अनुवाकः 6 TS 5.3.6

(A6)

(यु॒क्तग्रा॑वा - प्र॒जा मि॑थु॒न्य॑ - न्तरि॑क्षं॒ - द्वाद॑श च)

अनुवाकः 6 - Complete Audio

TS 5.3.6 - स्वरानुगामी

0:00 0:00
PS1.1 र॒श्मिरित्ये॒वा ऽऽदि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒
PS1.2 दिवꣳ॑ स॒धिंरित्य॒न्तरि॑क्षं प्रति॒धिरिति॑ पृथि॒वीं
PS1.3 ॅवि॑ष्ट॒म्भ इति॒ वृष्टिं॑ प्र॒वेत्यह॑रनु॒वेति॒
PS1.4 रात्रि॑मु॒शिगिति॒ वसू᳚न् प्रके॒त इति॑
PS1.5 रु॒द्रान्थ् सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄꣳस्तन्तु॒रिति॑
PS1.6 प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून् रे॒वदित्यो-ष॑धीरभि॒जिद॑सि
PS1.7 यु॒क्तग्रा॒वे - [ ]
PS2.1 -न्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो
PS2.2 वज्रं॒ पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा
PS2.3 अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधा-द्य॒न्तेत्य॑पा॒नꣳ
PS2.4 सꣳ॒॒सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒
PS2.5 श्रोत्रं॒ ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः
PS2.6 पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्
PS2.7 तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त् ताः
PS2.8 प्र॒जा मि॑थु॒नी - [
PS2.9 ]
PS3.1 भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः सꣳ॑रो॒हो॑ऽसि
PS3.2 नीरो॒हो॑ऽसीत्ये॒व प्राऽज॑नय॒त् ताः प्र॒जाः
PS3.3 प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न् ता
PS3.4 व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒
PS3.5 प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑
PS3.6 प्र॒जा ए॒व प्रजा॑ता ए॒षु
PS3.7 लो॒केषु॒ प्रति॑ष्ठापयति॒ सात्मा॒ऽन्तरि॑क्षꣳ (
PS3.8 ) रोहति॒ सप्रा॑णो॒ऽमुष्मि॑न् ॅलो॒के
PS3.9 प्रति॑ तिष्ठ॒त्यव्य॑र्द्धुकः प्राणापा॒नाभ्यां᳚ भवति॒
PS3.10 य ए॒वं ॅवेद॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.3.6.1 TS 5.3.6.1
र॒श्मिरित्ये॒वा ऽऽदि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिवꣳ॑ स॒धिंरित्य॒न्तरि॑क्षं प्रति॒धिरिति॑ पृथि॒वीं ॅवि॑ष्ट॒म्भ इति॒ वृष्टिं॑ प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू᳚न् प्रके॒त इति॑ रु॒द्रान्थ् सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄꣳस्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून् रे॒वदित्यो-ष॑धीरभि॒जिद॑सि यु॒क्तग्रा॒वे - [ ]
पदपाठः (Word-by-word)
र॒श्मिः । इति॑ । ए॒व । आ॒दि॒त्यम् । अ॒सृ॒ज॒त॒ । प्रेति॒रिति॒ प्र - इ॒तिः॒ । इति॑ । धर्म᳚म् । अन्वि॑ति॒रित्यनु॑ - इ॒तिः॒ । इति॑ । दिव᳚म् । स॒न्धिरिति॑ सं - धिः । इति॑ । अ॒न्तरि॑क्षम् । प्र॒ति॒धिरिति॑ प्रति - धिः । इति॑ । पृ॒थि॒वीम् । वि॒ष्ट॒भं इति॑ वि - स्त॒भंः । इति॑ । वृष्टि᳚म् । प्र॒वेति॑ प्र - वा । इति॑ । अहः॑ । अ॒नु॒वेत्य॑नु-वा । इति॑ । रात्रि᳚म् । उ॒शिक् । इति॑ । वसून्॑ । प्र॒के॒त इति॑ प्र - के॒तः । इति॑ । रु॒द्रान् । सु॒दी॒तिरिति॑ सु-दी॒तिः । इति॑ । आ॒दि॒त्यान् । ओजः॑ । इति॑ । पि॒तॄन् । तन्तुः॑ । इति॑ । प्र॒जा इति॑ प्र - जाः । पृ॒त॒ना॒षाट् । इति॑ । प॒शून् । रे॒वत् । इति॑ । ओष॑धीः । अ॒भि॒जिदित्य॑भि - जित् । अ॒सि॒ । यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तं - यज्ञेन वै प्रजापतिः प्रजा असृजत तास्स्तोमभागैरेवासृजत' इति । तत्र केन कामसृजतेत्याह - रश्मिरित्येवेति ॥ 