ए॒वं ॅवेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत् प्रत्य॑गृह्णा॒त्- त्रिर्मा॑ऽधा॒ इति॒ तद्-विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्-विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त् त्रिः प्र॒त्यगृ॑ह्णा॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं ॅयद्-विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तस्मा॑दैन्द्रावैष्ण॒वꣳ ह॒विर्भ॑वति॒ ( ) यद्वा इ॒दं किञ्च॒ तद॑स्मै॒ तत् प्राय॑च्छ॒द् ऋचः॒ सामा॑नि॒ यजूꣳ॑षि स॒हस्रं॒ ॅवा अ॑स्मै॒ तत् प्राय॑च्छ॒त् तस्मा᳚थ् स॒हस्र॑दक्षिणं ॥
पदपाठः (Word-by-word)
ए॒वम् । वेद॑ । हन्ति॑ । क्षुध᳚म् । भ्रातृ॑व्यम् । तत् । अ॒स्मै॒ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । त्रिः । मा॒ । अ॒धाः॒ । इति॑ । तत् । विष्ण॑वे । अति॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । विष्णुः॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । इति॑ । यत् । त्रिः । प्रेति॑ । अय॑च्छत् । त्रिः । प्र॒त्यगृ॑ह्णा॒दिति॑ प्रति – अगृ॑ह्णात् । तत् । त्रि॒धातो॒रिति॑ त्रि - धातोः᳚ । त्रि॒धा॒तु॒त्वमिति॑ त्रिधातु - त्वम् । यत् । विष्णुः॑ । अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत । विष्ण॑वे । अति॑ । प्रेति॑ । अय॑च्छत् । तस्मा᳚त् । ऐ॒न्द्रा॒वै॒ष्ण॒वमित्यै᳚न्द्रा - वै॒ष्ण॒वम् । ह॒विः । भ॒व॒ति॒ ( ) । यत् । वै । इ॒दम् । किम् । च॒ । तत् । अ॒स्मै॒ । तत् । प्रेति॑ । अ॒य॒च्छ॒त् । ऋचः॑ । सामा॑नि । यजूꣳ॑षि । स॒हस्र᳚म् । वै । अ॒स्मै॒ । तत् । प्रेति॑ । अ॒य॒च्छ॒त् । तस्मा᳚त् । स॒हस्र॑दक्षिण॒मिति॑ स॒हस्र॑ - द॒क्षि॒ण॒म् ॥