प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.12.1 TS 2.4.12.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रꣳ॒॒ सोम॒माऽह॑र॒त् तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स य॑ज्ञ्वेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत् त्वष्टा॑ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेन्द्र॑शत्रुर्वर्द्ध॒स्वेति॒ स याव॑दू॒र्द्ध्वः प॑रा॒विद्ध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त् प्रव॒ण - [ ]
पदपाठः (Word-by-word)
त्वष्टा᳚ । ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ । वीन्द्र॒मिति॒ वि - इ॒न्द्र॒म् । सोम᳚म् । एति॑ । अ॒ह॒र॒त् । तस्मिन्न्॑ । इन्द्रः॑ । उ॒प॒ह॒वमित्यु॑प-ह॒वम् । ऐ॒च्छ॒त॒ । तम् । न । उपेति॑ । अ॒ह्व॒य॒त॒ । पु॒त्रम् । मे॒ । अ॒व॒धीः॒ । इति॑ । सः । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ् - वे॒श॒सम् । कृ॒त्वा । प्रा॒सहेति॑ प्र - सहा᳚ । सोम᳚म् । अ॒पि॒ब॒त् । तस्य॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । तत् । त्वष्टा᳚ । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । उप॑ । प्रेति॑ । अ॒व॒र्त॒य॒त् । स्वाहा᳚ । इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ । व॒र्द्ध॒स्व॒ । इति॑ । सः । याव॑त् । ऊ॒र्द्ध्वः । प॒रा॒विद्ध्य॒तीति॑ परा - विद्ध्य॑ति । ताव॑ति । स्व॒यम् । ए॒व । वीति॑ । अ॒र॒म॒त॒ । यदि॑ । वा॒ । ताव॑त् । प्र॒व॒णमिति॑ प्र - व॒नम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः)। (त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्र दक्षिणोयोविधिः)

"त्रैधातवीयतद्द्रव्ये एकादश उदीरिते। अथ द्वादशे तस्य द्रव्यस्येन्द्राविष्णुदेवताकत्वं सहस्रदक्षिणां च विधास्यन्नादौ कर्मनाम्नि विधातुत्वसंपादनायोपाख्यानं दर्शयति त्वष्ट हतपुत्र इति। विश्वरूपनाम्नस्त्वष्टुपुत्रस्येन्द्रेण कृतो वध उपरितनप्रपाठकस्य प्रथमनुवाके स्पष्टी भविष्यति। स च हतपुत्रास्त्वष्टा कोपादिन्द्ररहितं सोमयागं कर्तुमुद्यतः। तस्मिन्यागे मामाह्वयेत्येवमिन्द्रोब्रवीत्। स तु त्वष्टा तं पुत्रं मेवधीरित्यवदत्। तमिन्द्रं नोपाह्वयत। स चेन्द्रो यज्ञस्य विधातं कृत्वा बलात्कारेण सोमं पीतवान्। अथ त्वष्टुरभिचारहोमेनेन्द्रवधहेतोः पुरुषस्योत्पत्तिं दर्शयति तस्य यदिति। तस्येन्द्रेण बलात्पीतस्य सोमस्य संबन्धि रसरूपं यदल्पमत्यशिष्यत तद्गृहीत्वा त्वष्टाभिचारं कर्तुमाहवनीयमुपेत्य होमेनाग्निं