प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.14.5 TS 2.4.14.5
श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्. हवन॒श्रुतः॑ । जु॒षन्तां॒ ॅयुज्यं॒ पयः॑ ॥ विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्॒.हिषि॑ मादयद्ध्वं ॥
पदपाठः (Word-by-word)
च॒ ॥ विश्वे᳚ । दे॒वाः । ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ह॒व॒न॒श्रुत॒ इति॑ हवन - श्रुतः॑ ॥ जु॒षन्ता᳚म् । युज्य᳚म् । पयः॑ ॥ विश्वे᳚ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव᳚म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उपेति॑ । द्यवि॑ । स्थ ॥ ये । अ॒ग्नि॒जि॒ह्वा इत्य॑ग्नि - जि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒सद्येत्या᳚ - सद्य॑ । अ॒स्मिन्न् । ब॒र्॒.हिषि॑ । मा॒द॒य॒द्ध्व॒म् ॥
पदसंख्या: 30