प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.9.1 TS 2.4.9.1
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं ॅवासः॑ कृ॒ष्णतू॑षं॒ परि॑ धत्त ए॒तद्वै वृष्‌ट्यै॑ रू॒पꣳ सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ ॅवर्.षयतिर॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तं प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्॒.षस्या व॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्‌ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयत्य॒ष्टौ - [ ]
पदपाठः (Word-by-word)
मा॒रु॒तम् । अ॒सि॒ । म॒रुता᳚म् । ओजः॑ । इति॑ । कृ॒ष्णम् । वासः॑ । कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण - तू॒ष॒म् । परीति॑ । ध॒त्ते॒ । ए॒तत् । वै । वृष्ट्यै᳚ । रू॒पम् । सरू॑प॒ इति॒ स - रू॒पः॒ । ए॒व । भू॒त्वा । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒ति॒ । र॒मय॑त । म॒रु॒तः॒ । श्ये॒नम् । आ॒यिन᳚म् । इति॑ । प॒श्चा॒द्वा॒तमिति॑ पश्चात् - वा॒तम् । प्रतीति॑ । मी॒व॒ति॒ । पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् । ए॒व । ज॒न॒य॒ति॒ । व॒र्॒.षस्य॑ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ । जु॒हो॒ति॒ । वा॒युः । वै । वृष्ट्याः᳚ । ई॒शे॒ । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒ति॒ । अ॒ष्टौ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके नवमोनुवाकः)। (कारीरीमिष्टमन्त्रव्याख्यानम्) कारीर्युत्तरभागस्था मन्त्रा अष्टम ईरिताः। अथ नवमे पूर्वभागस्थाः सप्तमानुवाकोक्तमन्त्रा व्याख्यायन्ते। तत्र यजमानस्य वस्त्रपरिधानं विधत्ते मारुतमसीति। तूषा वस्त्रस्य दशान्ताः कृष्णा यस्य तत्कृष्णतूषम्। जलपूरितैर्मेवैरादित्यप्रकाशे सर्वत आवृते सति वृष्टेः स्वरूपं कृष्णं भाति। यजमानोपि कृष्णवस्त्रप्रावरणो वृष्टिसमानरूपः सन्पर्जन्यं वर्षयितुं प्रभुर्भवति। मन्त्रान्तरं विनियुङ्क्ते रमयतेति। प्रतिमीवति प्रतिबध्नाति। पुरोवातो वर्षन्नित्यादिमन्त्राणां विनियोगं दर्शयति वातनामानीति। जिन्वरुग्ररित्यादीनि वायोर्नामानि तदुद्देशेन होमे सति यो वायुर्वृष्टेरीश्वरः स तुष्टः सन्वर्षयति। पाठप्राप्तां मन्त्रसंख्यां प्रशंसति अष्टौ जुहोतीति मान्दा वाशा इति मन्त्रेण सक्तूनां संयवनं यद्विधास्यते तस्याधारं विधत्ते कृष्णाजिने इति। प्रकृतौ कृष्णाजिने हविः रूपान्व्रीहनिवहन्ति तण्डुलान्पिनष्टि च। अतोत्रापि कृष्णाजिने संयवने वा हविः कृतं भवति। देशविशेषं विधत्ते—

"अन्तर्वेदीति। वेदेर्बाहिः संयवने यज्ञभूमिमप्रविश्य हविनावरुध्यते। करीराणि विधातुं प्रस्तौति। यतीनामिति। पारमहंस्यरूपं चतुर्थाश्रमं प्राप्तानां येषां यतीनां मुखे ब्र ह्मात्मप्रतिपादको वेदान्तशब्दो नास्ति तान्यतीनिन्द्र आरण्येभ्यः श्वभ्यः प्रायच्छत्। तथा कौषीतकिब्राम्हणोपनिषदीन्द्रस्य प्रतिज्ञा समाम्नायते। “अरुन्मुखा न्यतीन्त्सालावृकेभ्यः प्रायच्छम्” इति। पतितत्वातेषां तथात्वं युक्तम्। तथा च स्मर्यते “नित्यकर्म परित्यज्य वेदान्तश्रवणं विना। वर्तमानस्तु संन्यासी पतत्येव न संशयः।। इति।” तेषां च सालाबृकैर्भक्षणं षष्ठकाण्डे समाम्नायते “इन्द्रो यती त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्” इति। वेदान्तश्रवणवाञ्छां विना नित्यकर्म परित्यक्तवतां भवतामपीदृशी गतिरिति दर्शयितुं वेदिसमीपे भक्षणम्। सा लावृकैरद्यमानानां यतीनां यानि शीर्षाणि कपालास्थीनि भूमावपतन्, तानि खर्जूरवृक्षत्वेनोदभवन्। ये तालाभिधाना महाखर्जूरास्तेषां फलानि शिरः कपालसदृशानि लक्ष्यन्ते। तेषां फलानां रस ऊर्ध्वनुत्क्रम्य भूमावपतत्। पतित्वा च सोमलतासदृशीनां लतानां सोमप्रतिनिधि भूतानामङकुररूपाणि करीर शब्दवाच्यान्यभवन्। अत एव सोमाङकुरसदृशत्वातसौम्यानि करीराणि, तदाहुतिश्च सौम्या सती दिवः सकाशाद्वृष्टिं प्रच्यावयति। “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः” इति स्मृतेः। सक्तूनां प्रकृतिद्रव्यं विधत्ते—यत्करीराणीति ।