वैर्युत्पादनाय प्रवृत्तमकरोत्। तस्मिन्होमे मन्त्रमिममुच्चारितवान्स्वाहेन्द्रशत्रुर्वर्धस्वेति। तस्यायमर्थः हेग्ने तुभ्यमिदं स्वाहुतं, पुनरिन्द्रस्य शातयिता कश्चित्पुरुषो भूत्वा वर्धस्वेति। सोग्निर्यावता कालेनोर्ध्वज्वालारूपो भूत्वा पराभूतमिन्द्रं कर्तुं विध्या मीत्युद्यतो भवति तावति काले वह्निः स्वयमेव त्वरतोभूज्ज्वाला शान्तेत्यर्थः। तत्र मन्त्रगतस्वरापराधो निमित्तम्। तथा हि, इन्द्रस्य शातयितेन्द्र शत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेनं भवितव्यम्। आद्युदात्तस्त्वयं शब्दः प्रयुक्तः। स च बहुव्रीहितां द्योतयति। “बहुव्रीहो प्रकृत्या पूर्वपदम्” इति पूर्वपदाद्युदात्तत्वविधानात्। सति बहुव्रीहाविन्द्रः शातयिता यस्येत्प्रर्थो भवति। सोयं मन्त्रगतः स्वरापराधः अपराधाभावे सत्युन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति। अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते। यद्यत्र कार्यासिद्ध्यभावसूचनायाग्निः (ग्नेः) प्रवणमवनतमासीत्, यदि वा कार्यसिद्धेः सूचनार्थमग्निज्वा (ग्नेर्ज्वा) लयाधिका वृद्धिरभूत्, तद्यथा तथा वा तिष्ठतु। स त्वग्निः पुरुषरूपेण संभवन्नेवाग्नीषोमावभिव्याप्य समुत्पन्नो होमाघाराङ्गाराभिमानिनमग्निदेवं हूयमानरसाभिमानिनं सोमदेवं च स्वमुखे मक्षिप्योभयोः पार्श्वयोरूर्ध्वाधोदन्तपङ्क्तिभ्यां दष्टवानित्यर्थः। एतच्चोपरितनप्रपाठके “नावब्रूतामभिसंदष्टौ वै स्वः” इत्यत्र स्पष्टी भविष्यति। एतस्योत्पन्नस्य पुरुषस्य वृत्रत्वं दर्शयति स इषुमात्रमिति। इषुपातो यावति देशे भवति तावन्तं देशं सर्वासु दिक्षु व्याप्य प्रतिदिनमयमवर्धत, तेन सर्वलोकावरणादस्य वृत्रत्वम्। अथास्य वृत्रस्य वधाय साधनभूतस्य वज्रस्योत्पत्तिं दर्शयति तस्मादिति। तस्मात्सर्वलोकावरकाद्वृत्रादिन्द्रोबिभेत्। यथेन्द्रस्तथा त्वष्टाप्यबिभेत्। त्रिष्वपि लोकेष्वनेनावृतेषु त्वष्टुरिन्द्रस्य चोभयोः समान एव स्थानाभावः। ततस्त्वष्टा तं वृत्रं हन्तुं तेनेन्द्रेण सह मैत्रीं कृत्वा तस्या इन्द्राय वज्रमसिञ्चत्। अस्त्ररूपत्वायाभिमन्त्रितेन जलेन तदीयं वज्रं प्रक्षाल्य तस्मै दत्तबानित्यर्थः। सोयमिन्द्रसंबन्धी वज्रोभिमन्त्रितत्वात्तपोरूप एवासीत्। तपोरूपस्य तस्य वज्रस्योद्यमनाय विष्णु सहकार्यपेक्षामिन्द्रस्य दर्शयति तमुद्यन्तुमिति। येदेन्द्र उद्यमने शक्तो नाभूत्तदानीं तस्येन्द्रस्य पुरतो विष्णुर्नाम काचिद्देवतासीत्तं विष्णुमेवं प्रार्थितवान्वृत्रस्य वीर्यं स्मृत्वा भयमापन्नस् मम हस्तो