पञ्चशत् 1 #
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ ॅवा इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚-र्लो॒कयो॒-र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒ भृता॒वोज॑सै॒वैना॑-म॒न्तरि॑क्षे चिनुते॒ धृत्यै᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ ॅवै स्व॑यमातृ॒ण्णा ऽन्तरि॑क्षमे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ - [ ]
पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । अव्य॑थमानाम् । इति॑ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । वै । इ॒मौ । लो॒कौ । विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । अ॒नयोः᳚ । लो॒कयोः᳚ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । अधृ॑ता । इ॒व॒ । वै । ए॒षा । यत् । म॒द्ध्य॒मा । चितिः॑ । अ॒न्तरि॑क्षम् । इ॒व॒ । वै । ए॒षा । इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । इति॑ । आ॒ह॒ । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । वै । दे॒वाना᳚म् । ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ । ओज॑सा । ए॒व । ए॒ना॒म् । अ॒न्तरि॑क्षे । चि॒नु॒ते॒ । धृत्यै᳚ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । अ॒न्तरि॑क्षम् । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं-आ॒तृ॒ण्णा । अ॒न्तरि॑क्षम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ मध्यमायां चितौ स्वयमातृण्णां विदधाति - इन्द्राग्नी इत्यादि ॥ प्रथमचितामिव स्वयमातृण्णां अश्वमवघ्राप्य अविदुषा ब्राह्मणेन सहाभिद्रुत्य 'इन्द्राग्नी अव्यथमानां' इत्यनुद्रुत्य 'विश्वकर्मा त्वा सादयतु' इत्युपदधाति । इमौ लोकाविति । द्यौश्च पृथिवी च विधृताविति शेषो धारयितुं शक्यते । तस्मादिन्द्राग्निभ्यां कृतग्रहणा स्वयमातृण्णा अनयोस्तावत् लोकयोः विधृत्यै भवति । 'गतिरनन्तरः' 'तादौ च' इत्युभयत्र गतेः प्रकृतिस्वरत्वम् ॥
2 अथान्तरिक्षस्य विधृतिं प्रतिपादयन्ति - अधृतेव वेत्यादि ॥ कथमधृतेवेत्याह - अन्तरिक्षमिवेति । मध्यमत्वात् । ओजोभृताविति सामर्थ्यातिशयो गम्यते । सर्वेषामपि देवानां ओजोभृत्त्वात् तस्मात्तयोरेवौजसा इमामन्तरिक्षे चिनुते । तस्मादियमन्तरिक्षस्यापि धृत्यै धारणाय भवति ॥
8 अन्तरिक्षं वा इत्यादि ॥ बहूपकारकत्वात् छिद्रवत्त्वाच्च ॥
4 अश्वमुप घ्रापयतीति ॥ व्याख्यातं स्वयमातृण्णामित्यत्र ॥
5 देवानां वा इत्यादि ॥ दिश्याविधिः । यतामिति । 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । समव्लीयन्त व्यशीर्यन्त । व्ली विशरणे । दिश्या इति । दिश्यानुपदधानो मन्त्र आसामिति दिश्याः । पूर्ववद्यत् । 'राज्ञ्यसि' इत्यादयः पञ्च एकैका दिक्षु एकामध्यै । ता इत्यादि । गतम् ॥
6 दश प्राणभृत इत्यादि ॥ पुरस्तात् प्राचीः 'आयुर्मे पाहि' इत्याद्याः पुरुषस्य आयुर्दाः प्राणहेतवः । नवेति । सप्त शीर्षण्या द्वाववाञ्चाविति । तस्मात्पुरस्तात्प्रायशः [त्प्राञ्चः] ॥
7 ज्योतिष्मतीमिति ॥ ज्योतिर्मे यच्छेति । वाग्ज्योतिरिति । परस्य ज्योतिषो विवर्तत्वाद्वाचः ॥
8 दशाक्षरेति ॥ छन्दसां मध्ये विराट् द्योतनशीला ज्योतिः । तस्मादिति । भ्रूमध्यादौ परं ज्योतिरुपास्महे । यद्वा - पूर्वस्यां दिशि सावित्रं ज्योतिरुपास्महे उदितं पश्यामः ॥
9 अथ बृहतीर्विधातुमाह - छन्दांसीत्यादि ॥ पशुषु निमित्तेषु आजिमयुः युद्धं गताः । 'लङश्शाकटायनस्य' इति झेर्जुस् । तानित्यादि । गतम् । तस्मात्पशव्या बृहत्य इत्युक्तं भवति ॥
10 'मा छन्दः' इत्याद्या द्वादश दक्षिणत उपदधाति तस्मादिति ॥ पादसङ्ख्यान्वयान्माशब्दान्वयाच्च मासा गृह्यन्ते । दक्षिणावृत इति । दक्षिणायां दिशि आवृत्तिर्येषां दक्षिणभागवृत्तित्वं प्रदक्षिणभागगमनत्वं मेषादिसंज्ञासंज्ञितगोळद्वादशभागस्थितदिवाकरगतिविशेषात्मनां मासानां गोळभ्रमणनिबन्धनात् प्रदक्षिणा वृत्तिः । प्रतिष्ठित्या इति । पृथिव्यादीनां द्वादशानां प्रतिष्ठाहेतुत्वात् ॥
11 ओज एवेति ॥ अग्न्यादीनां ओजस्वित्वात् । तस्मादिति । उत्तरस्यां दिशि अभिप्रयाणशीलो जयति दुरितानि । 'सुप्यजातौ' इति निनिः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
12 षत्रिंशदिति ॥ षट्च त्रिंशच्च षट्त्रिंशत् । 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । बृहत्येति । शतृवद्भावात् 'शतुरनुमः' इति नद्या उदात्तत्वम्, 'बृहन्महतोरुपसङ्ख्यानम्' इति वा । ततः 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । स्वाराज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् ॥
13 वालखिल्या इति ॥ 'मूर्धाऽसि राट्' इति पुरस्तात्प्रतीचीः 'यन्त्री राट्' इति सप्त पश्चात् प्राचीः । वालस्थाने खिलां स्वरूपासङ्कीर्तनात् वालखिल्या इति संज्ञामात्रमिदम् । यद्वा - वालखिल्या ऋषयः तदात्मनेष्टकाः स्तूयन्ते । द्वाविति । तेन शीर्षण्याः प्राणाः सङ्ख्यायास्सप्तत्वात् संहतिः वक्ष्यत इति ॥
14 समीच इति ॥ परस्परसङ्गताः तेन चक्षुरादिके द्वेद्वे सङ्गते इति । 'समस्समिः' इति सम्यादेशे 'चौ' इति दीर्घत्वम्, अन्तोदात्तत्वं च ॥
इति पञ्चमे तृतीये द्वितीयोनुवाकः ॥