पञ्चशत् 1 #
प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑ऽपत॒त् तदश्वो॑ऽभव॒द्-यदश्व॑य॒त् तदश्व॑स्याश्व॒त्वं तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑तिꣳ॒॒ सर्वं॑ करोति॒ यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जꣳ सर्वं॒ ॅवा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ् सर्वं॑ पा॒प्मानं॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । अक्षि॑ । अ॒श्व॒य॒त् । तत् । परेति॑ । अ॒प॒त॒त् । तत् । अश्वः॑ । अ॒भ॒व॒त् । यत् । अश्व॑यत् । तत् । अश्व॑स्य । अ॒श्व॒त्वमित्य॑श्व- त्वम् । तत् । दे॒वाः । अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । ए॒व । प्रतीति॑ । अ॒द॒धुः॒ । ए॒षः । वै । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । सर्व᳚म् । क॒रो॒ति॒ । यः । अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । यज॑ते । सर्वः॑ । ए॒व । भ॒व॒ति॒ । सर्व॑स्य । वै । ए॒षा । प्राय॑श्चित्तिः । सर्व॑स्य । भे॒ष॒जम् । सर्व᳚म् । वै । ए॒तेन॑ । पा॒प्मान᳚म् । दे॒वाः । अ॒त॒र॒न्न् । अपीति॑ । वै । ए॒तेन॑ । ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् । अ॒त॒र॒न्न् । सर्व᳚म् । पा॒प्मान᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अधुना अश्वमेधमधिकृत्योच्यते - प्रजापतेरित्यादि ॥ वैश्वदेवं काण्डम् । प्रजापतेरक्षि अश्वयत् शूनमभवत् स्थानात् परेत्यापतत् । तदश्वोभवत् । तस्मादश्वत्वं अश्वस्य । अश्वयदित्यादि व्याख्यातमेव । एकदेशलोपेन नामत्वेन परिग्रहः । यद्वा - श्वयनादश्वः । छान्दसो डप्रत्ययोऽडागमश्च । तत्प्रजापतेरक्षि देवा अश्वमेधेनैवानुष्ठितेन प्रत्यदधुः स्वस्थाने अविकलं पुनस्थापितवन्तः । तस्मादेष प्रजापतिं सर्वमविकलं करोति योश्वमेधेन यजते । स्वयमपि सर्वोऽविकलो भवति ॥
2 सर्वस्य वा इति ॥ सर्वस्य प्रतिषिद्धनिमित्तकरणस्य अधर्मस्य स्तेयादेर्विहिताकरणनिमित्तस्य च सन्ध्यालोपादेः प्रायश्चित्तिः निर्यातनहेतुः अश्वमेधः । प्रायणं प्रायो धर्मलोपः । तन्निवृत्तिः चित्तिः प्रायश्चित्तिः । प्रायश्शब्दस्य अव्ययत्वादव्ययपूर्वपदप्रकृतिसरत्वम् । किञ्च सर्वस्य रोगस्य राजयक्ष्मादेरपि भेषजं औषधं शमनहेतुः । सर्व वा इत्यादि । गतम् । पुनर्ब्रह्महत्याग्रहणं तस्मादुत्तरत्वख्यापनार्थम् । 'हनस्त च' इति क्विप् ॥
3 सर्वं पाप्मानमित्यादि ॥ यष्टुर्वेदितुश्च फलम् ॥
4 उत्तरं वा इति ॥ उत्तरस्य शूनस्याक्ष्णोश्वमेधेन प्रतिहतत्वात् प्रजापतेरुत्तरो भागः अश्वमेधसम्बद्धः प्रशस्तः । तथैव प्राजापत्यस्याश्वमेधस्य । तस्मादश्वस्योत्तरतोऽवद्यन्ति । कस्मादेवमुच्यते इति चेत् - दक्षिणतोप्येषां पशूनां अवद्यन्तीत्येव । दक्षिणोत्तराभ्यामतसुच् ॥
5 वैतस इति ॥ वेतसो वञ्जुळः । 'पलाशादिभ्यो वा' इति अनुदात्तलक्षणस्य अञो निवृत्तिः । 'अपो योनियन्मतुषु' इति सप्तम्या अलुक् । अप्सुज इति । 'सप्तम्यां ञनेर्डः' 'तत्पुरुषे कृति बहुळम्' इत्यलुक् । स्व एवेति । उभयोरपि अप्सुयोनित्वात् स्वस्मिन् योनौ कारणे अप्सु अश्वं प्रतिष्ठापयति । वैतसः कटः ॥
6 चतुष्टोम इति ॥ चतुष्टोम इति चतुरुत्तरस्य चतुष्टोमत्वम् । सरडिति । कृकलास इत्येके । कलविङ्क इत्यन्ये । सोश्वस्योत्तरं सक्थि अवृहत् आच्छिद्य गृहीतवान् । वृहू उद्यमने । तत्सक्थि देवाश्चतुष्टोमेन प्रत्यदधुः पूर्ववत्स्थापितवन्तः । तस्माच्चतुष्टोमः स्तोमोश्वस्य सर्वत्वाय अविकलत्वाय भवति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे तृतीये प्रपाठके द्वादशोनुवाकः ॥
समाप्तः प्रपाठकः ॥
प्रश्नः-4