प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.10.3 TS 2.4.10.3
ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयन्त्यु॒ता व॑र्.षिष्य॒न् वर्.ष॑त्ये॒व सृ॒जा वृ॒ष्टिं दि॒व आ*ऽद्भिः स॑मु॒द्रं पृ॒णेत्या॑हे॒माश्चै॒वा-मूश्चा॒पः सम॑र्द्धय॒त्यथो॑ आ॒भिरे॒वा-मूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैत-दुन्नं॑ भय पृथि॒वीमिति॑ वर्.षा॒ह्वां जु॑होत्ये॒षा वा ( ) ओष॑धीनां ॅवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥
पदपाठः (Word-by-word)
ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒न्ति॒ । उ॒त । अव॑र्.षिष्यन्न् । वर्.ष॑ति । ए॒व । सृ॒ज । वृ॒ष्टिम् । दि॒वः । एति॑ । अ॒द्भिरित्य॑त् - भिः । स॒मु॒द्रम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । इ॒माः । च॒ । ए॒व । अ॒मूः । च॒ । अ॒पः । समिति॑ । अ॒र्द्ध॒य॒ति॒ । अथो॒ इति॑ । आ॒भिः । ए॒व । अ॒मूः । अच्छ॑ । ए॒ति॒ । अ॒ब्जा इत्य॑प् - जाः । अ॒सि॒ । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । बल᳚म् । अ॒सि॒ । स॒मु॒द्रिय᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । उदिति॑ । न॒भं॒य॒ । पृ॒थि॒वीम् । इति॑ । व॒र्.॒षा॒ह्वामिति॑ वर्.ष - ह्वाम् । जु॒हो॒ति॒ । ए॒षा । वै ( ) । ओष॑धीनाम् । वृ॒ष्टि॒वनि॒रिति॑ वृष्टि - वनिः॑ । तया᳚ । ए॒व । वृष्टि᳚म् । एति॑ । च्या॒व॒य॒ति॒ । ये । दे॒वाः । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ । इति॑ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । अवेति॑ । धू॒नो॒ति॒ । इ॒मे । ए॒व । अ॒स्मै॒ । लो॒काः । प्री॒ताः । अ॒भीष्टा॒ इत्य॒भि - इ॒ष्टाः॒ । भ॒व॒न्ति॒ ॥
पदसंख्या: 71