-मि॒दमस्मि॒ तत् ते॒ प्रदा᳚स्या॒मीति॒ त्वी(3) इत्य॑ब्रवीथ् स॒न्धां तु सन्द॑धावहै॒ त्वामे॒व प्रवि॑शा॒नीति॒ यन्मां प्र॑वि॒शेः किं मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त् त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वां प्रवि॑शेय॒मित्य॑ब्रवी॒त् तं ॅवृ॒त्रः प्रावि॑शदु॒दरं॒ ॅवै वृ॒त्रः क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य - [ ]
पदपाठः (Word-by-word)
इ॒दम् । अस्मि॑ । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । त्वी(3) । इति॑ । अ॒ब्र॒वी॒त् । स॒धांमिति॑ सं - धाम् । तु । समिति॑ । द॒धा॒व॒है॒ । त्वाम् । ए॒व । प्रेति॑ । वि॒शा॒नि॒ । इति॑ । यत् । माम् । प्र॒वि॒शेरिति॑ प्र-वि॒शेः । किम् । मा॒ । भु॒ञ्ज्याः॒ । इति॑ । अ॒ब्र॒वी॒त् । त्वाम् । ए॒व । इ॒न्धी॒य॒ । तव॑ । भोगा॑य । त्वाम् । प्रेति॑ । वि॒शे॒य॒म् । इति॑ । अ॒ब्र॒वी॒त् । तम् । वृ॒त्रः । प्रेति॑ । अ॒वि॒श॒त् । उ॒दर᳚म् । वै । वृ॒त्रः । क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः । यः ।