पञ्चशत् 1 #
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञ्मु॒खं ॅवा अ॒ग्निर्य॑ज्ञ्मु॒खं दी॒क्षा य॑ज्ञ्मु॒खं ब्रह्म॑ यज्ञ्मु॒खं त्रि॒वृद्-य॑ज्ञ्मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चक्ष॑सां भा॒गो॑ऽसीति॑ दक्षिण॒तः शु॑श्रु॒वाꣳसो॒ वै नृ॒चक्ष॒सोऽन्नं॑ धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा᳚ज्जा॒तोऽन्न॑मत्ति ज॒नित्रꣳ॑ स्पृ॒तꣳ स॑प्तद॒शः स्तोम॒ इत्या॒हाऽन्नं॒ ॅवै ज॒नित्र॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नेः । भा॒गः । अ॒सि॒ । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । वै । अ॒ग्निः । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ्-मु॒खम् । दी॒क्षा । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । ब्रह्म॑ । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । त्रि॒वृदिति॑ त्रि - वृत् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ्-मु॒खम् । ए॒व । पु॒रस्ता᳚त् । वीति॑ । या॒त॒य॒ति॒ । नृ॒चक्ष॑सा॒मिति॑ नृ - चक्ष॑साम् । भा॒गः । अ॒सि॒ । इति॑ । द॒क्षि॒ण॒तः । शु॒श्रु॒वाꣳसः॑ । वै । नृ॒चक्ष॑स॒ इति॑ नृ - चक्ष॑सः । अन्न᳚म् । धा॒ता । जा॒ताय॑ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अपीति॑ । द॒धा॒ति॒ । तस्मा᳚त् । जा॒तः । अन्न᳚म् । अ॒त्ति॒ । ज॒नित्र᳚म् । स्पृ॒तम् । स॒प्त॒द॒श इति॑ सप्त - द॒शः । स्तोमः॑ । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । ज॒नित्र᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्नेर्भागोसीत्यादि ॥ अग्निदीक्षामन्त्रः । त्रिवृतां यज्ञमुखत्वं आरम्भभावित्वात् । यज्ञमुखमेवेत्यादि । गतम् ॥
2 शुश्रुवांस इति ॥ श्रुताध्ययनसम्पन्नाः शश्रुवांसः । ते चान्नवन्तः अन्नं धाता धारकत्वात् । जातायैव जन्मकाल एव जातमात्र एव अन्नजन्महेतुः सप्तदशोऽन्नस्य साधनम् ॥
3 प्राणो वा इत्यादि ॥ गतम् ॥
4 ब्रह्मेन्द्रविष्णुक्षत्रपञ्चदशा ओजोबलहेतवः । गतमन्यत् ॥
5 वसुरुद्रचतुर्विंशानां यज्ञमुखत्वं प्रधानसाधनत्वात् मुख्यत्वात् ॥
6 आदित्यमरुत्पञ्चविंशानां यज्ञद्वारेणन्नसाधनत्वं गर्भा अप्यन्न-
साधकाः ॥
7 अदितिपूषत्रिणवाश्च यज्ञद्वारेण प्रतिष्ठाहेतवः ॥
8 सवितृबृहस्पतिचतुष्टोमानां बृहत्वाद्ब्रह्मत्वम् । ब्रह्मवर्चसितरः
प्रवृद्धसम्भाव्यफलत्वादुज्ज्वलतर इतरस्मात् ॥
9 सावित्रवतीति ॥ सावित्रेणानेन मन्त्रेण तद्वती । तस्माद्ब्राह्मणानामुत्तरस्यां दिशि सनिर्याच्ञा तया प्रशस्ततया । 'अनिगन्तोञ्चतौ' इति उदीचीशब्दे गतेः प्रकृतिस्वरत्वम् । प्रसूतेत्यत्र 'गतिरनन्तरः' इति ॥
