-म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां ॅवृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑इन्द्रतेश॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्थ् स॒हस्रꣳ॒॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
पदपाठः (Word-by-word)
अ॒स्य । जग॑तः । सु॒व॒र्दृश॒मिति॑ सुवः - दृश᳚म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥ त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥ यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः᳚ । उ॒त । स्युः ॥ न । त्वा॒ । व॒ज्रि॒न्न् । स॒हस्र᳚म् । सूर्याः᳚ । अन्विति॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ पिब॑ । सोम᳚म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒षाव॑ । ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ । अद्रिः॑ ॥