वज्रमुद्यन्तुं न प्रभवति। यन वीर्येणायं वत्र इदं जगद्व्प्राप्तवान् तादृशं वीर्यमावामुभावस्माद्वृत्रादाहरिब्यावः। अतो हे विष्णो मम सहकारित्वभागच्छेति। प्रार्थितस्य विष्णोः साहाय्याचरणप्रकारं दर्शयति स विष्णुरिति। विष्णुर्मूर्तित्रयं संपाद्य रक्षणाय लोकत्रये स्थापितवान्। यस्मादस्य वृत्रस्याभिपर्यावर्तात्सर्वदिग्व्यापिरूपाया वृद्धेरयमिन्द्रोबिभेत्तस्मादिन्द्रभीतिनिवारणाय मूर्तिप्रयस्थापनं युक्तमित्यभिप्रायः। मूर्तित्रयस्थापनादूर्ध्वं प्रवृत्तमिन्द्रव्यापारं दर्शयति यत्पृथिव्यामिति। विष्णुना स्वकीयवक्ष्यमाणद्वयापक्षेया तृतीयं शरीरं पृथीव्यां यत्स्थापितमासीत्तेन युक्त स इन्द्रस्तस्य विष्णोः पृष्ठतः स्श्चितस्तं वज्रमुदयच्छत्। तदानीं स वृत्रो भीतः सन्निन्द्रमिदमब्रवीत्-हे इन्द्र मे शरीरं मा प्रहारस्ति वा इदं किंचिन्मयि वीर्य पृथिवीव्याप्तिक्षमं तत्सर्वं तुभ्यं दास्यामीत्युक्त्वा तदिन्द्राय दत्तवान्। स चेन्द्रस्तत्स्वी चकार। स्वीकृत्य च मां धारयेति ब्रुवन्विष्णवे तद्वीर्यमत्यादरेण प्रायच्छत्। स च विष्णुरस्मासु मध्येयमिन्द्रो वीर्यं धारयत्वित्यभिप्रेत्येन्द्रार्थं तद्वीर्यं प्रत्यगृह्णात्। ईदृशमिन्द्रकृत्यं द्वितीयपर्याये दर्शयति यदन्तरिक्ष इति। हे विष्णो पूर्वं सकृद्वीर्यग्रहणेन मां धारितवानसि, तदपेक्ष्य द्विर्मां धारयेति ब्रुवन्वीर्यं प्रायच्छत्। तृतीयपर्याये तस्येन्द्रस्य कृत्यं दर्शयति यद्दिवीति। येन वीर्येणाहमिदं जगदव्याप्तवानास्मि तत्सर्वं ते प्रदास्यामीत्युक्त इन्द्रोङ्गी चकार। अङ्गीकारार्थोयं त्वीशब्दः। अस्तु तथेत्यर्थः। तस्य वीर्यस्य प्रदानात्प्रागेवेन्द्रवृत्रयोः संधिं दर्शयति संधां तु समिति। तुशब्दो वक्तव्यशेषसद्भावद्योतनार्थः। तत्सर्वं वीर्यं तुभ्यं दास्यामीति (मि) किंत्वन्यच्छेषं वक्तव्यमस्ति। तावदुभौ संधानं करवाव। कीदृशं संधानमिति तदुच्यते—हे इन्द्र त्वामेवाहं प्रविशानीति। तत इन्द्र एवमब्रवीद्यदि त्वं मां प्रविशेस्तदा किं मामेव भोक्ष्यस इति। ततो बृत्र इदमब्रवीन्नाहं त्वां भोक्ष्ये, किंतु त्वाभिन्धीयोदराग्निपाटवेन प्रकाशयेयं दीपयेयं, तच्च तव बहुविधान्नभोगायोपयुज्येत। ततस्त्वां प्रविशामीत्युक्त्वा तमिन्द्रं वृत्रः प्राविशत्। प्रविष्टश्च वृत्रो बह्वन्नपूरणक्षममवकाशरूपमुदरमभवत्। लोकेपि मनुष्योदरे वर्तमाना क्षुदेवात्यन्तबाधकत्वात्सहजो भ्रातृव्यः। एतद्वेदनस्य क्षुदपघातः फलम्। तस्य वृत्रस्य प्रवेशात्पूर्वं द्युलोकगतवीर्यदानं यदस्ति तदिदानीं दर्शयति तदस्मा