10 धर्त्रः धारयिता अग्निष्टोमः स यज्ञानां मुखं चतुष्टोमो वा समष्टिस्तोत्रीयः स्तोमः । तस्य यज्ञमुखत्वं यज्ञमुखभूतत्रिवृदात्मकत्वात् । चत्वारः स्तोमाः परिमाणमस्येति आभिर्यज्ञसाध्यत्वम् । पूर्ववत् 'द्विगोः' इति लुकि, 'स्तोमे डविधिः' इति डः ॥
11 यावानामिति ॥ यावा यानशीलवान् । यातेरौणादिको वप्रत्ययः । नञिवयुक्तन्यायेन यावसदृशा अर्धमासा अयावा आगन्तारः तमनुगन्तारश्चेत्यर्थः । दक्षिणावृत इति व्याख्यातम् । अन्नस्य हेतवो यावा अयावाश्च प्रजाश्चान्नहेतुकाः ॥
12 प्रतिष्ठित्या इति ॥ प्राधान्यात् । सवीर्यत्वाय समानवीर्यत्वाय । इदमपि श्रुतिप्रामाण्यादेव । समावद्वीर्यौ समवीर्यौ । 'समादावतुप्' इति आवतुप्प्रत्ययः ॥
13 यस्येत्यादि ॥ मुखशब्देन या स्तुतिः तद्वत्यः पुरस्तादिष्टका उपधीयन्ते सप्त । अयं मुख्यो भवति । आजायते चास्य मुख्यः पुत्रः अन्नादः अन्नादनवान् । तेन सहासावन्नमत्ति । आजायते चास्यान्नादः पुत्रः ॥
14 प्रतिष्ठावतीः प्रतिस्थितिमत्यः सप्त । प्रतितिष्ठत्येवायम् ॥
15 यस्यौजस्वतीरिति ॥ वलार्थवादवत्यः सप्त । अयमोजस्वी भवति । आजायते चास्य ओनस्वी पुत्रः ॥
16 अर्क इति ॥ अर्चनीयो योऽग्निः स्तोत्रैः स्तोतव्यः शस्त्रैश्च शंसितव्यः तस्यास्य एतदेव स्तोत्रं एतदेव शस्त्रं यदेषा विधा विधीयते यथोक्तमुख्यवत्याद्युपधानप्रकारः क्रियते । तदेतमर्क्यं अर्चनीयं अनु अग्निमुद्दिश्य तस्यार्के अर्चनार्थं एषा विधा विधीयते । 'चजोः कुधिण्यतोः' इति कुत्वम्, उभयत्र ॥
17 अथास्या विधायाः फलमाह - अत्तीत्यादि ॥ यस्य यजमानस्यैषा विधा विधीयते । यश्चाप्येनां विधां उपधानविधां वेदेति ॥
18 सृष्टीरिति ॥ 'एकयाऽस्तुवत' इत्याद्याः सप्तदश । चतस्रो दक्षिणेंस उपदधाति । अथ तिस्रः । अथ चतस्रो दक्षिणादंसात् दक्षिणां श्रोणिं अभ्यायातयति । यथा सृष्टमिति । यथा वै मन्त्रेषु सृष्टिमत्तया सृष्टं प्रजादिकं तदेव फलं अवरुन्धे ॥
19 न वा इत्यादि ॥ व्युष्टीनां विधिः । इदं सर्वं अव्यावृत्तं अविभक्तरूपमेवासीत् । न वै तदनीं दिवाऽऽसीत्, न च नक्तमासीत्, एकरूपमन्धतमसमिवाभवत् । देवानामस्तित्वात् तेषां व्यामोहमात्रमिदं, न विश्वविलय इत्येके । देवात्मानोपि विश्वविलये विद्यन्ते नित्यत्वादित्यन्ये । ते देवा इत्यादि । 'इयमेव सा या' इत्यादयो व्युष्टयः पञ्चदश, तिस्रः तिस्रो दिक्षु तिस्रो मध्ये व्युष्टिभिश्चितिरवाप्यते । व्यौच्छदिति । अपहततमस्कं विभातमासीत् । उच्छी विवासे । व्येवास्मा इति । सर्वदा अस्य विभात मेव भवति । व्यावृत्तमेव सर्वं भासते । अथो अपि च तमस्सदृशं एतं सर्वं पापं हन्त्येव । व्यत्ययेनात्मनेपदम् ॥
इति पञ्चमे तृतीये चतुर्थोनुवाकः