प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.8.2 TS 1.2.8.2
क्रतुं॒ ॅवरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒थ् सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं ॅव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ॥ उस्रा॒वेतं॑ धूर्.षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥
▶ पदपाठः (Word-by-word)
क्रतु᳚म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । दि॒वि । सूर्य᳚म् । अ॒द॒धा॒त् । सोम᳚म् । अद्रौ᳚ । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ॥ दृ॒शे । विश्वा॑य । सूर्य᳚म् ॥ उस्रौ᳚ । एति॑ । इ॒त॒म् । धू॒र्.॒षा॒हा॒विति॑ धूः - सा॒हौ॒ । अ॒न॒श्रू इति॑ । अवी॑रहणा॒वित्यवी॑र - ह॒नौ॒ । ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म - चोद॑नौ । वरु॑णस्य । स्कंभ॑नम् । अ॒सि॒ । वरु॑णस्य । स्कं॒भ॒सर्ज॑न॒मिति॑ स्कंभ -सर्ज॑नम् । अ॒सि॒ । प्रत्य॑स्त॒ इति॒ प्रति॑ - अ॒स्तः॒ । वरु॑णस्य । पाशः॑ ॥
पदसंख्या: 35