प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.12.3 TS 2.4.12.3
-र॒न्या दे॒वता॑ ऽऽसी॒थ् सो᳚ऽब्रवी॒द्-विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒स विष्णु॑स्त्रे॒धाऽऽत्मानं॒ ॅविन्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑य-मभिपर्याव॒र्ताद्-ध्यबि॑भे॒द्यत्-पृ॑थि॒व्यां तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्-विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं - [ ]
पदपाठः (Word-by-word)
अ॒न्या । दे॒वता᳚ । आ॒सी॒त् । सः । अ॒ब्र॒वी॒त् । विष्णो᳚ । एति॑ । इ॒हि॒ । इ॒दम् । एति॑ । ह॒रि॒ष्या॒वः॒ । येन॑ । अ॒यम् । इ॒दम् । इति॑ । सः । विष्णुः॑ । त्रे॒धा । आ॒त्मान᳚म् । वि । नीति॑ । अ॒ध॒त्त॒ । पृ॒थि॒व्याम् । तृती॑यम् । अ॒न्तरि॑क्षे । तृती॑यम् । दि॒वि । तृती॑यम् । अ॒भि॒प॒र्या॒व॒र्तादित्य॑भि - प॒र्या॒व॒र्तात् । हि । अबि॑भेत् । यत् । पृ॒थि॒व्याम् । तृती॑यम् । आसी᳚त् । तेन॑ । इन्द्रः॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् ।
पदसंख्या: 50