संयवनसाधनं माक्षिकद्रव्यं विधत्ते "

"मधुषा समिति। माक्षिका हि नानाविधेभ्य पुष्पभ्यो रसानादाय मधू कुर्वन्ति। तेषां च सानामोषधिजन्यत्वाच्चोभयसारत्वम्। मन्त्रेण संयवनं विधत्ते मान्दा वाशा इति। मान्दादीन्यपां नामानि तैरेना अभिमुखत्वेन प्राप्नोति। किंच, हे देवदत्त समागच्छेति यथा लोके ब्रूयादेवमेवैना अपः स्वनामभिराच्या वयति। कृष्णाजिनबन्धनमन्त्रं व्याचष्टे वृष्णो अश्वस्येति। यथाश्वो वृषा सेचनसमर्थ एवं पर्जन्योपि सेचनसमर्थः संन्नुदकपूर्णे (रणे) न कृष्ण एव भूत्वा पश्चाद्वर्षति। अतः कृष्णेन रज्जु रूपेणैनं पर्जन्यं समृद्धं करोति। तच्च वर्षस्यावरोधाय संपद्यते।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके नवमोनुवाकः ।। ९ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ 'मारुतमस्ति' इत्यादीनां करीरीमन्त्राणां ब्राह्मणम् - मारुतमसीत्यादि ॥ कृष्णतूषं कृष्णदशान्तं (उदकं) कृष्णं वासो यजमानः परिधत्ते । एतत्कृष्णं वासः वृष्ट्यै वृष्ट्या रूपं ; ततश्च पर्जन्यसमानरूपो भूत्वा पर्जन्यं वर्षयति । रमयतेत्यादि । पश्चाद्वातं अपरस्यां दिशि आगच्छन्तं वातं प्रतिमीवति प्रतिनिवर्तयति वर्षप्रतिकूलमपि पुरोवातं पूर्वस्या दिशि आगच्छन्तं वातं वर्षानुकूलं जनयत्येव । तस्य वर्षस्यावरुद्ध्यै भवति । मीव स्थौल्ये । प्रतिमीवति क्षीयमाणं करोतीति यावत् ॥
2 वातनामानीति ॥ 'पुरोवातो वर्षन्' इत्यादीन्यष्टौ । ईश इति । 'लोपस्त आत्मनेपदेषु' इति तलोपः । अष्टावित्यादि । गतम् । कृष्णाजिने संयौतीति । अन्तर्वेदि कृष्णाजिने मधुषा करीरसक्तून् संयौतीति । हविरेवाकः अकार्षीत् करोति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लुक् । अन्तर्वेदि संयवनं वर्षस्यावरोधनाय भवति । यतीनामिति । प्राणिनां यातयितारो रक्षोवीशेषाः यतयः तेषां षालावृकैरद्यमानानाम् । यदाह – 'इन्द्रो यतीन् सालावृकेभ्यः' इत्यादि । खर्जूराः महातालाः तत्फलानि करीराणि । सौम्यनीति । रसपरिणामत्वात् । सौम्येति । सौम्यैव हि दिवो वृष्टिं च्यावयितुं शक्नोति । गतमन्यत् ॥
3 मधुषेति ॥ कृष्णेन । मधुशब्दपर्यायो मधुश्शब्दः उसिप्रत्ययान्तः । अद्भ्य ओषधीभ्यश्च हेतुभ्यः वृष्टिं प्रवर्तयति मधुषा संयवनेन । अथो इति । अपि च अद्भ्य ओषधीभ्योपि उपादानेभ्यः वृष्टिमुत्पादयति ॥
4 नामधेयैरिति ॥ मान्दादिभिरेकादशभिः । अच्छैति आभिख्येन प्राप्नोति अभिमन्त्रणेनाभिमुख्यकरणात् । अथो इति । असाविति । नामविशेषार्थं सामान्यपदम् । यथा कश्चिदामन्त्रयमाणो ब्रूयात् दत्त एहि गुप्त एहि इति एवमेवापोपि नामधेयैरात्मसमीपे आगमयति ॥
5 वृष्ण इति ॥ तिस्र पिण्डीः कृत्वा समुच्चित्यानेन मन्त्रेण कृष्णाजिनस्यान्तान् सन्दानेनोपनह्यति । वृषेति । वर्षिता अश्वः पर्जन्यो वा वर्षिता । तस्माद्वृषत्वेन पर्जन्यसदृशाश्वसंकीर्तनं वृष्ट्यै भवति । किञ्च - कृष्ण इव भूत्वा पर्जन्यो वर्षति । तस्मात्कृष्णाजिनसम्बन्धः रूपसमृद्ध्या वृष्टिहेतुर्भवति ॥
इति द्वितीये चत्रुर्थे नवमोनुवाकः ॥