इति। पूर्ववद्व्याख्येयम्। इदानीं त्रिधातुनिर्वचनं दर्शयति यत्त्रिः प्रेति। वृत्रस्य त्रिवारप्रदानेनेन्द्रस्य त्रिवारप्रतिग्रहेण च वीयर्रूपस्य पुरोडाशस्य हविषास्त्रिधा भिन्नस्य त्रिधातुनाम संपन्नम्। त्रयो धातवश्चतुष्कपालरूपा भेदा यस्य द्वादशकपालपुरोडाशस्य सोयं त्रिधातुः। त्रिसंख्यातस्य हविषो व्यासक्तदेवतां विधत्ते यदविष्णुरिति। यस्माद्विष्णुरनुकूलत्वेन स्थितस्तस्मै च विष्णवेयमिन्द्रोत्यादरेण प्रायच्छत्तस्माद्व्यासक्तयोरिन्द्रविष्ण्वोस्तत्र देवतात्वम्। त्रिवारं प्रत्तं तद्वीर्यरूपं हविर्वेदत्रयरूपेण प्रशंसति यद्वा इदमिति। अत्र च या हिरण्यदक्षिणा पूर्वमुक्ता तस्याः संख्याविधिमुन्नयति सहस्रमिति। यस्मात्सहस्रभेदाभिन्नं वीर्यं दत्तवांस्तस्मात्सहस्रदक्षिणाकमिदंकर्म द्रष्टव्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः ।। १२ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 त्वष्टा हतपुत्र इत्यादि ॥ इन्द्रेण हतपुत्रस्त्वष्टा इन्द्रविरहितं सोममाहरत् । तत एव तं यज्ञे नोपाह्वयत । अथ स इन्द्रः यज्ञहिंसां कृत्वा प्रासहा प्रसह्य सोममपिबत् तेनाननुज्ञातो बलेनैवापिबत् । सहतेः क्विपि 'न हिवृतिवृधि` इति पूर्वपदस्य दीर्घत्वम् । अथ त्वष्टा इन्द्रपीतो यः तं सोमं गृहीत्वा तेनाहवनीयमुपेत्याग्निं प्रावर्तयत् उददीपयत् उदीर्णज्वालमकरोत् । उत्थापना प्रवर्तना । यथा - 'यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम्' इति । स्वाहा स्वाहुतमिदं तवास्तु, हे अग्ने इन्द्रस्य शत्रुश्शातयिता वर्धस्वेति । एवमिन्द्रस्य विनाशमाशासानः ग्लानबुद्धिः प्रार्थयत । अथ सोग्निस्तेनोद्दीपितः यावदूर्ध्वं गत्वा पराविध्यति पराहन्ति इन्द्रं बाधते तावति ततः प्रागेव अग्निस्स्वयमेव व्यरमत निवृत्तोद्योगोऽभवत् त्वष्टुरभिमतं नाकरोत् । केचिदाहुः - सोग्निस्त्वष्ट्रा उद्दीपितो यावदूर्ध्वः पराविध्यति यावत्याकाशप्रदेशे ऊर्ध्वो गत्वा पराविध्यति पराहन्ति तावति ततः प्रागेव तदीयोद्दीपनप्रयत्नानुरूपमूर्ध्वगतिं कृत्वैव अकस्माज्झडिति स्वयमेव व्यरमत विलुप्ततेजा अभवत् । अयमभिप्रायः - इन्द्रस्य शत्रुश्शातयिता नाशयिता अस्येत्यर्थस्स्यात्, ततश्चेन्द्रेण नाशयितव्यो वर्धत्वेति प्रार्थितत्वात् इन्द्रेण नाशयितव्यः कश्चिदस्या आहुतेर्जायेतेति तदनुरूपमेव अग्निना चेष्टितमागामिनमि[मि इ]न्द्रेणास्य निपातनमिति सूचयितुमिति । एवं स्वरापराधेन मन्त्रप्रयोगोऽभिमतविघातहेतुरसीत् । यथोक्तम् -

