अनुवाकः 11 TS 5.3.11

(A11)

(अभ॑व॒ - न्नायु॑रे॒॒व - र्त॒व्या॑ उप॒ - षड्विꣳ॑शतिश्च)

अनुवाकः 11 - Complete Audio

TS 5.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् कनी॑याꣳसो
PS1.2 दे॒वा आस॒न् भूयाꣳ॒॒सो-ऽसु॑रा॒स्ते दे॒वा
PS1.3 ए॒ता इष्ट॑का अपश्य॒न् ता
PS1.4 उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाꣳ॑सोऽभव॒न् वन॒स्पति॑भि॒-रोष॑धीभि-र्वरिव॒स्कृद॒सीती॒-माम॑जय॒न्
PS1.5 प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्द्ध्वा ऽसीत्य॒मूम॑जयन्-नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे
PS1.6 सी॒देत्य॒-न्तरि॑क्षमजय॒न् ततो॑ दे॒वा अभ॑व॒न्
PS1.7 - [ ]
PS2.1 पराऽसु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व
PS2.2 भ॑वत्य॒भीमान् ॅलो॒कान् ज॑यति॒ भव॑त्या॒त्मना॒
PS2.3 परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यफ्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा
PS2.4 अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑ रुन्धे
PS2.5 पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मी-त्या॑हे॒माने॒वैताभि॑-र्लो॒कान् द्रवि॑णावतः
PS2.6 कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा
PS2.7 - [ ]
PS3.1 -स्मि॑न् दधा॒त्यग्ने॒ यत्ते॒ परꣳ॒॒
PS3.2 हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑
PS3.3 प्रि॒यमे॒वास्य॒ धामोपा᳚ऽऽ*प्नोति॒ तावेहि॒ सꣳ
PS3.4 र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑
PS3.5 धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये᳚द्ध्यग्न॒ इत्या॑है॒ष वा
PS3.6 अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒-स्तस्मा॑दे॒वमा॑हर्त॒व्या॑
PS3.7 उप॑ ( ) दधात्ये॒तद्वा
PS3.8 ऋ॑तू॒नां प्रि॒यं धाम॒ यदृ॑त॒व्या॑
PS3.9 ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुन्धे
PS3.10 सु॒मेक॒ इत्या॑ह संॅवथ्स॒रो वै
PS3.11 सु॒मेकः॑ संॅवथ्स॒रस्यै॒व प्रि॒यं धामोपा᳚ऽऽ*प्नोति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.3.11.1 TS 5.3.11.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् कनी॑याꣳसो दे॒वा आस॒न् भूयाꣳ॒॒सो-ऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न् ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाꣳ॑सोऽभव॒न् वन॒स्पति॑भि॒-रोष॑धीभि-र्वरिव॒स्कृद॒सीती॒-माम॑जय॒न् प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्द्ध्वा ऽसीत्य॒मूम॑जयन्-नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒-न्तरि॑क्षमजय॒न् ततो॑ दे॒वा अभ॑व॒न् - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । कनी॑याꣳसः । दे॒वाः । आसन्न्॑ । भूयाꣳ॑सः । असु॑राः । ते । दे॒वाः । ए॒ताः । इष्ट॑काः । अ॒प॒श्य॒न्न् । ताः । उपेति॑ । अ॒द॒ध॒त॒ । भू॒य॒स्कृदिति॑ भूयः - कृत् । अ॒सि॒ । इति॑ । ए॒व । भूयाꣳ॑सः । अ॒भ॒व॒न्न् । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ । ओष॑धीभि॒रित्योष॑धि - भिः॒ । व॒रि॒व॒स्कृदिति॑ वरिवः - कृत् । अ॒सि॒ । इति॑ । इ॒माम् । अ॒ज॒य॒न्न् । प्राची᳚ । अ॒सि॒ । इति॑ । प्राची᳚म् । दिश᳚म् । अ॒ज॒य॒न्न् । ऊ॒द्‌र्ध्वा । अ॒सि॒ । इति॑ । अ॒मूम् । अ॒ज॒य॒न्न् । अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । अ॒सि॒ । अ॒न्तरि॑क्षे । सी॒द॒ । इति॑ । अ॒न्तरि॑क्षम् । अ॒ज॒य॒न्न् । ततः॑ । दे॒वाः । अभ॑वन्न् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवासुरा इत्यादि ॥ भूयस्कृतां विधिः । कनीयांसः अल्पतराः क्षीणभूयिष्ठा देवा आसन् । असुरास्तु भूयांसः बहुधा समृद्धा आसन् । ते देवा एता 'भूयस्कृदसि' इत्याद्याः भूयस्कृतोपश्यन् उपादधत च एताश्च पच । एकैका दिक्षु एकाम्मध्ये 'भूयस्कृदसि' इत्येतामुपधाय वनस्पतिभिरोषधीभिः ज्यायांसोभवन् अक्षीयमाणा अभवन् ॥
2 वरिवस्कृदसीत्यादि ॥ समृद्धिकथनम् । ततो देवा अभवन् । असुराः परा भूताः । यस्येत्यादि गतम् ॥
3 अथ अप्सुषदसीत्याद्याः पच एकैका दिक्षु एकां मध्ये । एतद्वा इति । अबादयः । अप्सुषदादयः - अप्सु सीदन्तीति क्विप् । 'तत्पुरुषेकृति बहुळम्' इत्यलुक् ॥
4 अथ 'पृथिव्यास्त्वा द्रविणे सादयामि' इत्याद्या द्रविणोदाः पच एकैका दिक्षु एकां मध्ये । द्रविणस्य धनस्य धात्र्यः । पूर्वपदस्यासुगागमश्छान्दसः । द्रविणावतः धनवतः । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् ॥
