अनुवाकः 2 TS 5.3.2

(A2)

(अश्व॒मुप॑-पु॒रस्ता॒दुप॒-बार्.ह॑ता-ए॒ता-श्चतु॑स्त्रिꣳशच्च)

अनुवाकः 2 - Complete Audio

TS 5.3.2 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒
PS1.2 ॅवा इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚-र्लो॒कयो॒-र्विधृ॑त्या॒
PS1.3 अधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा
PS1.4 चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी
PS1.5 वै दे॒वाना॑मोजो॒ भृता॒वोज॑सै॒वैना॑-म॒न्तरि॑क्षे चिनुते॒
PS1.6 धृत्यै᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ ॅवै
PS1.7 स्व॑यमातृ॒ण्णा ऽन्तरि॑क्षमे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑
PS1.8 - [ ]
PS2.1 घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो
PS2.2 वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते
PS2.3 स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑
PS2.4 सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ ॅवै
PS2.5 सु॑व॒र्गं ॅलो॒कं ॅय॒तां दिशः॒
PS2.6 सम॑व्लीयन्त॒ त ए॒ता दिश्या॑
PS2.7 अपश्य॒न् ता उपा॑दधत॒ ताभि॒र्वै
PS2.8 ते दिशो॑ऽदृꣳह॒न्॒ यद्दिश्या॑ उप॒दधा॑ति
PS2.9 दि॒शां ॅविधृ॑त्यै॒ दश॑ प्राण॒भृतः॑
PS2.10 पु॒रस्ता॒दुप॑ - [ ]
PS3.1 दधाति॒ नव॒ वै पुरु॑षे
PS3.2 प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒
PS3.3 तस्मा᳚त् पु॒रस्ता᳚त् प्रा॒णा ज्योति॑ष्मती-मुत्त॒मामुप॑
PS3.4 दधाति॒ तस्मा᳚त् प्रा॒णानां॒ ॅवाग्ज्योति॑रुत्त॒मा
PS3.5 दशोप॑ दधाति॒ दशा᳚क्षरा वि॒राड्
PS3.6 वि॒राट् छन्द॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒
PS3.7 तस्मा᳚त् पु॒रस्ता॒ज्ज्योति॒रुपा᳚ ऽऽ*स्महे॒ छन्दाꣳ॑सि
PS3.8 प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्-बार्.ह॑ताः -
PS3.9 [ ]
PS4.1 प॒शव॑ उच्यन्ते॒ मा छन्द॒
PS4.2 इति॑ दक्षिण॒त उप॑ दधाति॒
PS4.3 तस्मा᳚द्-दक्षि॒णा वृ॑तो॒ मासाः᳚ पृथि॒वी
PS4.4 छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्या
PS4.5 अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑
PS4.6 ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतो ऽभिप्रया॒यी
PS4.7 ज॑यति॒ षट्त्रिꣳ॑श॒थ् संप॑द्यन्ते॒ षट्त्रिꣳ॑शदक्षरा
PS4.8 बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑
PS4.9 प॒शूनव॑ रुन्धे बृह॒ती छन्द॑साꣳ॒॒
PS4.10 स्वारा᳚ज्यं॒ परी॑याय॒ यस्यै॒ता -
PS4.11 [ ]
PS5.1 उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त
PS5.2 वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त
PS5.3 प॒श्चाथ् स॒प्त वै शी॑र्.ष॒ण्याः᳚
PS5.4 प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णानाꣳ॑ सवीर्य॒त्वाय॑
PS5.5 मू॒र्द्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒
PS5.6 यन्त्री॒ राडिति॑ प॒श्चात् प्रा॒णाने॒वास्मै॑
PS5.7 स॒मीचो॑ दधाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.3.2.1 TS 5.3.2.1
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ ॅवा इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚-र्लो॒कयो॒-र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒ भृता॒वोज॑सै॒वैना॑-म॒न्तरि॑क्षे चिनुते॒ धृत्यै᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ ॅवै स्व॑यमातृ॒ण्णा ऽन्तरि॑क्षमे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ - [ ]
पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । अव्य॑थमानाम् । इति॑ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । वै । इ॒मौ । लो॒कौ । विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । अ॒नयोः᳚ । लो॒कयोः᳚ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । अधृ॑ता । इ॒व॒ । वै । ए॒षा । यत् । म॒द्ध्य॒मा । चितिः॑ । अ॒न्तरि॑क्षम् । इ॒व॒ । वै । ए॒षा । इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । इति॑ । आ॒ह॒ । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । वै । दे॒वाना᳚म् । ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ । ओज॑सा । ए॒व । ए॒ना॒म् । अ॒न्तरि॑क्षे । चि॒नु॒ते॒ । धृत्यै᳚ । स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । अ॒न्तरि॑क्षम् । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं-आ॒तृ॒ण्णा । अ॒न्तरि॑क्षम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ मध्यमायां चितौ स्वयमातृण्णां विदधाति - इन्द्राग्नी इत्यादि ॥ प्रथमचितामिव स्वयमातृण्णां अश्वमवघ्राप्य अविदुषा ब्राह्मणेन सहाभिद्रुत्य 'इन्द्राग्नी अव्यथमानां' इत्यनुद्रुत्य 'विश्वकर्मा त्वा सादयतु' इत्युपदधाति । इमौ लोकाविति । द्यौश्च पृथिवी च विधृताविति शेषो धारयितुं शक्यते । तस्मादिन्द्राग्निभ्यां कृतग्रहणा स्वयमातृण्णा अनयोस्तावत् लोकयोः विधृत्यै भवति । 'गतिरनन्तरः' 'तादौ च' इत्युभयत्र गतेः प्रकृतिस्वरत्वम् ॥
