अनुवाकः 7 TS 5.3.7

(A7)

(संभृ॑तं॒ ॅयन्ना॑क॒सदो॒ यन्ना॑क॒सद॒ - स्तत् - प॑शू॒ना-मे॒षा वै-द्वाविꣳ॑शतिश्च)

अनुवाकः 7 - Complete Audio

TS 5.3.7 - स्वरानुगामी

0:00 0:00
PS1.1 ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न्
PS1.2 तन्ना॑क॒सदां᳚ नाकस॒त्त्वं ॅयन्ना॑क॒सद॑ उप॒दधा॑ति
PS1.3 नाक॒सद्भि॑रे॒व तद्-यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति
PS1.4 सुव॒र्गो वै लो॒को नाको॒
PS1.5 यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अकं॑
PS1.6 भवति यजमानायत॒नं ॅवै ना॑क॒सदो॒
PS1.7 यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्-यज॑मानः कुरुते
PS1.8 पृ॒ष्ठानां॒ ॅवा ए॒तत् तेजः॒
PS1.9 संभृ॑तं॒ ॅयन्ना॑क॒सदो॒ यन्ना॑क॒सद॑ -
PS1.10 [ ]
PS2.1 उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे
PS2.2 पञ्च॒चोडा॒ उप॑ दधात्यफ्स॒रस॑ ए॒वैन॑मे॒ता
PS2.3 भू॒ता अ॒मुष्मि॑न् ॅलो॒क उप॑
PS2.4 शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं
PS2.5 द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्य॒
PS2.6 आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒
PS2.7 उप॑दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑
PS2.8 निषा॒दय॑ति ता॒दृगे॒व तत् -
PS2.9 [ ]
PS3.1 प॒श्चात् प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त्
PS3.2 प॒श्चात् प्राची॒ पत्न्यन्वा᳚स्ते स्वयमातृ॒ण्णां
PS3.3 च॑ विक॒र्णीं चो᳚त्त॒मे उप॑
PS3.4 दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णाऽऽयु॑र्विक॒र्णी
PS3.5 प्रा॒णं चै॒वाऽऽ*यु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒
PS3.6 तस्मा᳚त् प्रा॒णश्चाऽऽ*यु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑
PS3.7 दद्ध्या॒द्-यद॒न्यामुत्त॑रा॒-मिष्ट॑का-मुपद॒द्ध्यात् प॑शू॒नां - [
PS3.8 ]
PS4.1 च॒ यज॑मानस्य च प्रा॒णं
PS4.2 चाऽऽ*यु॒श्चापि॑ दद्ध्या॒त् तस्मा॒न्ना-न्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑
PS4.3 दधात्य॒सौ वै स्व॑यमातृ॒ण्णा- ऽमूमे॒वोप॑
PS4.4 ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚
PS4.5 दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑
PS4.6 प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति
PS4.7 प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्याऽनु॑ख्यात्या
PS4.8 ए॒षा वै ( )
PS4.9 दे॒वानां॒ ॅविक्रा᳚न्ति॒र्यद्-वि॑क॒र्णी यद्-वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व
PS4.10 विक्रा᳚न्ति॒मनु॒ विक्र॑मत उत्तर॒त उप॑दधाति॒
PS4.11 तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्नि र्वा॑यु॒मती॑ भवति॒
PS4.12 समि॑द्ध्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.3.7.1 TS 5.3.7.1
ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् तन्ना॑क॒सदां᳚ नाकस॒त्त्वं ॅयन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्-यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अकं॑ भवति यजमानायत॒नं ॅवै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्-यज॑मानः कुरुते पृ॒ष्ठानां॒ ॅवा ए॒तत् तेजः॒ संभृ॑तं॒ ॅयन्ना॑क॒सदो॒ यन्ना॑क॒सद॑ - [ ]
पदपाठः (Word-by-word)
ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तत् । ना॒क॒सदा॒मिति॑ नाक - सदा᳚म् । ना॒क॒स॒त्त्वमिति॑ नाकसत् - त्वम् । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । ए॒व । तत् । यज॑मानः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ए॒ति॒ । सु॒व॒र्ग इति॑ सुवः-गः । वै । लो॒कः । नाकः॑ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । न । अ॒स्मै॒ । अक᳚म् । भ॒व॒ति॒ । य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । वै । ना॒क॒सद॒ इति॑ नाक - सदः॑ । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । आ॒यत॑न॒मित्या᳚ - यत॑नम् । ए॒व । तत् । यज॑मानः । कु॒रु॒ते॒ । पृ॒ष्ठाना᳚म् । वै । ए॒तत् । तेजः॑ । संभृ॑त॒मिति॒ सं - भृ॒त॒म् । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ । यत् । ना॒क॒सद॒ इति॑ नाक - सदः॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 नाकसद्भिरित्यादिना नाकसदां विधिः ॥ नाकस्य पृष्ठे स्वर्गे लोके इत्यनुषङ्गः । तेनोपलक्षिता नाकसदः 'राज्ञ्यसि' इत्यादयः पञ्च एकैका दिक्षु एकां मध्ये उपदधानः अस्माकं कं सुखं अकं दुखं तत्स्वभावो न भवतीति नाकः । 'नभ्राण्णपात्' इति प्रकृत्या भावः ॥
2 यजमानायतनमिति ॥ तत्साधनत्वात्ताच्छब्द्यम् ॥
3 पृष्ठानामिति ॥ रथन्तरादीनां साम्नां तेजस्सम्भृतं इष्टकारूपेण । तस्मात् पृष्ठसाध्यं तेजः आसामुपधानेन लभते ॥
4 पञ्चचोडा इति ॥ उपरिष्टान्नाकसदामुपदधाति तस्मा त्प्राचीमुत्तमां नाकसद एव 'अयं पुरो हरिकेशः' इत्याद्याः पञ्च एकैका दिक्षु एकां मध्ये । चुड संवरणे, चोडाः संवृताभ्यः अप्सरसः संस्तवात् पञ्चैव चोडाः पञ्चचोडाः । 'दिक्संख्ये सज्ञायाम्' इति समासः सप्तर्षिवत् । एताः पञ्चचोडाः अप्सरसः एवम्भूता अमुष्मिन् लोके यजमानमुपशेरते रमयन्ति जायाभूताः । 'लोपस्त आत्मनेपदेषु' इति लोपः 'बहुलं छन्दसि' इति रुट् । अथो अपि च एता यजमानस्य तनूपानीः शरीरस्य पालिन्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । तस्माद्यजमानो यं द्विष्यात्तं पुरुषं एता उपदध्यात् । एताभ्यः तनूपानीभ्यः पञ्चचोडाभ्यो देवताभ्य एनं द्वेष्यमावृश्चति छिनत्ति पृथक्त्वेनोपधानकाले ध्यातत्वात् । ततश्च विनष्टतनुस्सन् तदानीमेवार्तिं गच्छति ॥
5 उत्तरा इत्यादि ॥ उत्तराः उद्गततरा नाकसद्भ्य उपदधाति पञ्चचोडाः । यथेत्यादि । आयतनस्थानीयानां नाकसदां उपरि जायास्थानीयानां पञ्चचोडानां उपधानात् ॥
6 पश्चात्प्राचीमित्यादि ॥ प्राच्यां प्राङ्मुख उत्तमां अन्त्यामुपदधाति । केचिदाहुः - प्राचीं दक्षिणां उत्तरां मध्यमाञ्चोपधाय प्रतीच्यां दिशि क्रमोपधेया तृतीया ॥
7 प्राणो वा इत्यादि ॥ प्राणस्थानीया स्वयमातृण्णा विकर्णी चापि शब्द्यते ॥
8 यदित्यादि ॥ अपिदध्यात् तिरोदध्यात् नाशयेत् । तस्मादन्या तयोरुपरि निधेयेति ॥
9 स्वयमातृण्णामित्यादि ॥ व्याख्यातम् । 'असौ वै' इत्यादि शेषः ॥
10 एषा वा इत्यादि ॥ विक्रान्तिः विजयशक्तिः तामनुविक्रमते तया सहाप्रतिबन्धेन आक्रामति । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम् । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् ॥
11 उत्तरत इति ॥ उत्तरतः प्रक्रमवेलायां प्रकीर्णमुपदधाति । उत्तरत उपचारः उत्तरस्यां दिशि कर्तव्या उपचारा यस्य तादृशोग्निः तस्माद्भवति ॥
12 वायुमतीति ॥ वायुशब्दवान्मन्त्रः 'आदस्य वातः' इति । 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । समिध्या इति । अग्नेस्समिन्धनार्थाम् । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे तृतीये सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.3.7.2 TS 5.3.7.2
उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे पञ्च॒चोडा॒ उप॑ दधात्यफ्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑न् ॅलो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् - [ ]
पदपाठः (Word-by-word)
उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । पृ॒ष्ठाना᳚म् । ए॒व । तेजः॑ । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒चोडा॒ इति॑ पञ्च - चोडाः᳚ । उपेति॑ । द॒धा॒ति॒ । अ॒फ्स॒रसः॑ । ए॒व । ए॒न॒म् । ए॒ताः । भू॒ताः । अ॒मुष्मिन्न्॑ । लो॒के । उपेति॑ । शे॒रे॒ । अथो॒ इति॑ । त॒नू॒पानी॒रिति॑ तनू - पानीः᳚ । ए॒व । ए॒ताः । यज॑मानस्य । यम् । द्वि॒ष्यात् । तम् । उ॒प॒दध॒दित्यु॑प - दध॑त् । ध्या॒ये॒त् । ए॒ताभ्यः॑ । ए॒व । ए॒न॒म् । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । उत्त॑रा॒ इत्युत् - त॒राः । ना॒क॒सद्भ्य॒ इति॑ नाक॒सत्-भ्यः॒ । उपेति॑ । द॒धा॒ति॒ । यथा᳚ । जा॒याम् । आ॒नीयेत्या᳚ - नीय॑ । गृ॒हेषु॑ । नि॒षा॒दय॒तीति॑ नि - सा॒दय॑ति । ता॒दृक् । ए॒व । तत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.3.7.3 TS 5.3.7.3
प॒श्चात् प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त् प॒श्चात् प्राची॒ पत्न्यन्वा᳚स्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो᳚त्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णाऽऽयु॑र्विक॒र्णी प्रा॒णं चै॒वाऽऽ*यु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मा᳚त् प्रा॒णश्चाऽऽ*यु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दद्ध्या॒द्-यद॒न्यामुत्त॑रा॒-मिष्ट॑का-मुपद॒द्ध्यात् प॑शू॒नां - [ ]
पदपाठः (Word-by-word)
प॒श्चात् । प्राची᳚म् । उ॒त्त॒मामित्यु॑त् - त॒माम् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । प॒श्चात् । प्राची᳚ । पत्नी᳚ । अन्विति॑ । आ॒स्ते॒ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । च॒ । वि॒क॒र्णीमिति॑ वि - क॒र्णीम् । च॒ । उ॒त्त॒मे इत्यु॑त् - त॒मे । उपेति॑ । द॒धा॒ति॒ । प्रा॒ण इति॑ प्र - अ॒नः । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । आयुः॑ । वि॒क॒र्णीति॑ वि - क॒र्णी । प्रा॒णमिति॑ प्र - अ॒नम् । च॒ । ए॒व । आयुः॑ । च॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उ॒त्त॒मावित्यु॑त् - त॒मौ । ध॒त्ते॒ । तस्मा᳚त् । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । आयुः॑ । च॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उ॒त्त॒मावित्यु॑त् - त॒मौ । न । अ॒न्याम् । उत्त॑रा॒मित्युत् - त॒रा॒म् । इष्ट॑काम् । उपेति॑ । द॒द्ध्या॒त् । यत् । अ॒न्याम् । उत्त॑रा॒मित्युत् - त॒रा॒म् । इष्ट॑काम् । उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । प॒शू॒नाम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.3.7.4 TS 5.3.7.4
च॒ यज॑मानस्य च प्रा॒णं चाऽऽ*यु॒श्चापि॑ दद्ध्या॒त् तस्मा॒न्ना-न्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णा- ऽमूमे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्याऽनु॑ख्यात्या ए॒षा वै ( ) दे॒वानां॒ ॅविक्रा᳚न्ति॒र्यद्-वि॑क॒र्णी यद्-वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ विक्र॑मत उत्तर॒त उप॑दधाति॒ तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्नि र्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥
पदपाठः (Word-by-word)
च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । च॒ । आयुः॑ । च॒ । अपीति॑ । द॒द्ध्या॒त् । तस्मा᳚त् । न । अ॒न्या । उत्त॒रेत्युत्-त॒रा॒ । इष्ट॑का । उ॒प॒धेयेत्यु॑प - धेया᳚ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । अ॒सौ । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । अ॒मूम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ । घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । ए॒षा । वै ( ) । दे॒वाना᳚म् । विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । यत् । वि॒क॒र्णीति॑ वि - क॒र्णी । यत् । वि॒क॒र्णीमिति॑ वि - क॒र्णीम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । दे॒वाना᳚म् । ए॒व । विक्रा᳚न्ति॒मिति॒ वि- क्रा॒न्ति॒म् । अनु॑ । वीति॑ । क्र॒म॒ते॒ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । उ॒त्त॒र॒त उ॑पचार॒ इत्यु॑त्तर॒तः - उ॒प॒चा॒रः॒ । अ॒ग्निः । वा॒यु॒मतीति॑ वायु - मती᳚ । भ॒व॒ति॒ । समि॑द्ध्या॒ इति॒ सं - इ॒द्ध्यै॒ ॥
पदसंख्या: 72