'रश्मिरसि क्षयाय त्वा क्षयं जिन्व' इत्यनेनादित्यमसृजतेत्येवं रश्मिमान् रशिमरादित्यः । मत्वर्थीयो लुप्यते । क्षयन्ति निवसन्ति सर्वे देवा अस्मिन्निति क्षय आदित्यः । 'क्षयो निवासे' इत्याद्युदात्तत्वम् । प्रकृष्टा गतिः प्रेतिः धर्मसुकृतार्जनानन्तरं भोगाय गम्यत इति । अन्वितिरिति द्यौः । उभयत्रापि 'तादौच' इति गतेः प्रकृतिस्वरत्वम् । सन्धीयेते द्यावापृथिव्यावनेनेति सन्धिः अन्तरिक्षम् । 'उपसर्गे घोः किः' प्रत्येकं धारयति मातृवत्प्रजा इति प्रतिधिः पृथिवी । पूर्ववत्किः । विष्टभ्यन्ते धार्यन्ते प्रजा अनेनेति विष्टम्भो वृष्टिः । थाथादिना उत्तरपदान्तोदात्तत्वम् । प्रथमतः प्राप्यन्ते बुध्यन्त इति वा । दिव उकारान्तादेशः 'मन् क्तिन् व्याख्यान' इत्यादिना उत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । उशिजो वसवः । वश कान्तौ इति । प्रकृष्टज्ञाना रुद्राः । कित ज्ञाने । शोभनदीधितयः आदित्याः । ओजस्विनः पितरः । मत्वर्थीयो लुप्यते । तन्तवः प्रजाः पृतनाः मनुष्यसङ्घातान् सहन्ति क्षीरादिना धारयन्तीति पृतनाषाहः पशवः । 'छन्दसि सहः' इति 'सहेः पृतनर्ताभ्याम्' इति षत्वम् । रेवत् धनवत् । धनवत्यः ओषधयः । क्रियाविनिमयादिना धनसाधनत्वात् धनवत्यः । सामान्यविवक्षया नपुंसकत्वम् । 'रयेर्मतौ बहुलम्' इति संप्रसारणम् । 'रेशब्दाच्च' इति मतुपो वत्त्वम् ॥
2 आभिमुख्येन सपत्नान् जयतीत्यभिजिदिन्द्रः । वज्रं वज्रवन्तं कृत्वा जयिनं अनेनेन्द्रमकरोदित्यभिप्रायः । दक्षिणत इत्यादि । अनेन मन्त्रेण दक्षिणे हस्ते वज्रं अधारयत् प्रजापत्यनुग्रहादिद्रः । तस्मादनेन मन्त्रेणोपधानमभिजित्यै भवति ॥
3 ता इत्यादि ॥ ताः पूर्वाः सृष्टाः सर्वा अपि प्रजाः अपप्राणाः प्राणापानचक्षुश्रोत्रहीना एव असृजत । तासु 'अधिपतिरसि' इत्यादिभिः प्राणादीन् अदधात् स्थापितवान् । अध्यारूढः प्रजाः पातीति अधिपतिः प्राण उपरिवृत्तिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यमयतीति यन्ता अधोवृत्तिरपानः । प्राणापानशब्दौ ण्यन्तात्पचाद्यजन्तौ । थाथादिस्वरः । संसर्पति ध्रुवतारकादिष्वपीति संसर्पः चक्षुः । पचाद्यचि 'परादिश्छन्दसि बहुलम्' । वयोधाः वय इव सर्वतो गत्वा दधाति शब्दमिति । नद्या उदात्तत्वम् ॥
4 तासु 'त्रिवृदसि' इत्यादिभिः मिथुनशक्तिमदधात् । त्रिवृत्संश्लेषः प्रवर्तनसंवर्तननिवर्तनानि मिथुनीभवनविशेषाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
5 ता इत्यादि ॥ मिथुनीभवन्तीः मैथुनं कुर्वन्त्योपि न प्राजायन्त न प्रजाः प्राजनयन् । ततः 'संरोहोसि' इत्यादिभिः चतुर्भिः प्राजनयन् प्रजननशक्तिमतीरकरोत् । सम्यक् रोहः संरोहः । निश्चयेन रोहो नीरोहः । प्रथमरोहः प्ररोहः पुत्रादिः । पश्चाद्रोहोऽनुरोहः पौत्रादिः । थाथादिस्वरः ॥
6 ता इत्यादि ॥ प्रजाता अपि ता न प्रत्यतिष्ठन् प्रतिष्ठिता नाभवन् । ताः 'वसुकोसि' इत्यादिभिरेषु लोकेषु प्रतिष्ठिता अकरोत् । वसुकः वसुमान् । व्याप्यमानश्रीः वेषश्रीः । उकारान्तादेशः । वसुषु भक्तिमान् वस्यष्टिः । पृषोदरादिः ॥
