प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.5.1 TS 2.4.5.1
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्‌ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥ येन॑ दे॒वा अ॒मृतं॑ - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । गोभिः॑ । नः॒ । एति॑ । ग॒हि॒ । इन्दो॒ इति॑ । पु॒ष्ट्या । जु॒ष॒स्व॒ । नः॒ ॥ इन्द्रः॑ । ध॒र्ता । गृ॒हेषु॑ । नः॒ ॥ स॒वि॒ता । यः । स॒ह॒स्रियः॑ । सः । नः॒ । गृ॒हेषु॑ । रा॒र॒ण॒त् ॥ एति॑ । पू॒षा । ए॒तु॒ । एति॑ । वसु॑ ॥ धा॒ता । द॒दा॒तु॒ । नः॒ । र॒यिम् । ईशा॑नः । जग॑तः । पतिः॑ ॥ सः । नः॒ । पू॒र्णेन॑ । वा॒व॒न॒त् ॥ त्वष्टा᳚ । यः । वृ॒ष॒भः । वृषा᳚ । सः । नः॒ । गृ॒हेषु॑ । रा॒र॒ण॒त् ॥ स॒हस्रे॑ण । अ॒युते॑न । च॒ । येन॑ । दे॒वाः । अ॒मृत᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयाष्टके चतुर्थप्रपाठके पञ्चमोनुवाकः)। (चित्रायागस्योपहोममन्त्राः) प्रजापश्वर्थिनोरुक्तश्चतुर्थे गार्मुतश्च. । अथ व्यवहितेन षष्ठेन चित्रायागं विधित्सुरादौ पञ्चमेनानुवाकेनोपहोममन्त्रान्पठति। कल्पः‘चित्रापौर्णमासे चित्रामिष्टिं निर्वपेदाग्नेयादीनि सप्ताग्ने गोभिर्न आगहीत्येतेनानुवाकेपहोमाः’ इति। तत्र प्रथममन्त्रपाठस्तु अग्ने गोभिरिति। हेग्ने गोभिः सह नोस्मान्प्रत्यागद्यागच्छ। हे इन्द्रो पशुपुष्ट्या नोस्माञ्जुषस्व प्रीणय। इन्द्रो नोस्माकं गृहेषु धर्ता पशूनां धारयिता भवतु। द्वितीयमन्त्रपाठः तु सवितेति। पशूंना सहस्रं यस्यास्त्यसौ सहस्त्रियः तादृशो यः सविता नोस्माकं गृहेषु रारणद्भृशं रमताम्। पशुपोषकश्च देव आ गच्छतु। वसु धनमपि आगच्छतु। तृतीयमन्त्रपाठस्तु धातेति। सर्वस्य विधाता जगतः पालक ईश्वसो नोस्मभ्यं रयिं धनं ददातु। स ईश्वरो नोस्मान्पूर्णेन धनेन वावनद्भृशं भजतु रक्षतु। चतुर्थमन्त्रपाठस्तु त्वष्टा य इति। यस्त्वष्टा वृषभः श्रेष्ठो वृषा कामानां वर्षिता सोस्माकं गृहेषु पशुनां सहस्रेणायुतेन च सह रारणद्भृशं रमताम्। पञ्चममन्त्रपाठस्तु येन देवा इति। हे रायस्पोष धनपोषक येन त्वया देवा अमृतं पीयूषं दीर्घं सुपूर्णं श्रवः कीर्तिहेतुभूतमन्नं दिव्यैरयन्त स्थापितवन्तः, तादृशस्त्वमस्मदर्थं गवां कुल्मिं संघं जीवसे जीवनार्थमायुवस्वानीय मिश्रय। षष्ठमन्त्रपाठस्त अग्निर्गृहपतीरीति। अग्निरस्मद्गृहस्याधिपतिः। सोमो विश्वं वनते भजत इति विश्ववनिः। सविता शोभना मेधा यस्येति सुमेधाः। एतेभ्य इदं स्वाहुतमस्तु। सप्तममन्त्रपाठस्तु अग्ने गृहपते इति।"