दुष्टश्शब्दस्स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्स्वरतोपराधात् ॥

इति । अयं च शत्रुशब्दः इदानीं क्रियाशब्दो द्रष्टव्यः ।

2 योस्स्माज्जायते यज्ञात् इन्द्रस्य वा शातयिता इन्द्रेण वा शातयितव्यः तस्यैव उद्भवस्स्यात् अभिभवो वा । अग्नेः किमायातमित्याह - यदि वेत्यादि ॥ यजमानस्य यदि वा प्रवणं अवनतिर्भवति, यदि वा आधिक्यमुच्छ्रायो भवति तदानीमग्नेरेव तावत्प्रवणं भवति, आधिक्यं चाग्नेरेव तावत् भवति । छान्दसो लुक् । 'निपातैर्यद्यदिहन्त' इति निघाताभावः । स सम्भवन्नित्यादि । स इन्द्रशत्रुत्वेन वर्धमानोग्निजन्मा पुरुषः संभवन् विश्वं जगद्व्याप्नुवन् अग्नीषोमावप्याक्रम्य समभवत् अग्नीषोमावप्यभिव्याप्तवान् । प्रमाणेनातिरेकस्संभवः । ततो वशीकृत्याग्नीषोमाविषुप्रमाणया वृद्ध्या दिनेदिने विष्वङ् नानागतिः अवर्धत क्रमेण इमान् सर्वानपि लोकानावृणोद्व्याप्तवान् । ततश्च स वरणाद्वृत्र उच्यते । तस्मादिन्द्रोऽबिभेत् । त्वष्टाप्यबिभेत् । यस्तस्य प्रवर्तयिता सोप्यबिभेदित्यपिशब्दस्यार्थः ॥
3 तस्मा इत्यादि ॥ अथ त्वष्टा तस्मै वृत्राय तं वृत्रं निग्रहीतुम् । यद्वा - तस्मै इन्द्राय युद्धार्थिने वज्रमायुधं असिञ्चत् उदपादयत् । तपोविशेषस्तेनोत्पादितः स स्वयं वज्र एवाभवत्, यद्वा - तदीयं तपो वज्रत्वेनातिष्ठत् । अथेन्द्रः केवलस्तमुद्धर्तुं नाशक्नोत् । अथ तर्हि तदानीं विष्णुर्नाम अन्या देवता आसीत् इन्द्राय विषीदते आविरासीत् । अथेन्द्रस्तमब्रवीत्, हे विष्णो एहि इदमस्य वीर्यमाहरिष्यावः येन वीर्येणायमिदं विश्वमभूदिति । स विष्णुरित्यादि । गतम् । अभिपर्यावर्तादिति । अभितः परितस्सर्वतः आक्रमणमभिपर्यावर्तः, तत्परिहारार्थं तं वृत्रो मा कार्षीदिति लोकत्रयेप्यात्मानं त्रेधा विभज्य स्थापितवान् ॥
4 यत्पृथिव्यामित्यादि ॥ तेन तृतीयेन सह विष्ण्वनुस्थितः विष्णुना गुणभावेन धारितः, सारथिनेव राजा गुणभावेन । अनोः कर्मप्रवचनीयत्वम्, उपसर्गत्वाभावात् 'उपसर्गात्सुनोति' इत्यादिना षत्वाभावः , कर्मप्रवचनीयत्वेपि व्यत्ययेन समासः । अथ सोब्रवीद्वृत्रः मा मां प्रहाः प्रहार्षीः । सिचि वृद्धौ 'बहुलं छन्दसि' इतीडाभावः । अस्ति वा इत्यादि । गतम् । अथ वृत्रेण दत्तं वीर्यं तद्विष्णवे आत्मानमतीत्य प्रायच्छत् । यद्वा - प्रतिग्रहानन्तरं तस्यान्यस्मै प्रदानमिति । कि ब्रुवन् अधामेति । मामधाः धारितवान् त्वमिति विष्णुं वदन् । विष्णुश्च तत्प्रत्यगृह्णात्, कथं मन्यमानः? इन्द्रोस्मास्विन्द्रियं दधातु आस्थापयतु इन्द्रार्थमेव मयि तिष्ठत्विति ॥
