य॒वयारा॑तीः पितृ॒णाꣳ सद॑नम॒स्युद्दिवꣳ॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीं दृꣳ॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर् ध्रु॒वेण॒ धर्म॑णा ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ दृꣳह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदो॑ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा ( ) भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ॥
पदपाठः (Word-by-word)
य॒वय॑ । अरा॑तीः । पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । उदिति॑ । दिव᳚म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । पृ॒थि॒वीम् । दृꣳ॒॒ह॒ । द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ । मि॒॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । ध्रु॒वेण॑ । धर्म॑णा । ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा - वनि᳚म् । रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्योष - वनि᳚म् । परीति॑ । ऊ॒हा॒मि॒ । ब्रह्म॑ । दृꣳ॒॒ह॒ । क्ष॒त्रम् । दृꣳ॒॒ह॒ । प्र॒जामिति॑ प्र - जाम् । दृꣳ॒॒ह॒ । रा॒यः । पोष᳚म् । दृꣳ॒॒ह॒ । घृ॒तेन॑ । द्या॒वा॒ पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् । इन्द्र॑स्य । सदः॑ । अ॒सि॒ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छा॒या । परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः () । भ॒व॒न्तु॒ । वि॒श्वतः॑ । वृ॒द्धायु॒मिति॑ वृ॒द्ध - आ॒यु॒म् । अन्विति॑ । वृद्ध॑यः । जुष्टाः᳚ । भ॒व॒न्तु॒ । जुष्ट॑यः । इन्द्र॑स्य । स्यूः । अ॒सि॒ । इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ । ऐ॒न्द्रम् । अ॒सि॒ । इन्द्रा॑य । त्वा॒ ॥