5 अथ प्राणं मे पाहीत्याद्या आयुष्याः सप्त । एकैका दिक्षु तिस्रो मध्ये । केचिदाहुः - षडायुष्याः 'अग्ने यत्ते' इति, सप्तमं अग्नेर्हृदयं इति । आयुर्मे पाहीत्यायुश्शब्दवता मन्त्रेणोपधेयत्वादायुष्याः । पूर्ववत् छत्रिन्यायेन सर्वा अप्यायुष्याः । यद्वा - आयुषो निमित्ताः । 'गोद्व्यचः' इति यत् । अत्र 'यस्यैता उपधीयन्ते' इति भूयस्कृत्सूपधानं श्रूयते, 'आयुष्या उपदधाति' इति च आद्युष्यासु । अप्सुषत्सु द्रविणोदासु नोपधानं श्रूयते । तत्र पचदशाप्येता भूयस्कृत इव लक्ष्यन्ते । एतद्वा इति । अग्निहृदयाख्या सप्तमी । तस्मादस्या उपधानेन अग्नेः प्रियं धामोपाप्नोति ॥
6 व्येवैनेनेति ॥ एनेनाग्निना सह विपरिधत्ते यजमानव्यापारनियमेपि सभा [सहभा] वा भाव(?) इति द्वयोरेकी भूतत्वात् ॥
7 एषवा इति । पच चितयो निवृत्ता यस्य सोग्निः पाञ्चजन्यः पचसु योनिभूतासु चितिषु भवः पाञ्चजन्यः । छान्दसो यः । तस्मादेवमिति । कः? पञ्चस्वपि जनेषु एधि भव आह अग्न इति मन्त्रः ॥
8 ऋतव्या इति । 'यावा अया वा' इत्याद्यास्सप्तर्तव्याः । एकैका दिक्षु तिस्रो मध्ये । ऋतुप्राप्तिहेतुभूता ऋतव्याः । पूर्ववद्यत् ॥
9 सुमेक इति ॥ शोभनमेहनः प्रजानामुत्पादयितॄणां मुख्यः संवत्सरः । ककारश्छान्दसः । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
इति पञ्चमे तृतीये एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 5.3.11.2 TS 5.3.11.2
पराऽसु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमान् ॅलो॒कान् ज॑यति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यफ्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑ रुन्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मी-त्या॑हे॒माने॒वैताभि॑-र्लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा - [ ]
पदपाठः (Word-by-word)
परेति॑ । असु॑राः । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । भूयान्॑ । ए॒व । भ॒व॒ति॒ । अ॒भीति॑ । इ॒मान् । लो॒कान् । ज॒य॒ति॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒फ्सु॒षदित्य॑फ्सु - सत् । अ॒सि॒ । श्ये॒न॒सदिति॑ श्येन - सत् । अ॒सि॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै । अ॒ग्नेः । रू॒पम् । रू॒पेण॑ । ए॒व । अ॒ग्निम् । अवेति॑ । रु॒न्धे॒ । पृ॒थि॒व्याः । त्वा॒ । द्रवि॑णे । सा॒द॒या॒मि॒ । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒ताभिः॑ । लो॒कान् । द्रवि॑णावत॒ इति॒ द्रवि॑ण - व॒तः॒ । कु॒रु॒ते॒ । आ॒यु॒ष्याः᳚ । उपेति॑ । द॒धा॒ति॒ । आयुः॑ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.3.11.3 TS 5.3.11.3
-स्मि॑न् दधा॒त्यग्ने॒ यत्ते॒ परꣳ॒॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ प्रि॒यमे॒वास्य॒ धामोपा᳚ऽऽ*प्नोति॒ तावेहि॒ सꣳ र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये᳚द्ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒-स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ ( ) दधात्ये॒तद्वा ऋ॑तू॒नां प्रि॒यं धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुन्धे सु॒मेक॒ इत्या॑ह संॅवथ्स॒रो वै सु॒मेकः॑ संॅवथ्स॒रस्यै॒व प्रि॒यं धामोपा᳚ऽऽ*प्नोति ॥
पदपाठः (Word-by-word)
अ॒स्मि॒न्न् । द॒धा॒ति॒ । अग्ने᳚ । यत् । ते॒ । पर᳚म् । हृत् । नाम॑ । इति॑ । आ॒ह॒ । ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । प्रि॒यम् । ए॒व । अ॒स्य॒ । धाम॑ । उपेति॑ । आ॒प्नो॒ति॒ । तौ । एति॑ । इ॒हि॒ । समिति॑ । र॒भा॒व॒है॒ । इति॑ । आ॒ह॒ । वीति॑ । ए॒व । ए॒ने॒न॒ । परीति॑ । ध॒त्ते॒ । पाञ्च॑जन्ये॒ष्विति॒ पाञ्च॑ - ज॒न्ये॒षु॒ । अपीति॑ । ए॒धि॒ । अ॒ग्ने॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्निः । पाञ्च॑जन्य॒ इति॒ पाञ्च॑ - ज॒न्यः॒ । यः । पञ्च॑चितीक॒ इति॒ पञ्च॑-चि॒ती॒कः॒ । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । ऋ॒त॒व्याः᳚ । उपेति॑ ( ) । द॒धा॒ति॒ । ए॒तत् । वै । ऋ॒तू॒नाम् । प्रि॒यम् । धाम॑ । यत् । ऋ॒त॒व्याः᳚ । ऋ॒तू॒नाम् । ए॒व । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । सु॒मेक॒ इति॑ सु - मेकः॑ । इति॑ । आ॒ह॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । सु॒मेक॒ इति॑ सु - मेकः॑ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ए॒व । प्रि॒यम् । धाम॑ । उपेति॑ । आ॒प्नो॒ति॒ ॥
पदसंख्या: 76