पञ्चशत् 1 #
वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्धे॒ यदे॑क॒धोप॑द॒द्ध्यादेक॑मृ॒तुं व॑र्.षेदनुपरि॒हारꣳ॑ सादयति॒ तस्मा॒थ् सर्वा॑नृ॒तून्. व॑र्.षति पुरोवात॒सनि॑-र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे सं॒ॅयानी॑भि॒र्वै दे॒वा इ॒मान् ॅलो॒कान्थ् सम॑यु॒स्तथ् सं॒ॅयानी॑नाꣳ संॅयानि॒त्वं ॅयथ् सं॒ॅयानी॑रुप॒दधा॑ति॒ यथा॒ऽफ्सु ना॒वा सं॒ॅयात्ये॒व - [ ]
पदपाठः (Word-by-word)
वृ॒ष्टि॒सनी॒रिति॑ वृष्टि - सनीः᳚ । उपेति॑ । द॒धा॒ति॒ । वृष्टि᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । ए॒क॒धेत्ये॑क - धा । उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । एक᳚म् । ऋ॒तुम् । व॒र्.॒षे॒त् । अ॒नु॒प॒रि॒हार॒मित्य॑नु - प॒रि॒हार᳚म् । सा॒द॒य॒ति॒ । तस्मा᳚त् । सर्वान्॑ । ऋ॒तून् । व॒र्.॒ष॒ति॒ । पु॒रो॒वा॒त॒सनि॒रिति॑ पुरोवात - सनिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै । वृष्ट्यै᳚ । रू॒पम् । रू॒पेण॑ । ए॒व । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । सं॒ॅयानी॑भि॒रिति॑ सं - यानी॑भिः । वै । दे॒वाः । इ॒मान् । लो॒कान् । समिति॑ । अ॒युः॒ । तत् । सं॒ॅयानी॑ना॒मिति॑ सं - यानी॑नाम् । सं॒ॅया॒नि॒त्वमिति॑ संॅयानि - त्वम् । यत् । सं॒ॅयानी॒रिति॑ सं - यानीः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । यथा᳚ । अ॒फ्स्वित्य॑प् - सु । ना॒वा । सं॒ॅयातीति॑ सं - याति॑ । ए॒वम् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वृष्टिसनीरित्यादि ॥ व्याख्यातम् । इह तु 'पुरोवातसनिः' इत्याद्या वेदितव्याः । एताश्च पञ्च एकैका दिक्षु एकां मध्ये । एतद्वा इति । वृष्टेरेतद्रूपं रूपणं पुरोवातकालिकं लिङ्गं रूपं तद्भावे भावात् ॥
2 संयानीभिर्वा इति ॥ 'अग्नेर्यान्यसि' इत्याद्याः पञ्चस्वपि चितीषूपदधाति । लोकानां संयानहेतुत्वात् संयान्यः । तत्र प्रथममध्यमोत्तमासु चितिषु द्वेद्वे उपदधाति इतरयोरेकैकाम् । संयानित्वमिति । 'त्वेच' इति ह्रस्वत्वम् । यथेति । यथा अप्सु नावा (अनवमनः) संयाति एवमेताभिः संयानीभिः नौस्थानीयाभिरिमान् लोकानुदधिस्थानीयान् सं याति सन्तरति ॥
3 प्लवो वा इति ॥ प्लवस्थानीयाः संयान्योग्नेः तस्मादेतासु प्लवस्थानीयासूपहितासु यस्यामग्निमापो हरन्ति अहृत एवासौ यद्यपि हरन्ति अहृत एवेति प्रतिपादयितुमुत शब्दः । न हि प्लवेन प्लवमानोद्भिः हृतो भवति ॥
4 आदित्येष्टका इति ॥ 'सलिलाय त्वा' इत्याद्या अष्टौ द्वेद्वे दिक्षु मध्ये । आदित्या वा इत्यादि । गतम् ॥
5 असौ वा इति ॥ चित्वाप्यग्निं यो दीप्तिमान्न भवति स आदित्येष्टकोपधानेन दीप्तिमान् भवति ॥
6 घृतेष्टका इति ॥ ऋचेत्याद्याः पच एकैका दिक्षु एकाम्मध्ये । एतद्वा इत्यादि । प्रियं धाम स्थानं गुणभूतमस्य घृतेष्टका, प्रधानस्य तु घृतम् । अथो अपि च तेजसा समर्धयति ॥
7 अनु परिहारमिति ॥ अनुक्रमेण परितो हृत्वा सादनेन अपरिवर्गं न किचिदपि परिहार्यं[य] सर्वा रुचिं दीप्तिं अस्मिन् यजमाने दधाति । घृतेश्छान्दसो घमु । घृ क्षरणदीप्त्योः । घरणहेतवो घृतेष्टकाः ॥
8 प्रजापतिरित्यादि यशोदानां विधिः । ताभिर्वा इति ॥ यशो ददते यजमानाय एताः ॥
9 एताश्च पञ्च एकैका दिक्षु एकाम्मध्ये । पाङ्क्त इति । उत्सादित्वादञ् । यावानिति । यावत्किंचित्पुरुषकृत्यं तत् सर्वं यशस्विनो भवति यशोदानामुपधातुः ॥
इति पचमे तृतीये दशमोनुवाकः ॥