7 सात्मेत्यादि ॥ विदुषः फलम् । ऋतेः छान्दस उकञ् ॥
इति पञ्चमे तृतीये षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 5.3.6.2 TS 5.3.6.2
-न्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्रं॒ पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधा-द्य॒न्तेत्य॑पा॒नꣳ सꣳ॒॒सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्रं॒ ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न् तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त् ताः प्र॒जा मि॑थु॒नी - [ ]
पदपाठः (Word-by-word)
इन्द्रा॑य । त्वा॒ । इन्द्र᳚म् । जि॒न्व॒ । इति॑ । ए॒व । द॒क्षि॒ण॒तः । वज्र᳚म् । परीति॑ । औ॒ह॒त् । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । ताः । प्र॒जा इति॑ प्र - जाः । अप॑प्राणा॒ इत्यप॑ - प्रा॒णाः॒ । अ॒सृ॒ज॒त॒ । तासु॑ । अधि॑पति॒रित्यधि॑-प॒तिः॒ । अ॒सि॒ । इति॑ । ए॒व । प्रा॒णमिति॑ प्र-अ॒नम् । अ॒द॒धा॒त् । य॒न्ता । इति॑ । अ॒पा॒नमित्य॑प - अ॒नम् । सꣳ॒॒सर्प॒ इति॑ सं - सर्पः॑ । इति॑ । चक्षुः॑ । व॒यो॒धा इति॑ वयः - धाः । इति॑ । श्रोत्र᳚म् । ताः । प्र॒जा इति॑ प्र - जाः । प्रा॒ण॒तीरिति॑ प्र - अ॒न॒तीः । अ॒पा॒न॒तीरित्य॑प - अ॒न॒तीः । पश्य॑न्तीः । शृ॒ण्व॒तीः । न । मि॒थु॒नी । अ॒भ॒व॒न्न् । तासु॑ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒सि॒ । इति॑ । ए॒व । मि॒थु॒नम् । अ॒द॒धा॒त् । ताः । प्र॒जा इति॑ प्र-जाः । मि॒थु॒नी ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.3.6.3 TS 5.3.6.3
भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः सꣳ॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राऽज॑नय॒त् ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न् ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ष्ठापयति॒ सात्मा॒ऽन्तरि॑क्षꣳ ( ) रोहति॒ सप्रा॑णो॒ऽमुष्मि॑न् ॅलो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्द्धुकः प्राणापा॒नाभ्यां᳚ भवति॒ य ए॒वं ॅवेद॑ ॥
पदपाठः (Word-by-word)
भव॑न्तीः । न । प्रेति॑ । अ॒जा॒य॒न्त॒ । ताः । सꣳ॒॒रो॒ह इति॑ सं - रो॒हः । अ॒सि॒ । नी॒रो॒ह इति॑ निः - रो॒हः । अ॒सि॒ । इति॑ । ए॒व । प्रेति॑ । अ॒ज॒न॒य॒त् । ताः । प्र॒जा इति॑ प्र - जाः । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । न । प्रतीति॑ । अ॒ति॒ष्ठ॒न्न् । ताः । व॒सु॒कः । अ॒सि॒ । वेष॑श्रि॒रिति॒ वेष॑-श्रिः॒ । अ॒सि॒ । वस्य॑ष्टिः । अ॒सि॒ । इति॑ । ए॒व । ए॒षु । लो॒केषु॑ । प्रतीति॑ । अ॒स्था॒प॒य॒त् । यत् । आह॑ । व॒सु॒कः । अ॒सि॒ । वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ । अ॒सि॒ । वस्य॑ष्टिः । अ॒सि॒ । इति॑ । प्र॒जा इति॑ प्र - जाः । ए॒व । प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । ए॒षु । लो॒केषु॑ । प्रतीति॑ । स्था॒प॒य॒ति॒ । सात्मेति॒ स - आ॒त्मा॒ । अ॒न्तरि॑क्षम् ( ) । रो॒ह॒ति॒ । सप्रा॑ण॒ इति॒ स - प्रा॒णः॒ । अ॒मुष्मिन्न्॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अव्य॑द्‌र्धुक॒ इत्यवि॑ - अ॒द्‌र्धु॒कः॒ । प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥
पदसंख्या: 62