प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.7.1 TS 2.4.7.1
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धारां᳚ भिन्धि र॒मय॑त मरुतः श्ये॒नमा॒यिनं॒ मनो॑जव सं॒ ॅवृष॑णꣳ सुवृ॒क्तिं ॥ येन॒ शर्द्ध॑ उ॒ग्रमव॑-सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तꣳ स्व॒स्ति । पु॒रो॒वा॒तो वर्.ष॑ञ्जि॒न्वरा॒वृथ्-स्वाहा॑ वा॒तावद्- वर्.ष॑न्नु॒ग्ररा॒वृथ् स्वाहा᳚ स्त॒नय॒न् वर्.ष॑न् भी॒मरा॒वथ्‌स्वाहा॑ ऽनश॒न्य॑व॒स्फूर्ज॑न्-दि॒द्युद्-वर्.ष॑न्-त्वे॒षरा॒वृथ् स्वाहा॑ ऽतिरा॒त्रं॒ ॅवर्.ष॑न् पू॒र्तिरा॒वृथ् - [ ]
पदपाठः (Word-by-word)
मा॒रु॒तम् । अ॒सि॒ । म॒रुता᳚म् । ओजः॑ । अ॒पाम् । धारा᳚म् । भि॒न्धि॒ । र॒मय॑त । म॒रु॒तः॒ । श्ये॒नम् । आ॒यिन᳚म् । मनो॑जवस॒मिति॒ मनः॑ - ज॒व॒स॒म् । वृष॑णम् । सु॒वृ॒क्तिमिति॑ सु - वृ॒क्तिम् ॥ येन॑ । शर्द्धः॑ । उ॒ग्रम् । अव॑सृष्ट॒मित्यव॑ - सृ॒ष्ट॒म् । एति॑ । तत् । अ॒श्वि॒ना॒ । परीति॑ । ध॒त्त॒म् । स्व॒स्ति ॥ पु॒रो॒वा॒त इति॑ पुरः - वा॒तः । वर्.षन्न्॑ । जि॒न्वः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । वा॒ताव॒दिति॑ वा॒त - व॒त् । वर्.षन्न्॑ । उ॒ग्रः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । स्त॒नयन्न्॑ । वर्.षन्न्॑ । भी॒मः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । अ॒न॒श॒नि । अ॒व॒स्फूर्ज॒न्नित्य॑व-स्फूर्जन्न्॑ । दि॒द्युत् । वर्.षन्न्॑ । त्वे॒षः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । वर्.षन्न्॑ । पू॒र्तिः । आ॒वृदित्या᳚ - वृत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयाष्टके चतुर्थप्रपाठके सप्तमोनुवाकः)। (करीरीष्टिविधिः) पशुकामस्य चित्राख्यो यागः षष्ठे निरूपितः।

अथ सप्तममारभ्य दशमान्तैश्चतुर्भिरनुवाकैः कारीरीष्टिः प्रतिपाद्यते। तत्रतावत्सप्तमेनुवाके केचिन्मन्त्राः पठ्यन्ते।

