पञ्चशत् 1 #
छन्दाꣳ॒॒स्युप॑ दधाति प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुन्धे॒ छन्दाꣳ॑सि॒ वै दे॒वानां᳚ ॅवा॒मं प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्ध ए॒ताꣳ ह॒ वै य॒ज्ञ्से॑न-श्चैत्रियाय॒ण-श्चितिं॑ ॅवि॒दां च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्धे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व - [ ]
पदपाठः (Word-by-word)
छन्दाꣳ॑सि । उपेति॑ । द॒धा॒ति॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । छन्दाꣳ॑सि । वै । दे॒वाना᳚म् । वा॒मम् । प॒शवः॑ । वा॒मम् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । ए॒ताम् । ह॒ । वै । य॒ज्ञ्से॑न॒ इति॑ य॒ज्ञ् - से॒नः॒ । चै॒त्रि॒या॒य॒णः । चिति᳚म् । वि॒दाम् । च॒का॒र॒ । तया᳚ । वै । सः । प॒शून् । अवेति॑ । अ॒रु॒न्ध॒ । यत् । ए॒ताम् । उ॒प॒दधा॒तीत्यु॑प - द॒धा॑ति । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्रीः । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । तेजः॑ । वै । गा॒य॒त्री । तेजः॑ । ए॒व ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 छन्दांस्युपदधातीत्यादि ॥ छन्दोभिः गायत्र्यादिभिः उपधेया इष्टका छन्दांसि 'अग्निर्मूर्धा' इत्याद्याः तिस्रस्तिस्रो यथाम्नानमेकैकस्यां दिशि । पशवो वा इति । तत्साधनत्वात्ताच्छब्द्यम् । नानारूपत्वाद्वा । छन्दांसि वा इति । देवानां स्वभूतं वामं वननीयं यद्धनं पश्वात्त्मकं तत्खलु छन्दांसि । तस्माच्छन्दसामुपधानेन पश्वात्मकं धनं वाममवरुन्धे ॥
2 एतां ह वा इत्यादि ॥ यज्ञसेनो नाम चित्रियायणस्य अपत्यं पुमान् चैत्रियायणः । 'वृद्धस्य च पूजायाम्' इति युवत्वम्, 'यञिञोश्च' इति फक् । नडादिश्चायं द्रष्टव्यः । यद्वा - नडादिषु चित्रशब्दः पठ्यते । तस्माति फक् । छान्दसो यकारोपजनः । स एताः छन्दश्चितिं विदांचकार ज्ञातवान् । 'उपविदजागृभ्यः' इत्याम्प्रत्ययः । विदेरदन्त्विति निपातनाद्गुणाभावः । तयेत्यादि । गतम् ॥
3 गायत्रीरिति ॥ 'अग्निर्मूर्धा' इत्याद्याः । तेजो या इति । तेजोहेतुत्वात् तेजसा सहोत्पन्नत्वात् ॥
4 मूर्धन्वतीरिति ॥ वयस्यासुमूर्ध्नां मतुब्विधीयते । नैता वयस्याः ; तर्हि 'तद्वानासां' इति न विवक्ष्यते । मूर्धशब्दवत्यो मूर्धन्वत्यः । 'अनो नुट्' 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । पूर्ववत्सवर्णदीर्घत्वम् । ताभिरुपधेया अप्युपचारेण गायत्र्यः मूर्धन्वत्यश्च । मूर्धानं प्रधानमित्यर्थः ॥
5 त्रिष्टुभ इति ॥ 'भुवो यज्ञस्य' इत्याद्या तिस्रो दक्षिणतः । इन्द्रियं वा इति । पूर्ववत्ताच्छब्द्यम् ॥
6 जगतीरिति ॥ 'जनस्य गोपाः' इत्याद्यास्तिस्रः पश्चात् ॥
7 अनुष्टुभ इति ॥ 'त्वां चित्रश्रवस्तम' इत्याद्यास्तिस्रः उत्तरतः । प्राणानामुत्सृष्ट्या इति । अनिरोधायेत्यर्थः ॥
8 बृहतीरित्यादि ॥ उक्तमुपधानं सम्प[समानपा]दानां गायत्रीत्रिष्टुप्जगत्यनुष्टुभाम् । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरित्येतानि विषुरूपाणि विषमरूपतया नानारूपाणि उपदध्यात् । तत्र मध्ये बृहतीस्तिस्र उपदधाति 'एना वः' इत्याद्याः बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा इति विषमपादत्वम् । तत्र प्रथमातृतीये पथ्याबृहत्यौ । द्वितीया पुरस्ताद्बृहती चतुरक्षराभिक्रान्ता । अथ पुरस्तादुष्णिहस्तिस्रं उपदधाति 'अग्ने वाजस्य' इत्याद्याः । द्वाम्यामष्टाक्षराभ्यां द्वादशाक्षरेण चैकेनेति विषुरूपत्वम् । (निरोपि परोष्णिहः) । अथ पङ्क्तीस्तिस्रो दक्षिणत उपदधाति 'आ ते अग्ने' इत्याद्याः । सर्वाश्चैताः पङ्क्तयः यथोक्तं 'पथ्या पञ्चभिरष्टाक्षरैः' इति । अत्र पादसङ्ख्याविषमत्वात् विषुरूपत्वम् । अथाष्टाक्षरपङ्क्तीश्चतस्रः पश्चादुपदधाति 'अग्ने तमद्य' इत्याद्याः । ननु यत्र चत्वारः पञ्चकाः द्वौ भूयो वा तामक्षरपङ्क्तिमाहुः यत्र तु पञ्च पञ्चकाः यत्र वा पञ्चपञ्चकाः चतुष्कषट्कौ यत्र वा चत्वारः पञ्चकाः षट्कश्चैकः तां त्रिविधां पदपङ्क्तिमाहुः । अत्र चैतासां पदपङ्क्तित्वं पश्यामः । अत्र ब्रूमः - श्रुतिप्रामाणादक्षरपङ्क्तेः ल- क्षणान्तरं मृग्यम् । स्पष्टं विषुरूपत्वमासाम् । विषुरूपमस्येति । विदुषः फलम् । नारूपं हिरण्यरजतादि अस्य गृहे सर्वदा दृश्यते य एवं विद्वानेता उपदधतीति ॥
9 अतिच्छन्दसमित्यादि ॥ उत्तरतो मध्ये वा अतिच्छन्दसमुपदधाति 'अग्निं होतारं' इत्यष्टिं सप्तपदामेकाम् । गायत्र्यादिजगत्यन्तान्यतिछन्दांसि । सर्वाणीति । जगत्यन्तानां सर्वासां तत्रान्तर्भावात् । सर्वेभिरिति । 'बहुलं छन्दसि' इत्यैसभावः ॥
10 वर्ष्मेति ॥ उच्छ्रायवत्त्वात्ताच्छब्द्यम् । समानानां मध्ये यजमानमुच्छ्रितं करोति ॥
11 द्विपदा इति ॥ मध्ये उत्तरतो वा तिस्रः 'अग्ने त्वं नः' इत्याद्याः । सर्वाश्चैता विराजः विराड्जागतगायत्राभ्यामिति, द्वौ पादौ आसामिति बहुव्रीहौ 'सङ्ख्यासुपूर्वस्य' इति लोपे समासान्ते 'टाबृचि' इति टाप्, 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पद्दन्' इत्यन्तोदात्तत्वम् । द्विपदानामासामुपधानं द्विपदो यजमानस्य प्रतिष्ठित्यै भवतीति । 'उदेतौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे तृतीये अष्टमोनुवाकः ॥