पञ्चशत् 1 #
र॒श्मिरित्ये॒वा ऽऽदि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिवꣳ॑ स॒धिंरित्य॒न्तरि॑क्षं प्रति॒धिरिति॑ पृथि॒वीं ॅवि॑ष्ट॒म्भ इति॒ वृष्टिं॑ प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू᳚न् प्रके॒त इति॑ रु॒द्रान्थ् सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄꣳस्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून् रे॒वदित्यो-ष॑धीरभि॒जिद॑सि यु॒क्तग्रा॒वे - [ ]
पदपाठः (Word-by-word)
र॒श्मिः । इति॑ । ए॒व । आ॒दि॒त्यम् । अ॒सृ॒ज॒त॒ । प्रेति॒रिति॒ प्र - इ॒तिः॒ । इति॑ । धर्म᳚म् । अन्वि॑ति॒रित्यनु॑ - इ॒तिः॒ । इति॑ । दिव᳚म् । स॒न्धिरिति॑ सं - धिः । इति॑ । अ॒न्तरि॑क्षम् । प्र॒ति॒धिरिति॑ प्रति - धिः । इति॑ । पृ॒थि॒वीम् । वि॒ष्ट॒भं इति॑ वि - स्त॒भंः । इति॑ । वृष्टि᳚म् । प्र॒वेति॑ प्र - वा । इति॑ । अहः॑ । अ॒नु॒वेत्य॑नु-वा । इति॑ । रात्रि᳚म् । उ॒शिक् । इति॑ । वसून्॑ । प्र॒के॒त इति॑ प्र - के॒तः । इति॑ । रु॒द्रान् । सु॒दी॒तिरिति॑ सु-दी॒तिः । इति॑ । आ॒दि॒त्यान् । ओजः॑ । इति॑ । पि॒तॄन् । तन्तुः॑ । इति॑ । प्र॒जा इति॑ प्र - जाः । पृ॒त॒ना॒षाट् । इति॑ । प॒शून् । रे॒वत् । इति॑ । ओष॑धीः । अ॒भि॒जिदित्य॑भि - जित् । अ॒सि॒ । यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तं - यज्ञेन वै प्रजापतिः प्रजा असृजत तास्स्तोमभागैरेवासृजत' इति । तत्र केन कामसृजतेत्याह - रश्मिरित्येवेति ॥ 'रश्मिरसि क्षयाय त्वा क्षयं जिन्व' इत्यनेनादित्यमसृजतेत्येवं रश्मिमान् रशिमरादित्यः । मत्वर्थीयो लुप्यते । क्षयन्ति निवसन्ति सर्वे देवा अस्मिन्निति क्षय आदित्यः । 'क्षयो निवासे' इत्याद्युदात्तत्वम् । प्रकृष्टा गतिः प्रेतिः धर्मसुकृतार्जनानन्तरं भोगाय गम्यत इति । अन्वितिरिति द्यौः । उभयत्रापि 'तादौच' इति गतेः प्रकृतिस्वरत्वम् । सन्धीयेते द्यावापृथिव्यावनेनेति सन्धिः अन्तरिक्षम् । 'उपसर्गे घोः किः' प्रत्येकं धारयति मातृवत्प्रजा इति प्रतिधिः पृथिवी । पूर्ववत्किः । विष्टभ्यन्ते धार्यन्ते प्रजा अनेनेति विष्टम्भो वृष्टिः । थाथादिना उत्तरपदान्तोदात्तत्वम् । प्रथमतः प्राप्यन्ते बुध्यन्त इति वा । दिव उकारान्तादेशः 'मन् क्तिन् व्याख्यान' इत्यादिना उत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । उशिजो वसवः । वश कान्तौ इति । प्रकृष्टज्ञाना रुद्राः । कित ज्ञाने । शोभनदीधितयः आदित्याः । ओजस्विनः पितरः । मत्वर्थीयो लुप्यते । तन्तवः प्रजाः पृतनाः मनुष्यसङ्घातान् सहन्ति क्षीरादिना धारयन्तीति पृतनाषाहः पशवः । 'छन्दसि सहः' इति 'सहेः पृतनर्ताभ्याम्' इति षत्वम् । रेवत् धनवत् । धनवत्यः ओषधयः । क्रियाविनिमयादिना धनसाधनत्वात् धनवत्यः । सामान्यविवक्षया नपुंसकत्वम् । 'रयेर्मतौ बहुलम्' इति संप्रसारणम् । 'रेशब्दाच्च' इति मतुपो वत्त्वम् ॥
2 आभिमुख्येन सपत्नान् जयतीत्यभिजिदिन्द्रः । वज्रं वज्रवन्तं कृत्वा जयिनं अनेनेन्द्रमकरोदित्यभिप्रायः । दक्षिणत इत्यादि । अनेन मन्त्रेण दक्षिणे हस्ते वज्रं अधारयत् प्रजापत्यनुग्रहादिद्रः । तस्मादनेन मन्त्रेणोपधानमभिजित्यै भवति ॥
3 ता इत्यादि ॥ ताः पूर्वाः सृष्टाः सर्वा अपि प्रजाः अपप्राणाः प्राणापानचक्षुश्रोत्रहीना एव असृजत । तासु 'अधिपतिरसि' इत्यादिभिः प्राणादीन् अदधात् स्थापितवान् । अध्यारूढः प्रजाः पातीति अधिपतिः प्राण उपरिवृत्तिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यमयतीति यन्ता अधोवृत्तिरपानः । प्राणापानशब्दौ ण्यन्तात्पचाद्यजन्तौ । थाथादिस्वरः । संसर्पति ध्रुवतारकादिष्वपीति संसर्पः चक्षुः । पचाद्यचि 'परादिश्छन्दसि बहुलम्' । वयोधाः वय इव सर्वतो गत्वा दधाति शब्दमिति । नद्या उदात्तत्वम् ॥
4 तासु 'त्रिवृदसि' इत्यादिभिः मिथुनशक्तिमदधात् । त्रिवृत्संश्लेषः प्रवर्तनसंवर्तननिवर्तनानि मिथुनीभवनविशेषाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
5 ता इत्यादि ॥ मिथुनीभवन्तीः मैथुनं कुर्वन्त्योपि न प्राजायन्त न प्रजाः प्राजनयन् । ततः 'संरोहोसि' इत्यादिभिः चतुर्भिः प्राजनयन् प्रजननशक्तिमतीरकरोत् । सम्यक् रोहः संरोहः । निश्चयेन रोहो नीरोहः । प्रथमरोहः प्ररोहः पुत्रादिः । पश्चाद्रोहोऽनुरोहः पौत्रादिः । थाथादिस्वरः ॥
6 ता इत्यादि ॥ प्रजाता अपि ता न प्रत्यतिष्ठन् प्रतिष्ठिता नाभवन् । ताः 'वसुकोसि' इत्यादिभिरेषु लोकेषु प्रतिष्ठिता अकरोत् । वसुकः वसुमान् । व्याप्यमानश्रीः वेषश्रीः । उकारान्तादेशः । वसुषु भक्तिमान् वस्यष्टिः । पृषोदरादिः ॥
7 सात्मेत्यादि ॥ विदुषः फलम् । ऋतेः छान्दस उकञ् ॥
इति पञ्चमे तृतीये षष्ठोनुवाकः ॥