मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒द् द्विर्मा॑ऽधा॒ इति॒ तद्-विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्-विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्-विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्रहा॒र्येना॒ह - [ ]
पदपाठः (Word-by-word)
मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तत् । अ॒स्मै॒ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । द्विः । मा॒ । अ॒धाः॒ । इति॑ । तत् । विष्ण॑वे । अति॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । विष्णुः॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । इति॑ । यत् । दि॒वि । तृती॑यम् । आसी᳚त् । तेन॑ । इन्द्रः॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । येन॑ । अ॒हम् ।