"कल्पः ‘कारीया वृष्टिकामो यजेताग्नीनन्वाधायापरेणाहवनीयं दक्षिणातिक्रम्य यजमानो मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परिधत्ते’ इति पाठस्तु मारुतमिति। हे कृष्णवासरस्त्वं मरुत्संबन्ध्यसि, वस्त्रे प्रक्षिप्तस्य कृष्णद्रव्यमिश्रस्य जलस्य मरुद्भिः शोषणीयत्वात्। अत एव मरुतामोजो बलमसि, मेघेषु प्रतिबध्दानामपां धारामुद्दिश्य प्रतिबन्धरूषं मेघं भिन्धि। कल्पः‘रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति पुरोवातमेव जनयति’ इति। प्रतिमीवति प्रतिबध्नाति। पाठस्तु रमयतेति। हे मरुतः श्येनं श्येनवत्प्रबलगतिं पुरोवातं रमयत क्रीडयत। क्रीदृशम् आयिनमागच्छन्तं, मनोजवसं मनस इव जवो वेगो यस्य तादृशं, वृषणमुदकस्य वर्षयितारं सुवृक्तिं सुष्ठु पाश्चात्यवातस्य वर्जयितारम्। येन पुरोवातेनावसृष्टं मेघेभ्यो मोचितं जलमुग्रं तीव्रधारारूपं भूत्वा शर्धः शीर्णमतिशोषेण हिंसितमेति प्राप्नोति। तादृशं पुरोवातं रमयतेति पूर्वत्रान्वयः। हेश्विनौ देवभिषजौ तज्जलं स्वस्ति क्षेमकरं यथा परितो धारयतम्। कल्पः पुरोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वा इति। पाठस्तु पुरोवात इति। यः पुरोवातो वर्षन्वृष्टिं प्रवर्तयञ्जिन्वः प्रजाः प्रीणयन्नावृदावर्ततां तस्मै स्वाहुतमस्तु। वातावत्प्रवातेन युक्त उग्रस्तीव्रधारायुक्तः स्तनयन्गर्जन्भीमो गर्जनाधिक्येन भयंकर इव, अनशनि प्राणघातकोशनिर्यथा न पतति यथावस्फूर्जन्नवनेन शब्दयन्, दिद्युद्विद्युल्लक्षणेन प्रकाशनेन युक्तः, त्वेषो वर्षधारया सस्यक्षेत्रादेर्दिपकः, अतिरात्रं रात्रिमतीत्य दिवारात्रमित्यर्थः। पूर्तिर्महीतलं पूरयिता। अयं वातो बहु यथा भवति तथा वृषाद्धावर्षयत्किलेति श्रुतो जनेषु ख्यातः। आतपति आतपे स्थिते सति विराड्विशेषेण राजमानः। अवस्फूर्जन्दिद्युदितिशब्दौ व्याख्यातौ।आदरार्थं पुनर्वचनम्। इत्थंभूतो यथोक्तगुणैर्युक्तः सन्सर्वलोकधारणक्षम इत्यर्थः। कल्पः अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्खर्जू रसक्तून्करीरसक्तून्वा मान्दा वाशा इति कृष्णमधुषा संयुज्य तिस्र पिण्डिः कृत्वा पुष्करपलाशैः संवेष्ट्य इति। पाठस्तु मान्दा वाशा इति। मान्दादीन्येकादशापां नामानि संबुद्ध्यन्तानि। तादृश्यो हे आपो यूयमिहास्मिन्कर्मणि मामवत फलप्रदानेन रक्षत। मान्दा हर्षहेतवः। वाशाः शब्देन वर्षणजन्येन युक्ताः। शुन्ध्यूः शुद्धिहेतवः। अजिराः प्रवाहरूपेण गमनशीलाः। ज्बोतिष्मतीःशुक्लरूपयुक्ताः। तमस्वरीः सूर्यप्रकाशाच्छादनेन तमो यथा भवति तथा स्वरन्त्यो गच्छन्त्यः। उन्दतीर्भूमिं क्लेदयन्त्यः। सुफेना जलप्रवाहबाहुल्येन बहुफेनयुक्ताः। जगन्मित्रभूता ओषधीर्विभ्रति पोवयन्तीति मित्रभृतः। क्षत्त्रं देशाधिपतिं राजानं सवृष्टिज यशंतोषेण बिभ्रति पोषयन्तीति मित्त्रभृतः। सुष्ठु शोभनं सस्येन संपूर्णं राष्ट्रं यासां ताः सुराष्ट्राः। कल्पः- ‘समुद्यम्य कृष्णाजिनस्यान्तौ वृष्णो अश्वस्य संदानमसीति कृष्णेन दाम्नोप न ह्यति’ इति। पाठस्तु वृष्णो अश्वस्येति। हे रज्जो त्वं वृष्णोश्वस्य सेचनसमर्थस्याश्वमुख्यस्यैवास्य कृष्णाजिनस्य संदानं दृढबन्धनसाधनमसि । अतोवृष्टिसिद्ध्यर्थमनेन संदानेन हे कृष्णाजिन त्वामुपनह्यामि बध्नामि। अत्र विनियोगसंग्रहः ‘कारीर्यां मारुतं कृष्णं स्वामी धारयते पटम्। रमेति पश्चिमं वातं पुरोवातं करोति हि ।। पुरोष्टावाहुतीर्हुत्वा मान्दाः संयौति सक्तुकम्। वृष्णः संनह्यते सक्तुं मन्त्रा द्वादश वर्णिताः’’ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके सप्तमोनुवाकः ।। ७ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ कारीरिमन्त्राः । तत्र यजमानः कृष्णं वासः कृष्णतूषं परिधत्ते - मारुतमसीति यजुषा ॥ अत्राहुः -