2 अथान्तरिक्षस्य विधृतिं प्रतिपादयन्ति - अधृतेव वेत्यादि ॥ कथमधृतेवेत्याह - अन्तरिक्षमिवेति । मध्यमत्वात् । ओजोभृताविति सामर्थ्यातिशयो गम्यते । सर्वेषामपि देवानां ओजोभृत्त्वात् तस्मात्तयोरेवौजसा इमामन्तरिक्षे चिनुते । तस्मादियमन्तरिक्षस्यापि धृत्यै धारणाय भवति ॥
8 अन्तरिक्षं वा इत्यादि ॥ बहूपकारकत्वात् छिद्रवत्त्वाच्च ॥
4 अश्वमुप घ्रापयतीति ॥ व्याख्यातं स्वयमातृण्णामित्यत्र ॥
5 देवानां वा इत्यादि ॥ दिश्याविधिः । यतामिति । 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । समव्लीयन्त व्यशीर्यन्त । व्ली विशरणे । दिश्या इति । दिश्यानुपदधानो मन्त्र आसामिति दिश्याः । पूर्ववद्यत् । 'राज्ञ्यसि' इत्यादयः पञ्च एकैका दिक्षु एकामध्यै । ता इत्यादि । गतम् ॥
6 दश प्राणभृत इत्यादि ॥ पुरस्तात् प्राचीः 'आयुर्मे पाहि' इत्याद्याः पुरुषस्य आयुर्दाः प्राणहेतवः । नवेति । सप्त शीर्षण्या द्वाववाञ्चाविति । तस्मात्पुरस्तात्प्रायशः [त्प्राञ्चः] ॥
7 ज्योतिष्मतीमिति ॥ ज्योतिर्मे यच्छेति । वाग्ज्योतिरिति । परस्य ज्योतिषो विवर्तत्वाद्वाचः ॥
8 दशाक्षरेति ॥ छन्दसां मध्ये विराट् द्योतनशीला ज्योतिः । तस्मादिति । भ्रूमध्यादौ परं ज्योतिरुपास्महे । यद्वा - पूर्वस्यां दिशि सावित्रं ज्योतिरुपास्महे उदितं पश्यामः ॥
9 अथ बृहतीर्विधातुमाह - छन्दांसीत्यादि ॥ पशुषु निमित्तेषु आजिमयुः युद्धं गताः । 'लङश्शाकटायनस्य' इति झेर्जुस् । तानित्यादि । गतम् । तस्मात्पशव्या बृहत्य इत्युक्तं भवति ॥
10 'मा छन्दः' इत्याद्या द्वादश दक्षिणत उपदधाति तस्मादिति ॥ पादसङ्ख्यान्वयान्माशब्दान्वयाच्च मासा गृह्यन्ते । दक्षिणावृत इति । दक्षिणायां दिशि आवृत्तिर्येषां दक्षिणभागवृत्तित्वं प्रदक्षिणभागगमनत्वं मेषादिसंज्ञासंज्ञितगोळद्वादशभागस्थितदिवाकरगतिविशेषात्मनां मासानां गोळभ्रमणनिबन्धनात् प्रदक्षिणा वृत्तिः । प्रतिष्ठित्या इति । पृथिव्यादीनां द्वादशानां प्रतिष्ठाहेतुत्वात् ॥
11 ओज एवेति ॥ अग्न्यादीनां ओजस्वित्वात् । तस्मादिति । उत्तरस्यां दिशि अभिप्रयाणशीलो जयति दुरितानि । 'सुप्यजातौ' इति निनिः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
12 षत्रिंशदिति ॥ षट्च त्रिंशच्च षट्त्रिंशत् । 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । बृहत्येति । शतृवद्भावात् 'शतुरनुमः' इति नद्या उदात्तत्वम्, 'बृहन्महतोरुपसङ्ख्यानम्' इति वा । ततः 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । स्वाराज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् ॥
13 वालखिल्या इति ॥ 'मूर्धाऽसि राट्' इति पुरस्तात्प्रतीचीः 'यन्त्री राट्' इति सप्त पश्चात् प्राचीः । वालस्थाने खिलां स्वरूपासङ्कीर्तनात् वालखिल्या इति संज्ञामात्रमिदम् । यद्वा - वालखिल्या ऋषयः तदात्मनेष्टकाः स्तूयन्ते । द्वाविति । तेन शीर्षण्याः प्राणाः सङ्ख्यायास्सप्तत्वात् संहतिः वक्ष्यत इति ॥
14 समीच इति ॥ परस्परसङ्गताः तेन चक्षुरादिके द्वेद्वे सङ्गते इति । 'समस्समिः' इति सम्यादेशे 'चौ' इति दीर्घत्वम्, अन्तोदात्तत्वं च ॥
इति पञ्चमे तृतीये द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 5.3.2.2 TS 5.3.2.2
घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ ॅवै सु॑व॒र्गं ॅलो॒कं ॅय॒तां दिशः॒ सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न् ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृꣳह॒न्॒ यद्दिश्या॑ उप॒दधा॑ति दि॒शां ॅविधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ - [ ]
पदपाठः (Word-by-word)
घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्य॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । दे॒वाना᳚म् । वै । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒ताम् । दिशः॑ । समिति॑ । अ॒व्ली॒य॒न्त॒ । ते । ए॒ताः । दिश्याः᳚ । अ॒प॒श्य॒न्न् । ताः । उपेति॑ । अ॒द॒ध॒त॒ । ताभिः॑ । वै । ते । दिशः॑ । अ॒दृꣳ॒॒ह॒न्न् । यत् । दिश्याः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । दि॒शाम् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । दश॑ । प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । पु॒रस्ता᳚त् । उपेति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.3.2.3 TS 5.3.2.3
दधाति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता᳚त् प्रा॒णा ज्योति॑ष्मती-मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त् प्रा॒णानां॒ ॅवाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा᳚क्षरा वि॒राड् वि॒राट् छन्द॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता॒ज्ज्योति॒रुपा᳚ ऽऽ*स्महे॒ छन्दाꣳ॑सि प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्-बार्.ह॑ताः - [ ]
पदपाठः (Word-by-word)
द॒धा॒ति॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । नाभिः॑ । द॒श॒मी । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । पु॒रस्ता᳚त् । ध॒त्ते॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । प्रा॒णा इति॑ प्र - अ॒नाः । ज्योति॑ष्मतीम् । उ॒त्त॒मामित्यु॑त् - त॒माम् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । वाक् । ज्योतिः॑ । उ॒त्त॒मेत्यु॑त् - त॒मा । दश॑ । उपेति॑ । द॒धा॒ति॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राडिति॑ वि - राट् । छन्द॑साम् । ज्योतिः॑ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । ध॒त्ते॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । ज्योतिः॑ । उपेति॑ । आ॒स्म॒हे॒ । छन्दाꣳ॑सि । प॒शुषु॑ । आ॒जिम् । अ॒युः॒ । तान् । बृ॒ह॒ती । उदिति॑ । अ॒ज॒य॒त् । तस्मा᳚त् । बार्.ह॑ताः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.3.2.4 TS 5.3.2.4
प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा᳚द्-दक्षि॒णा वृ॑तो॒ मासाः᳚ पृथि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतो ऽभिप्रया॒यी ज॑यति॒ षट्त्रिꣳ॑श॒थ् संप॑द्यन्ते॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्धे बृह॒ती छन्द॑साꣳ॒॒ स्वारा᳚ज्यं॒ परी॑याय॒ यस्यै॒ता - [ ]
पदपाठः (Word-by-word)
प॒शवः॑ । उ॒च्य॒न्ते॒ । मा । छन्दः॑ । इति॑ । द॒क्षि॒ण॒तः । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । द॒क्षि॒णावृ॑त॒ इति॑ दक्षि॒णा - आ॒वृ॒तः॒ । मासाः᳚ । पृ॒थि॒वी । छन्दः॑ । इति॑ । प॒श्चात् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अ॒ग्निः । दे॒वता᳚ । इति॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । ओजः॑ । वै । अ॒ग्निः । ओजः॑ । ए॒व । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । ध॒त्ते॒ । तस्मा᳚त् । उ॒त्त॒र॒तो॒ऽभि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । ज॒य॒ति॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । समिति॑ । प॒द्य॒न्ते॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत् - अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । बृ॒ह॒ती । छन्द॑साम् । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । परीति॑ । इ॒या॒य॒ । यस्य॑ । ए॒ताः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.3.2.5 TS 5.3.2.5
उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चाथ् स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णानाꣳ॑ सवीर्य॒त्वाय॑ मू॒र्द्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात् प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥
पदपाठः (Word-by-word)
उ॒प॒धी॒यन्त॒ इत्यु॑प-धी॒यन्ते᳚ । गच्छ॑ति । स्वारा᳚ज्य॒मिति॒ स्व-रा॒ज्य॒म् । स॒प्त । वाल॑खिल्या॒ इति॒ वाल॑ - खि॒ल्याः॒ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । स॒प्त । प॒श्चात् । स॒प्त । वै । शी॒र्.॒ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । द्वौ । अवा᳚ञ्चौ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । मू॒द्‌र्धा । अ॒सि॒ । राट् । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । यन्त्री᳚ । राट् । इति॑ । प॒श्चात् । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्मै॒ । स॒मीचः॑ । द॒धा॒ति॒ ॥
पदसंख्या: 34