पञ्चशत् 1 #
सर्वा᳚भ्यो॒ वै दे॒वता᳚भ्यो॒ऽग्निश्ची॑यते॒ यथ् स॒युजो॒ नोप॑द॒द्ध्याद् दे॒वता॑ अस्या॒ग्निं ॅवृ॑ञ्जीर॒न्॒. यथ् स॒युज॑ उप॒दधा᳚त्या॒त्मनै॒वैनꣳ॑ स॒युजं॑ चिनुते॒ नाग्निना॒ व्यृ॑द्ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ संत॑त ए॒वमे॒वैताभि॑र॒ग्निः संत॑तो॒ ऽग्निना॒ वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् ता अ॒मूः कृत्ति॑का अभव॒न्॒ यस्यै॒ता उ॑प धी॒यन्ते॑ सुव॒र्गमे॒व - [ ]
पदपाठः (Word-by-word)
सर्वा᳚भ्यः । वै । दे॒वता᳚भ्यः । अ॒ग्निः । ची॒य॒ते॒ । यत् । स॒युज॒ इति॑ स - युजः॑ । न । उ॒प॒द॒द्ध्यादित्यु॑प - द॒ध्यात् । दे॒वताः᳚ । अ॒स्य॒ । अ॒ग्निम् । वृ॒ञ्जी॒र॒न्न् । यत् । स॒युज॒ इति॑ स - युजः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । आ॒त्मना᳚ । ए॒व । ए॒न॒म् । स॒युज॒मिति॑ स-युज᳚म् । चि॒नु॒ते॒ । न । अ॒ग्निना᳚ । वीति॑ । ऋ॒द्ध्य॒ते॒ । अथो॒ इति॑ । यथा᳚ । पुरु॑षः । स्नाव॑भि॒रिति॒ स्नाव॑ - भिः॒ । संत॑त॒ इति॒ सं-त॒तः॒ । ए॒वम् । ए॒व । ए॒ताभिः॑ । अ॒ग्निः । संत॑त॒ इति॒ सं-त॒तः॒ । अ॒ग्निना᳚ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । ताः । अ॒मूः । कृत्ति॑काः । अ॒भ॒व॒न्न् । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सर्वेभ्यो वै देवताभ्य इत्यादि सयुजां विधिः ॥ सह यो यजति यजमानमग्निनेति सयुजः 'इन्द्राग्निभ्यां' इत्यष्टौ । 'सहस्य सः संज्ञायाम्' इति सभावः । सर्वदेवतार्थमग्निश्चीयते, सर्वासामप्यङ्गप्रधानदेवतानां तत्राज्यमानत्वात् । तत्र यदि सयुजो नोपदध्यात् अस्याग्निं देवता युञ्जीरन् वर्जयेरन् । तस्मात्सयुजामुपधानेन एनं सयुजं सहयुक्तं चिनुते । ततोऽयं नाग्निना व्यृध्यते अग्निसम्पाद्यया सिद्ध्या विहीनो न भवति । अथो अपि च यथा पुरुषः स्नावभिः सिराभिः सन्ततः व्याप्तः एवमैवैताभिः सयुग्भिरग्निभिः सन्ततः चित्यांचित्यां व्याप्तः । तस्मात्सर्वासु चितिषु सयुज उपदध्यादिति विधिः । तत्राद्यन्तयोरेकैकां उपदधाति 'इन्द्राग्निभ्यां त्वा' 'रय्यै पोषाय सजातानां मध्यमस्थेयाय मया त्वा' इति । द्वितीयतृतीयचतुर्थेषु द्वेद्वे 'आघाराभ्यां त्वा' 'तेजसा त्वा' इति, द्वितीयस्यां 'वर्चसा त्वा' 'उक्थेभिस्त्वा' इति, तृतीयस्यां 'स्तोमेभिस्त्वा' 'छन्दोभिस्त्वा' इति, चतुर्थ्यां 'सयुजा युजा युनज्मि' इति ॥
2 यथा देवाः गताः गच्छन्ति च प्रकाशं यथा देवा दिवि प्रकाशन्ते चित्रं चास्य चरितं चायनीयं भवति सर्वदा यथा देवानामिति । चित्रं सर्वदा भवति कृत्तिकावत् सन्निविष्टत्वात् कृत्तिकाः । देवनद्य एता इति केचित् । एताश्च दक्षिणेंऽसे गुल्मकृता उपधेयाः ॥
3 मण्डलेष्टका इत्यादि ॥ प्रथममध्यमोत्तमासु चितिषु 'पृथिव्युदपुरं' इत्याद्याः क्रमेण उपदधाति । इमे वा इति । स्थानसामान्यात् । इमे खल्विति । देवानां पुरा वासस्थानानि । 'ऋक्पूरब्धूः' इत्याकारस्समासान्तः । तस्माद्देवानामेव पुरः प्रविशति न चार्तिं कांचिदपि गच्छति; कः मण्डलेष्टकावन्तं अग्निं चिक्यानः चिन्वानः । छान्दसो लिटः कानजादेशः, 'विभाषाञ्चेः' इति कुत्वम् ॥
4 विश्वज्योतिष इति ॥ तास्वेव चितिषु 'बृहस्पतिस्त्वा सादयतु' इत्याद्याः तिस्रः क्रमेणोपदधाति । विश्वज्योतिः याभिः प्राप्यते ता विश्वज्योतिषः । या मण्डलेष्टकाभिः प्रविशति इमान् लोकान् आभिर्विश्वज्योतिर्भिः ज्योतिष्मतः प्रकाशवतः कुरुते । अथो अपि च एता विश्वज्योतिषः यजमानस्य प्राणान्दाध्रति धारयति । छान्दसः शपः श्लुः । 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् ॥
5 एता वा इति ॥ बृहस्पतिविश्वकर्मप्रजापतयः स्वर्गप्राप्तिनिमित्तभूताः । 'गोद्व्यचः' इति यत् । ता एवान्वारभ्य अवलम्ब्य स्वर्गं गच्छति विश्वज्योतिषामुपधाता ॥
इति पञ्चमे तृतीये नवमोनुवाकः ॥