प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.10.1 TS 2.4.10.1
देवा॑ वसव्या॒ देवाः᳚ शर्मण्या॒ देवाः᳚ सपीतय॒ इत्या ब॑द्ध्नाति दे॒वता॑भिरे॒वान्व॒हं ॅवृष्टि॑मिच्छति॒ यदि॒ वर्.षे॒त्-ताव॑त्ये॒व हो॑त॒व्यं॑ ॅयदि॒ न वर्.षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्.षति॒ नक्तं॑ ॅवा॒ हि दिवा॑ वा॒ वर्.ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ - [ ]
पदपाठः (Word-by-word)
देवाः᳚ । व॒स॒व्याः॒ । देवाः᳚ । श॒र्म॒ण्याः॒ । देवाः᳚ । स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ । इति॑ । एति॑ । ब॒द्ध्ना॒ति॒ । दे॒वता॑भिः । ए॒व । अ॒न्व॒हमित्य॑नु - अ॒हम् । वृष्टि᳚म् । इ॒च्छ॒ति॒ । यदि॑ । वर्.षे᳚त् । ताव॑ति । ए॒व । हो॒त॒व्य᳚म् । यदि॑ । न । वर्.षे᳚त् । श्वः । भू॒ते । ह॒विः । निरिति॑ । व॒पे॒त् । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । वै । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प॒र्जन्यः॑ । व॒र्.॒ष॒ति॒ । नक्त᳚म् । वा॒ । हि । दिवा᳚ । वा॒ । वर्.ष॑ति । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः)। (कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्) प्राच्याङ्गमन्त्राः कारीर्या व्याख्याता नवमे स्फुटम्। अथोत्तरभागस्थमन्त्रा दशमे व्याख्यायन्ते। तत्र त्रिषु दिनेषु क्रमेण च्छदिस्त्रये सक्तुबन्धनार्थं मन्त्रान्विनियुङक्ते देवा इति। तत्तन्मन्त्रोक्ताभिर्देवताभिरनुगृहीतः प्रतिदिनं वृष्टिमिच्छति। तत्र वर्षावर्षपक्षयोर्व्यवस्थया सक्तुहोमं पुरोडाशनिर्वापं च विधत्ते यदि वर्षेदिति। तावत्ये सक्तुबन्धने कृते सति वर्षणपक्षे पुरोडाशनिर्वापमन्तरेण पिण्डिर्जुहुयात्। प्रथमदिने वृष्टो सन्यां पिण्डत्रयहोमेनैव कर्मसमाप्तिः। तथा द्वितीयतृतीययोर्दिनयोः। त्रिष्वपि दिनेषु वृष्ट्यभावे चतुर्थदिने पुरोडाशनिर्वापं कुर्यात्। अहोरात्रावसक्तं भवतीति वदता सूत्रकारेणात्यन्तसंयोगवाचिनीं द्वितीयां प्रयुञ्जानेनाहोरात्रयोर्निरन्तरं बन्धनं यदुक्तं तद्विधिमर्थंवादेनोन्नयति अहोरात्रे इति। अह्नः सूर्यप्रकाशयुक्तत्वान्मित्रत्वम्। रात्रेरन्धकारेण लीन (णावरक) त्वाद्वरुणत्वम्। पर्जन्यश्चाहोरात्राभ्यामन्तरेण त्रर्षितुं न क्षमः। कुतः। कालान्तरस्याभावात्। तथा सति रात्रौ दिवसे वा सर्वदा विर्षिष्यतीति ज्ञातुमशक्यत्वान्निरन्तरं बन्धनीयम्। तेन तुष्टौ मित्रावरुणौ वर्षयतःहविर्निर्वपेदिति सामान्येन् यदुक्तं तदेव विशेषतः प्रपञ्चयति अग्नय इति। धामा ह यत्ते अजरेति याज्यानुवाक्ययोर्धामशब्दोपेतत्वद्धामच्छदग्निः। तदर्थस्तु धामान्यस्मदद्गृहादीन्यन्धकारापादिकया वृष्ट्याच्छादयतीति धामच्छत्तस्मै निर्वाप। अग्नौ प्रास्ताहुतिरितिस्मृत्यनुसारेणाग्निरस्माल्लोकादाहुत्यादित्यद्वारा वृष्टिमुत्पादयति। सृष्टामुत्पादितां तां वृष्टिं मरुतो यत्र तत्र नयन्ति। यस्मिन्कालेसावादित्यो न्यग्भूतैस्तीव्रै रश्मिभिः परि आवर्ततेतिशयेन संतापं करोति तदा पर्जन्यद्वारा वर्षति। वर्षन्स धामानि गृहादीन्याच्छादयन्निव बहुलमेघयुक्तो भूत्वा वर्षंति। तथा सत्यग्निमरुत आदित्य इत्येता एव देवता वृष्टिनियमनाय समर्थाः। ताश्च हविर्भिस्तुष्टा यजमानार्थं वर्षयन्ति यद्यपि पर्जन्यः स्वयमेवावर्षिष्यन्निव पूर्वं स्थितस्तथाप्येताभिर्देवताभिः प्रेरितः क्षणमात्रेण पुरो वातादिसामग्रीं संपाद्य सर्वथा वर्षत्येव। आमस्थालीपूरणमन्त्रं व्याचष्टे सृजा वृष्टिमिति। अद्भिः पृणेत्येनेनेमा भूलोकस्था अपः