सौ॒म्ययै॒वाऽऽ*हु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं ॅयौ᳚त्य॒पां ॅवा ए॒ष ओष॑धीनाꣳ॒॒ रसो॒ यन्मद्ध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्.ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒निं न॑यति॒ मान्दा॒ वाशा॒ इति॒ संॅयौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒ वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा - [ ]
पदपाठः (Word-by-word)
सौ॒म्यया᳚ । ए॒व । आहु॒त्येत्या - हु॒त्या॒ । दि॒वः । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । मधु॑षा । समिति॑ । यौ॒ति॒ । अ॒पाम् । वै । ए॒षः । ओष॑धीनाम् । रसः॑ । यत् । मधु॑ । अ॒द्भ्य इत्य॑त् - भ्यः । ए॒व । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । व॒र्.॒ष॒ति॒ । अथो॒ इति॑ । अ॒द्भ्य इत्य॑त् - भ्यः । ए॒व । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वृष्टि᳚म् । नीति॑ । न॒य॒ति॒ । मान्दाः᳚ । वाशाः᳚ । इति॑ । समिति॑ । यौ॒ति॒ । ना॒म॒धेयै॒रिति॑ नाम-धेयैः᳚ । ए॒व । ए॒नाः॒ । अच्छ॑ । ए॒ति॒ । अथो॒ इति॑ । यथा᳚ । ब्रू॒यात् । असौ᳚ । एति॑ । इ॒हि॒ । इति॑ । ए॒वम् । ए॒व । ए॒नाः॒ । ना॒म॒धेयै॒रिति॑ नाम-धेयैः᳚ । एति॑ ।