5 यदन्तरिक्ष इत्यादि समानम् ॥ द्विर्माधाः इति विशेषः द्वौ वारौ मां धारितवानिति ॥
6 यद्दिवीत्यादि ॥ गतम् । येनाहमिदमिति । पूर्वं वीर्यैकदेशः वृत्रेणेन्द्राय दत्तः, इदानीं कृत्स्नप्रदानमभ्युपगच्छति येन वीर्येणाहं इदं विश्वमस्मि तत्सर्वं ते दास्यामीति अब्रवीत् इन्द्रः बाढमितीत्यर्थः । अभ्युपगमे प्लुतः । अथ वृत्रोब्रवीत् सन्धां त्विति । त्वं चाहं च एकत्वं प्रतिपद्यावहा इत्यर्थः । यद्वा - त्वी इति पर्यनुयोगे विस्मृतस्मरणे वा । सर्वं वीर्यं ते प्रदास्यामीत्युक्तं अत्र किंचिद्विस्मृतं तदिदानीं स्मृतमिति स्मृतिमभिनीयाब्रवीत् वत्रे एव संधां त्विति । तुशब्दो विशेषमाह । सर्वं वीर्यं ते प्रदास्यामि किं तु आवां संदधावहै त्वामेवाहं प्रविशानि यदिदं लभ्यते ततो वीर्यं दास्य्ते इति । 'गोपोषं पुष्णाति' इतिवदेकस्सन्दधातिः सामान्यवचनो द्रष्टव्यः । अथेन्द्रोब्रवीत् यदा त्वं मां प्रविशेः किमिदानीं मां प्रविश्य त्वं मा भुञ्जाः । यद्वा - किं मां प्रविश्य मामेव भुञ्जाः किं मामेव भोक्तुमारभसे । अथ वृत्रोब्रवीत् मैवं मन्तव्यं त्वामेवेन्धीय दीपयेयं अतस्तवैव भोगार्थं त्वां प्रविशेयमिति । भुञ्जेर्लोट्याडागमः, छान्दसोकारलोपः, लुग्विकरणत्वेन वा अयम् । अथेन्द्रेणानु[नुमतो]भूत्वा स्थितः यत्र क्षुदुपजायते जाठराग्निरूपेणान्तः प्रविशतीत्यर्थः । स च क्षुद्रूपो दिने दिने सर्वैर्हन्यते । क्षुत्खल्वित्यादि वेदितुः फलम् । अथ वृत्रः तच्चात्मीयं वीर्यं कृत्स्नं इन्द्राय प्रायच्छत् तत्प्रवेशेन सर्वशक्तिरिन्द्रोभवत् इन्द्रश्च तत्प्रतिगृह्य विष्णवे प्रायच्छत् त्रिर्माधाः त्रीन् वारान् मां धारितवानसीति । विष्णुरित्यादि । गतम् ॥
1 यत्त्रित्यादि ॥ दानप्रतिग्रहयोस्त्रिरावृत्त्या त्रिधातुत्वं, वृत्रो दाता

इन्द्रः प्रतिग्रहीता । त्रयो धातवो दानानि वा[धा]रणानि वा अस्येति त्रिधातुर्वीर्यावीशेषः, तत्सम्बन्धी यागस्रैधातवीयं, इह त्वभेदेनोच्यते । यद्विष्णुरित्यादि । यस्माद्विष्णुरिन्द्रमन्वतिष्ठत यस्माच्च विष्णवे इन्द्रोतिप्रायच्छत् तस्मादैन्द्रावैष्णवं हविर्भवति ॥

8 यद्वा इति ॥ यत्किंचिदात्मनि वीर्यं विद्यते ऋचस्सामानि यजूंषि च, ऋगादिनिमित्तमिति यावत्, तत्सर्वं अस्मै इन्द्राय तदानीं वृत्रहा प्रायच्छत् । अत एव पूर्वानुवाके दक्षिणाभूतानां हिरण्यादीनां सामादिरूपेण वर्णना कृता । सहस्रं वा इति । सहस्रं वीर्याणि सहस्रप्रकारं वीर्यं तदा प्रायच्छत् । तस्मात्सहस्रहिरण्यदक्षिणत्वमस्य पूर्वमुक्तम् ॥
इति द्वितीये चतुर्थे द्वादशोनुवाकः ॥