होतॄन्प्रवर्ग्यकाण्डं च याश्चोपनिषदो विदुः ।

अरुणाम्नायविधिश्चैव काठके परिकीर्तितौ ॥

रुद्रा नारायणश्चैव मेधो यश्चैव पित्रियः ।

एतदारण्यकं सर्वं नाव्रती श्रोतुमर्हति ॥

कारीर्यश्चापि पित्र्याश्च दिवाकीर्त्येति येषु च ।

रुद्रास्सन्ततिरित्येतावनुवाकौ च सात्रिकौ ॥

होतृविध्यवसाने चाप्यनुवाकचतुष्टयम् ।

सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैव पित्रियः ॥

काठकानि च सर्वाणि सर्वाण्यारण्यकानि च ।

दिवाकीर्त्यानि शाखायामेतावन्तीह धारणा ॥

कल्पे पितृविधिश्चैव प्रवर्ग्यविधिरेव च ।

काठकानां विधिश्चैव कारीरीविधिरेव च ॥

अरुणाम्नायविधिश्चैव शतरुद्रविधिस्तथा ।

कल्पेषु च य आम्नाता मन्त्रास्तानप्यतन्द्रितः ॥

यथाव्रतमुपाकृत्य अधीयीतेति चोच्यते ॥ इति ॥

वास आमन्त्र्योच्यते - हे वासः मारुतं मरुतां संबन्धि त्वमसि, मरुतां ओजो बलं त्वमसि ; त्वदधीनबलत्वात्तेषाम् । अतोपां धारां भिन्धि पातय । यद्वा - अपां धारयितारं मेघं भिन्धि । लिङ्गव्यत्ययः । अपां धारयित्री वा मेघपङ्क्तिं भिन्धि ॥