"हे गृहपतेग्ने घृतमर्हतीति घृत्यो यस्ते भागस्तेन सह ओजोष्टमधातुरूपं शरीरसारमाक्रममाणायानुतिष्ठते यजमानाय धेहि स्थापय। यजमानोहं श्रैष्ठ्यात्पथः श्रेष्ठानां मार्गकर्तणां संबन्धिनोस्मादनुष्ठानमार्गान्मा योषं वियुक्तो मा भूवं, मूर्धा यजमानानां मध्ये शिरोवदुत्तमो भूयां, तुभ्यमिदं स्वाहुतमस्तु। अत्र विनियोगसंग्रहः ‘अग्ने गोभिस्तूपहोमाश्चित्रायागे हि सप्त ते।।’ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके पञ्चमोनुवाकः।। ५ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चित्रायागो वक्ष्यते । तस्यामेते उपहोममन्त्रास्सप्त । तत्राद्याश्चतस्रो गायत्र्यः । पञ्चमी (सतो) बृहती । ततो द्वे यजुषी । तत्र प्रथमा - अग्ने गोभिरिति ॥ हे अग्ने गोभिः नः अस्मानागहि आगच्छ । शपो लुक् । हे इन्दो पुष्ट्या पशुपुष्ट्या अस्माकं जुषस्व सेवस्व प्रीणय वा । इन्द्रश्च गृहेषु अस्माकं धर्ता धारको भवितुमर्हतीति । 'अर्हे कृत्यतृचश्च' इति तृच् ।
2 द्वितीया - सवितेति ॥ यस्सविता सहस्रियः सहस्रेण संमितः । 'सहस्रेण संमितौ घः' । सोस्माकं गृहेषु रारणत् रमताम् । रमतेर्लेटि शपश्श्लुः, तुजादित्वादभ्यासस्य दीर्घत्वम्, लेटोऽडागमः, वर्णव्यत्ययेन णत्वम् । पूषा चास्मद्गृहेषु ऐतु आगच्छतु । वसु पशुलक्षणं धनं चास्मद्गृहेष्वागच्छतु ॥
3 तृतीया - धातेति ॥ धाता सर्वस्य विधाता देवोस्मभ्यं रयिं धनं पशुलक्षणं ददातु ईशानः दातुं समर्थः जगतः पतिः पालयिता । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । किञ्च - स देवोस्मान् पूर्णेन सर्वाभिमतैराप्यायितेन धनेन वावनत् संभजतां अस्मान् परिगृह्णातु । वनषण संभक्तौ, लेटि शपश्श्लुः, अडादि पूर्ववत् ॥
4 अथ चतुर्थी - त्वष्टेति ॥ यस्त्वष्टा वृषभः वर्षिता कामानां वृषा प्रधानभूतः सेक्ता वा सोस्माकं गृहेषु रारणत् रमताम् । व्याख्यातम् । सहस्रेण पशुना दशभिश्शतैः रमताम् । अयुतेन दशभिस्सहस्रैश्च रमताम् ॥
5 अथ पञ्चमी - येनेति ॥ हे रायस्पोष धनपुष्ट येन त्वया देवा अमृतं अमृतत्वं दीर्घमविच्छिन्नं श्रवः अन्नं च दिवि ऐरयन्त द्युलोके प्राप्नुवन् स त्वमस्मभ्यं गवां कुल्मिं संघातं सन्तानं वा आयुवस्व अस्माभिर्मिश्रय, देहीति यावत् । यौतेर्व्यत्यन्येनात्मनेपदम्, विकर्णव्यत्ययेन शः । जीवसे अस्मान् जीवयितुम् । तुमर्थे असेप्रत्ययः ॥
6 अथ षष्ठो मन्त्रः - अग्नित्रिति ॥ गृहाणां पतिः पाता अग्निः सोमः सर्वस्य धनस्य संभक्ता संविभक्ता । 'छन्दसि वनसन' इतीन्प्रत्ययः । सविता सुमेधाः शोभनमतिः सदा सानुग्रहबुद्धिः । तस्मादेतेभ्यो महानुभावेभ्यः इदं स्वाहुतमस्त्विति ॥
7 अथ सप्तमः - अग्न इति ॥ हे अग्ने गृहपते गृहाणां पातः । 'नामन्त्रिते समानाधिकरणे' इति पूर्वपदस्य विद्यमानत्वाभावादिदं निहन्यते । यस्ते घृत्यः घृतार्हः, छान्दसो यत् । भागः एकदेशोङ्गभेदः तेन कर्मणा आक्रममाणाय शत्रूनभिभवते अन्यग्भूताय मह्यं सहः बलं ओजस्तेजश्च धेहि देहि । यद्वा - यस्ते भागः हविर्भागः घृत्यः घृते भवः घृतप्रकृतिर्वा, तेनानेन हेतुना शत्रूनाक्रममाणाय मह्यं सह ओजश्च देहि । श्रैष्ठ्यात् पथो मार्गात् मा योषं अपहृतो मा भूवम् । यौर्तेर्लिङि वृद्ध्यभावश्छान्दसः, इडभावश्च । अपि च मूर्धा प्रधानभूतो भूयास्मम् । स्वाहुतꣳ चेदं घृतं तुभ्यमस्तु ॥
इति द्वितीये चतुर्थे पञ्चमोनुवाकः ॥