सजूर्विधाभिः' इति सर्वासां प्रभृतिः । 'सजूर्देवैर्वयोनाथैः' इत्यादि सर्वासामुदर्कः । तस्मादित्यादि । मन्त्राणां अत्यन्तसाम्यात् ऋतवोऽप्यत्यन्तसमाना भवन्ति । एकेनेत्यादिना पुनः प्रवृत्तिं प्रतिपादयन्ति । तस्मादिति । एकेन पदेन व्यावृत्तत्वात् मन्त्राणां समाना अपि सन्तो व्यावृत्तधर्माणो भवन्ति ऋतवः । केचिदाहुः - विधाः वसुरुद्रादित्यविश्वेदेवाः । व्यावर्तकाः विधा इत्याव [इत्येवं] उच्यन्ते । 'सजूरृतुभिः' इति प्रभृतिः उदर्कः स (एक) एव । 'सजूर्देवैः' इति वीप्सा पञ्चस्वनुषङ्गद्योतनार्था इति ॥
4 प्राणभृत इति ॥ पञ्च एकैका दिक्षु एकां मध्ये । 'प्राणं मे पाहि' इत्याद्या ऋतुषु प्राणभरणहेतुत्वात्प्राणभृतः प्रजानां प्राणाद्यभिवृद्धिहेतुत्वमेव ऋतूनां प्राणादिमत्त्वम् । तस्मादिति । सर्वकालं समाना एकस्वभावा एव सन्तो भवन्तो न कदाचिदपि जीर्यन्त्यृतवः, समाना एव भवन्ति । आथो अपि च प्रजनयत्येवैनान् ऋतून् प्राणादिमतया न जराभावमात्रमेव क्रियत इति ॥
5 एष वा इति ॥ गतम् । सर्वानृतूनिति । सर्वैः ऋतुभिः लक्षितः । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । आवरीवर्ति पुनःपुनरावर्तते । यङ्लुकि 'रीगृदुपधस्य च' इति रीगागमः ॥
6 वृष्टिसनीरिति ॥ पञ्च एकैका दिक्षु एकां मध्ये ।'अपस्पिन्व' इत्याद्याः वृष्टिसनित्र्यः वृष्ठिसनयः । 'छन्दसि वनसन' इतीन्प्रत्ययः । एकधेति । एकस्यामेव दिशि स्थित उपदध्यात् । एकमृतुमिति । अत्यन्तसंयोगे द्वितीया । अनुपरिहारमिति । अनुक्रमेण परितस्सर्वासु दिक्षु गत्वा सादयति सर्वस्यां दिशि उपदधाति । आभीक्ष्ण्ये णमुल् । तस्मादित्यादि । गतम् । वायु प्रच्युतेति । वायुना प्रच्याविता । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । ईर्त इति । च्यवते । ईर गतौ आदादिकः ॥
7 अथ वयस्या विधास्यन् तासां अपस्याभ्यः पूर्वमेवोपधेयत्वं शाखान्तरविधेयं दूषयितुमाह - पशवो वै वयस्या इति ॥ तत्साधनत्वात्ताच्छब्द्यम् । वयस्यावानुपधानो मन्त्रः आसामिति वयस्याः 'त्र्यविर्वयः' इत्याद्या एकोनविंशतिः । नानामनस इत्यादि । ना आवयः नदे यस्मै [नावश्यं यदेकस्मै रोचते तदन्यस्मै] रोचते । तथा नानाव्रताः नानाकर्माणः यत्रैव कश्चित् प्रवर्तते तत्रैवान्यो निर्वतते । सर्वेऽपि पशवो लक्षीकृत्य समानमनसो भवन्ति । सर्वेभ्योप्यापः रोचन्ते । सर्वेऽपि स्नानपानादिना अप्सु रमन्ते । तस्मादेवमपां सर्वाभिमतत्वादपस्यानामेव प्राथम्यं युक्तियुक्तमिति । अपस्याशब्देन चानन्तरोपहिताः 'अपस्पिन्व' इत्यादयो वृष्टिसनय उच्यन्ते ॥
8 यं कामयेतेत्यादि ॥ प्रथममुपहितानां पश्वात्मनां वयस्यानां पश्चादनुपरिहारमुपधीयमानाभिः अपस्याभिः अभिभूतत्वादस्य यजमानस्य पशुभिरसंज्ञानं अप्रकाशं करोति बहुपशुभिरप्रसिद्धेः अपशुरेव भवति । अपस्यानांतु प्राथम्ये पश्वात्मानां वयस्यानां केनचिदभिभूतत्वात् पशुभिः ख्यातः पशुमान् भवति, वयस्यान्तत्वात् चितेः गुणोत्तरेण चाभिभवो नास्तीति भावः ॥
9 चतस्र इत्यादि ॥ 'विष्टम्भो वयः' इत्याद्याः । न त्वनुवाकस्याद्याः । अत्र मन्त्राम्नातक्रममुल्लङ्घ्य ब्राह्मणेन क्रमान्तरं विधीयते । अत्र च लिङ्गं - मूर्धन्वतीर्भवन्ति इति । नव्यादिषु चतसृषु काचिदपि मूर्धन्वती तासामुपधानोति [धाने] विद्यते । ताः पुरस्तात् शिरसि प्रतिरूपं दधाति । तस्मादिति । द्वे शुक्ले रूपे शुक्लं च शारं च । द्वे कृष्णे कृणं गोळं पुरुषमण्डलश्च । 'कृष्णस्यामृगाख्यायाम्' इति अन्तोदात्तत्वम् ॥
10 मूर्धन्वतीरिति ॥ मूर्धन्वानासामुपधानो मन्त्र इति । 'वयस्यासु मूर्ध्नो मतुप्' 'अनो नुट्' 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । तस्मादिति । पश्चाद्वर्षीयान् वृद्धतरः । प्रियस्थिरादिना वर्षादेशः । पुरस्तात्प्रवणः कृशः । 'प्रनिरन्तः' इत्यादिना णत्वन् ॥
11 दक्षिणे अंस उपदधातीत्येव । अंसावेवेति । परस्परस्योपकुर्वाणेन स्थापयति । उत्तर इति । पक्षे उपदधातीत्येव । पक्षयोरित्यादि । गतम् । मध्य इति आत्मनि । तस्मादिति । प्रधानस्था(प)ने पुरुषशब्देनोपधानात् । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
इति पञ्चमे तृतीये प्रथमोनुवाकः ॥