2 पश्चाद्वातं प्रतिमीवति निवर्तयति - रमयतेति जगत्या ॥ हे मरुतः रमयत उपरमयत निवर्तयत श्येनं श्येनगतिमपि पश्चाद्वातं निवर्तयत । यद्वा - उदकस्य श्यातारं अपगमयितारं तनूकर्तारं वा आयिनं आगमनवन्तं आवन्तं[यान्तं] निवर्तयत । अथ तन्निवर्त्य अन्यं मनोजवसं महावेगं वृषणं वर्षितारमुदकस्य सुवृक्तिं शोभनशक्तिं पुरोवातं रमयतेत्येव । सामर्थ्यात् प्रवर्तयतेत्यर्थस्य गतिः । यद्वा - श्येनं प्रशस्तगमनं आयिनं उदकानयनकुशलं मनोजवसं वृषणं शोभनशक्तिं च पुरोवातं रमयत प्रवर्तयत । सामर्थ्याद्विपरीतस्वभावं पश्चाद्वातं निवर्तयतेति गम्यते । एवं श्रुत्यर्थाभ्यां लब्धमुभयं ब्राह्मणं प्रतिपादयति 'पश्चाद्वातं प्रति मीवति पुरोवातमेव जनयति' इति । येन प्रकारेण कृते शर्धः उदकं बलहेतुर्वा मरुतां बलकृतं वा । उग्रं उद्गूर्णं अवसृष्टं मुक्तं एति आगच्छति तथा रमयतेति । हे अश्विनौ युवामपि तदुदकं परिधर्त्तं परितो धारयतं स्वस्ति अविनाशार्थं लोकस्य उदकस्यैव वा अक्षयाय ॥
3 -10वातनामानि जुहोति - पुरोवात इत्यष्टौ ॥ पुरोवातः पूर्वस्या दिशः आगतः पुरोवातो वर्षन् जिन्वः प्रीणयिता लोकस्य पुरोवातस्य प्रीणनत्वात् । जिवि प्रीणने, इदित्वान्नुम्, पचाद्यच्, छान्दस स्सांहितिकोस्य रेफः, उक्तं च प्रातिशाख्ये - 'आवृत्परः' इति । आवृत् आवर्तमानः आस्त्विति शेषः । आवर्ततामिति यावत् । स्वाहुतं चेदमस्तु तस्मा इति । वातावत् वातेन युक्तं वर्षम् । छान्दसं दीर्घत्वम् । उग्रं उद्गूर्णम् । आवृत्परण्यं [...त्परत्वाद्रेफः] वातयुक्तस्योद्गूर्णत्वात् । समानमन्यत् । स्तनयन् शुष्कं गर्जन् वर्षन् भीमः भीतिहेतुः प्रजानां, तस्य तत्स्वभावत्वात्, अनशनि अविद्यमानाशनिपातं अवस्फूर्जन् अवसेचनेन शब्दयन् दिद्युत् दीप्तिमत् विद्युत्संबन्धेन प्रकाशयन् आयुधवानिव वर्तमानो वा । अत एव त्वेषः दीप्यमानः । अतिरात्रं रात्रिमप्यतीत्य सर्वमप्यहोरात्रं, न रात्रिमात्रम् । 'अहस्सर्वैक' इत्यच्समासान्तः । पूर्तिः पर्याप्तिमान् पूरयद्वा महीतलं सर्वम् । क्तिच् । बहु प्रभूतम् । हेत्यवधारणे । बह्वेवायमवृषात् अवर्षत् । देव इत्येवं श्रुतः सर्वविख्यातं गच्छन् आतपति आतपे सति, ईषत्तपति वा सूर्ये वर्षन् विराट् प्रशस्ततया विराजमानः अवस्फूर्जन्दिद्युद्वर्षन्भूतः प्रभूतः सर्वलोकधारणक्षमः पुनःपुनरित्थं वर्षत्विति प्रतिपादनार्थं अवस्फूर्जन्नित्यादेः पुनराम्नानम् ॥
11 -13अन्तर्वेदि कृष्णाजिने कृष्णेन मधुषा करीरसक्तून् संयौति - मान्दा वाशा इति तिसृभिः ॥ प्रथमा एकपदा गायत्री । परे द्वे द्विपदे गायत्र्यौ । मान्दादीत्येतान्यपां नामानि एकादश । सर्वाण्यप्यामन्त्रिताद्युदात्तानि, पूर्वपूर्वविद्यमानतया उत्तरोत्तरनिघाताभावः । मन्दयन्ति मोदयन्ति प्रजा इति मान्दाः । पचाद्यच्, व्यत्ययेनानुपधाभूतस्याप्याकारस्य णिचि वृद्धिः । वाशयन्ति शब्दयन्ति प्रजा इति वाशाः । वाशृ शब्दे । वष्टेर्वा घञ् । काम्याः । शुन्ध्यूः शोधायित्र्यः । औणादिकः क्विप्रत्ययः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अजिराः अजनशीलाः, जनन्यादिरूपेण परिणामात् । ज्योतिष्मत्यः सच्छायाः दुर्ज्ञानयाथात्म्याः । तमस्वरीः दौर्दिन्यकारिण्यः । उन्दत्यः क्लेदयित्र्यो भुवः । सुफेनाः अलङ्कारभूतफेनाः उपर्युपरि वधर्मानाः । मित्रभृतः दुःखात्त्रायकाणां ओषध्यादीनां भर्त्र्यः । क्षत्रभृतः बलस्य पोषयित्र्यः । सुराष्ट्राः शोभनरार्ष्ट्रं कर्तुं समर्थाः । ईदृश्यो यूयं इहास्मिन् कर्मणि मामवत अविघ्नेन प्रवर्तयत । यद्वा - कर्मफलप्रदानेन मां तर्पयत ॥
14 अथ करीरसक्तून् तिस्रः पिण्डाः कृत्वा समुद्धृत्य कृष्णाजिनस्यान्तान् कृष्णेन सन्दानेनोपनह्यति - वृष्ण इति ॥ वृष्णः वर्षितुरश्वस्य व्यापकस्य सन्दानं बन्धनमसि । अतो वृष्ट्यै वृष्ट्यर्थं त्वामुपनह्यामि बध्नामि, त्वयोपनह्यामि वा ॥
इति द्वितीये चतुर्थे सप्तमोनुवाकः ॥