समर्धयति। सृजा वृष्टिमित्यनेनामूः स्वर्गस्था अपः समर्धायति। किंचाभिरेव भूलोकस्थाभिरद्भिरमूरच्छैति स्वर्गस्था अपः प्राप्तुं गच्छति कृष्णाविप्रोक्षणमन्त्रस्य स्पष्टार्थतां दर्शयति अब्जा इति। पुनर्नवायां होमं विधत्ते उन्नम्भयेति। एषा वै पुनर्नवैवौषधीनां सर्वासां मध्ये वृष्टिवनिर्वृष्टिभाक्। वर्षर्तौ बहुलतरसमुद्भवात्। मन्त्रान्तरं विनियुङ्क्ते ये देवा इति। दिवि भागा अन्तरिक्षभागाः पृथिवीभागा इत्युक्तत्वाल्लोकाः प्रीताः सन्तो यजमानायाभीष्टप्रदा भवन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः ।। १० ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 'देवा वस्व्याः' इत्यादिभिः त्रिभिर्मन्त्रैः तिसृषु गधासु त्रिषु दिनेषु अन्वहमाबध्नाति पिण्डीः । यदि वर्षेदिति । तत्रान्वहमिति वचनात् त्रिषु दिनेषु पिण्डीहोमः । श्वोभूते चतुर्थेऽहनि हविर्निर्वपेत् । तत्रायं क्रमः - यदि प्रथमे दिने वर्षेत् तावति तस्मिन्नेवाहनि होतव्यं पिण्डीलक्षणं हविः । अथ यदि तत्र न वर्षेत् द्वितीये दिने मध्यमायां कृष्णाजिनमाबध्नीयात् । यदि तस्मिन् दिने वर्षेत् तावत्येव होतव्यम् । यदि तस्मिन्नपि न वर्षेत् तृतीये दिने तृतीयस्यां कृष्णाजिनमाबध्नीयात् । यदि तस्मिन् दिने वर्षेत्, यदि च न वर्षेत् उभयथापि तृतीये दिने पिण्डीर्जुहुयात् । अथ यदि न वर्षेत् श्वोभूते चतुर्थेऽह्नि प्राप्ते हविर्निर्वपेत् । हविरिति जातावेकवचनम् । धामच्छदादीनि त्रीणि हवींषि निर्वपेत् कृष्णानां व्रीहीणाम् । अहोरात्र इत्युक्तं एकैकस्यां गधायामहोरात्रावसक्तं भवति । सति वर्षे तत्रैव तत्रैव होमः, असति श्वोभूते हविर्निर्वप्तव्यमिति । तत्राहोरात्रावसक्ते वृष्टिहेतुत्वं तावत्समर्थयते - नक्तं वा दिवा वा अहोरात्राभ्यामेव पर्जन्यो वर्षति । तयोश्च मित्रावरुणात्मकत्वात् तावेव पर्जन्यं वर्षयतः, अहोरात्रावसञ्जलक्षणस्वभागोपहृतत्वात् ॥
2 अथ हवींषि विदधाति - अग्नये धामच्छद इत्यादि ॥ धामानि स्थितानि तेजांसि वा छादयति वृष्टिकाल इति धामच्छत् । 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । अग्निर्वा इति । आहुतिद्वारेण अग्निर्वृष्टिमुदकं उदीरयति ऊर्ध्वं गमयति आदित्यं प्रापयति, तस्मादग्नये निरुप्यते । तां वृष्टिं सृष्टां अवसृष्टां मरुतो नयन्ति देशान्तरं प्रापयन्ति, तस्मान्मरुद्भ्यो निरुप्यते । यदा खल्वादित्यो रश्मिभिः न्यङ् अवाक्प्रवृत्तिः पर्यावर्तते इतोमुखं प्रवर्तते अथ वर्षिष्ठरश्मिषु पक्वमुदकं पर्जन्यस्स्र्वावयति, तस्मात्सूर्याय निरुप्यते इति । अनेन त्रिहविष्केण यागेन पर्जन्यो धामच्छदिव भूत्वा वर्षति भूयिष्ठं वर्षतीति यावत् । एता वा इत्यादि । गतम् ॥
3 कुम्भीमद्भिः पूरयति - सृजा वृष्टिमिति ॥ इमा भूयिष्ठाः अमूः दिविष्ठाः मेघस्था वा अपस्समृद्धाः करोति । अपि चाभिरेव करणभूताभिः अमूः आभिमुख्येन प्राप्नोति सृजा वृष्टिमिति वचनात् वर्षेण इमास्समृद्धा भवन्ति । आभिरद्भिस्समृद्धस्य मेघस्थस्य उदकस्यापूरणात् अमूस्समृद्धा भवन्ति । अब्जा इति । अविमभिजुहोति । यथायजुरिति । मेघोदकस्य बलहेतुस्त्वमसीत्येतत् यथायजुर्भवत्येव ॥
4 उन्नम्भयेति ॥ वर्षं आह्वयतीति वर्षाहूः । क्विपि सम्प्रसारणं सांहितिकं पूर्वपदस्य दीर्घत्वं छान्दसं, कृदुत्तरपदस्य प्रकृतिस्वरत्वे 'उदात्तयणः'इति विभकेरुदात्तत्वम् । पुनर्नविकोच्यते - वृष्टिवनिरिति । ओषधीनां मध्ये एषा वृष्टेः संविभक्तिः । 'छन्दसि वनसन' इतीन्प्रत्ययः । गतमन्यत् ॥
इति द्वितीये चतुर्थे दशमोनुवाकः ॥